________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ. ३ पा० १ सू० १४-२३] महावृत्तिसहितम्
वोदश्वितः ॥३२॥१४॥ उदश्वित्-शब्दादीपसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ठण् भवति । उदश्विति संस्कृत श्रोदनः औदश्वित्कः । श्रौदश्वितः । अतोऽपि वावचनाज्ञायते तेन संस्कृतातत्र संस्कृतस्यार्थभेदः । अन्यथेवन्ताहण, भान्तादण इत्युभयं सिद्धं स्यात् ।
क्षोराड ढण् ॥३२॥१५॥ क्षीरशब्दादी समर्थात् संस्कृतं भक्षा हत्येतस्मिन्नर्थे ढण् भवति । श्रणोऽपवादः । दीरे संस्कृता बैरेयी यवागूः।
सास्मिन् पौर्णमासीति खो ॥२२॥१६॥ सेति वासमर्थादस्मिन्निति ईबर्थे यथाविहितं त्यो भवति यत्तद्वानिर्दिष्टं पौर्णमासी सा चेद्भवति । इतिकरणाद्यदि लोके विवक्षा समुदायेन चेत् संज्ञा गम्यते । पूर्णमासा चन्द्रमसा युक्तः कालः पोर्णमासी। इदमेव ज्ञापकमत्राण भवतीति । माघी पौर्णमास्यस्मिन मासेऽद्धमासे संवत्सरे वा माधो मासोऽद्धमासः संवत्सरः। एवं पौषः । स्वाविति किम् ? माघी पौर्णमास्य स्मिन् पञ्चदशरात्रे । इतिशब्दः किमर्थः १ विद्यमानेऽपि लक्षणे लौकिकप्रयोगानुसारणार्थः । इह मा भूत् । माधी पौर्णमासी अस्मिन् हि भवति संवत्सरपर्वणि ।
अश्वत्थाग्रहायणीभ्यां ठन ॥२२॥१७॥ सास्मिन् पौर्णमासीति वर्तते । अश्वत्थ श्राग्रहायणी इत्येताभ्यां पौर्णमासीति वासमाभ्यामस्मिन्निति ईबर्थे ठञ् भवति । अणोऽपवादः । अश्वत्थेन युक्तः कालः अश्वत्था पोर्णमासी अस्मिन्मासे श्रद्धं मासे संवत्सरे वाऽश्वत्थिकः । अग्रहायणेन युक्तः काल श्राग्रहायणी श्राग्रहायणिकः।
फाल्गुनोश्रवणाकार्तिकीचैत्रीभ्यो वा ॥३२॥१८॥ फाल्गुन्यादिभ्यो वा ठप भवति । सास्मिन् पौर्णमासीति वर्तते । फाल्गुनी पौर्णमासी अस्मिन् मासे संवत्सरे वा फाल्गुनिकः । फाल्गुनः । एवं श्रावणिकः। श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ।
( सास्य देवता ॥ २२।१९ ॥ सेत्यत्र लिङगवचने अप्रधानभूते । सेति वासमर्थादस्येति ताऽथ यथाविहितं त्यो भवति, यत्तद्वानिर्दिष्टं देवता चेत्स भवति । अर्हन् देवता अस्य श्रार्हतः । भगवती देवता अस्य भागवतः । बार्हस्पत्यः। सेति वर्तमाने पुनः साग्रहणं संज्ञाविषयनिवृत्त्यर्थम् । तेन संज्ञायां वायं विधिः। देवतेति किम् ? कन्यो देवदत्तस्य ।
कस्यः ॥३२॥२०॥ कशब्देन प्रजापतिरभिधीयते । कस्य इकारोऽन्तादेशो भवत्यण च सास्य देवतेत्यस्मिन्विषये । को देवताऽस्य कायं हविः । अणि पूर्वेण सिद्ध इत्वार्थं वचनम् । प्रारम्भसामर्थ्यात् "यस्य या च" [ ३५] इति खं न भवति ।
शुक्राद् घः ॥३२॥२१॥ शुक्रशब्दाद् घो भवति । अणोऽपवादः । सास्य देवतेति वर्तते। शुक्रो देवतास्य शुक्रियः।
अपोनप्पान्नप्तृभ्याम् ॥३।२।२२।। घ इति वर्तते । अपोनप्तृ अपानप्त इत्येताभ्यां धो भवति । अशोऽपवादः । साऽस्य देवतेति वर्तते । अपोनपाद्देवताऽस्य अपोनष्त्रियः। अपानपाद्देवता अस्य अपानत्रियः। प्रत्यय (त्य) सन्नियोगेन प्रकृत्योः अपोनप्तृनपानप्तृभावो निपात्यते । संप्रेषे अपोनपाते ब्रूहि अपान्नपाते ब्रूहि इति भवति ।
छः ॥३२॥२३॥ अपोनप्त्रु अपान्नप्तृ इत्येताम्यां छश्च भवति सास्य देवतेत्यस्मिन् विषये । अपोनप्त्रीयः । अपान्नपत्रीयः । योगविभाग उत्तरार्थः "पौशीपुत्रादिभ्यरको वक्तव्यः" [ वा०] पौगीपुत्रीयः । तार्णविन्दवीयः । "शतरुवातश्च" [वा०] शतरुद्रियः । शतरुद्रीयः ।
२३
For Private And Personal Use Only