________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
जैनेन्द्र-व्याकरणम् [म० ३ पा० २ सू० २४-३२ महेन्द्राद्घाऽणौ च ॥३२॥२४॥ सास्य देवतेति वर्तते । महेन्द्रशब्दाद्ध अण् इत्येतौ भवतश्छश्च । महेन्द्रो देवता अस्य महेन्द्रियः । माहेन्द्रः । महेन्द्रीयः।
सोमाट्यण ॥३२॥२५॥ सोमशब्दाट्यण् भवति सास्य देवतेत्यस्मिन्विषये । अणोऽपवादः । सोमो देवता अस्य सौम्यः । स्त्रियां सौमी । “हलो हतो ज्याम्" [ ...] इति यखम् ।
वाय्वृतुपित्रुषसो यः ॥३२॥२६॥ वायु ऋतु पितृ उषस् इत्येतेभ्यो यो भवति । अणोऽपवादः । माऽस्य देवता इति वर्तते । वायव्यः। ऋतव्यः । पित्र्यः । "परीकृतः' [५।२।१३६] इति रीडादेशः । उपस्यः ।
धावापृथिवीसुनाशोरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेघाच्छु च ॥ शरा२७ ॥ द्यावापृथिवी इत्येवमादिभ्यश्लो भवति यश्च सास्य देवतेत्यस्मिन्विषये। द्योश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथिवीयः। द्यावापृथिव्यः । सुनो वायुः शीर आदित्यः सुनश्च शीरश्च "देवताद्वन्द्व" [भश१३०] इत्यानङ्। सुनाशीरौ देवते अस्य सुनाशीरीयः। सुनाशीयः। मरुलान् देवता प्रस्य महत्वतीयः । मरुत्वत्यः । अग्निश्च सोमश्च देवते अस्य अग्नीप्रोमीयः। अग्नीषोम्यः । “सोमवरुणेऽग्नेरी:" । १४०] इतीत्वम् । "स्तुत्सोमो चाग्नेः" [१६५] इति षत्वम् । वास्तोष्पतीयः । वास्तोष्पत्यः । पुल्लिङ्गत्वं ताया अनुप्षत्वं च निपातनात् । गृहमेधीयः । गृहमेध्यः ।
सर्वत्राग्निकलिभ्यां ढण् ॥३२॥२८॥ साऽस्य देवतेति वर्तमाने सर्वत्रग्रहणं सर्वार्थसंग्रहार्थम् । अग्निकलिशब्दाभ्यां सर्वेष्वर्थेषु ढण् भवति प्राग्द्रोः । अग्निर्देवता अस्य अग्नौ भवः अग्नेरागतो आग्नेयः । एवं कालेयः।
कालेभ्यो भववत् ॥३।२।२६॥ कालविशेषवाचिभ्यो भव हव त्यविधिर्भवति । वत्करणं सर्वविशेषपरिग्रहार्थम् । येभ्यः कालविशेषवाचिभ्यो मृदभ्यो भवे ये त्या विहिताः सास्य देवतेत्यस्मिन्विषये तेभ्य एव मृभ्यस्त एव त्या प्रतिदिश्यन्ते । यथा मासे भवं मासिकं सांवत्सरिकं वासन्तं प्रावृषेण्यम् । "काळाठम" [३।२।११] "भसंध्यात्य॒तुभ्यो वर्षाभ्योऽण् [३।२।१३७) "प्रावृष एण्यः" [ ३।२।१३६] एते त्या भवन्ति । तथा मासो देवता अस्य वसन्तो देवता अस्य प्रावृड् देवता अस्येति अत्रापि भवन्ति ।
( महाराजप्रोष्ठपदाभ्यां ठण् ॥३|३०|| महाराजो वैश्रवणः । महाराज प्रोष्ठपदा इत्येताभ्यां ठण भवति तस्य देवतेत्यस्मिन्विषये । महाराजो देवताऽस्य माहारानिकः । प्रोष्ठपदा देवताऽस्य प्रोष्ठपदिकः । "ठणप्रकरणे तदस्मिन्वर्तते इति नवयज्ञादिभ्य उपसंख्यानम्" [वा० ] नवयज्ञोऽस्मिन् वर्तते नावशिकः । पाकयज्ञिकः । "पूर्णमासादण वक्तव्यः" [वा०] पूर्णमासोऽस्यां वर्तते पौर्णमासी तिथिः ।)
पितृव्यमातुलमातामहपितामहाः ॥३२॥३१॥ पितृव्यादयः शब्दा निपात्यन्ते । समर्थविभक्तिस्त्योऽनुबन्धस्त्यार्थ इति सर्वमिदं निपात्यते। पितृमातृभ्यां तासमर्थाभ्यां भ्रातरि वाच्ये व्यडुलो निपात्येते पितुता पितृव्यः । मातुर्धाता मातुलः । डिवाट्टिखम् । "ताभ्यामेव पितरि डामहः" [वा०] मातुः पिता मातामहः । "स एव डामहो मातरि वाच्या टिच्च" [वा०] मातुर्माता मातामही । पितुर्माता पितामही । टिवान्डीविधिः।
तस्य समूहः ॥३२॥३२॥ तस्येति तासमर्थात् समूह इत्येतस्मिन्नर्थे यथाविहितस्त्यो भवति । चित्तवदवृद्धं यस्य न चान्यत्र प्रतिपदं ग्रहणं तदिहोदाहरणम् । अचित्तवतष्ठ वदणय ते । वृद्धावुन् । प्रति
For Private And Personal Use Only