SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ जैनेन्द्र-व्याकरणम् [अ० ३ पा० २ सू० ६-१३ पौषः कालः इति । श्रथेह कथमुस् न भवति श्रद्य दिवा पुष्यः । श्रद्य रात्रौ पुष्य इति । पूर्वमष्टप्रहरात्मकस्य समुदायस्याभेद उस विधाय पश्चाद्दिवारात्रिशब्दयोः प्रयोगः कृतः । खौ श्रवणश्वत्थाभ्याम् ||३२|६|| खौ भेदेऽपि उस यथा स्यादित्यारम्भः । श्रवण श्रश्वस्थ इत्येताभ्यामुतनस्य यस्योस् भवति खुविषये । श्रवणेन युक्ता श्रवणा रात्रिः । श्रश्वत्थेन युक्ता श्रश्वत्था रात्रिः । अश्वत्थ मुहूर्तः | "फाल्गुनीश्रवग्या का र्तिकी चैत्रीभ्यः " [ ३१२/१८ ] इति श्रवणाशब्दनिर्देशो शापक ह सूत्रे उसियुक्तवद्भावो न भवति । स्वाविति किम् ? श्रावणी रात्रिः । श्राश्वत्थो रात्रिः । द्वन्द्वाच्छः ||३|२|७॥ भद्वन्द्वाद्भासमर्थात् युक्तः काल इत्येतस्मिन्नर्थे छो भवति भेदे चामेदे च । अणोऽपवादः । राधानुराधीयम् । राधानुराधीयं तिष्यपुनर्वसवीयमहः । श्रद्य तिष्यपुनर्वसीयम् । श्रयं परत्वादुसो बाधकः । परिवृतो रथः ||३|२२८ ॥ तेनेति वर्तते । तेन परिवृत इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति यः परिवृतो रथश्चेत् स भवति । वस्त्रेण परिवृतो रथो वास्त्रः । काम्बलः । चार्मणः । " अनः " [ ४|४|११ ८ ] इति णि टिखाभावः । रथ इति किम् ? वस्त्रेण परिवृता शय्या । स इह कस्मान्न भवति छात्रः परिवृतो रथ इति १ अनभिधानात् । अथवा समन्तादुद्वृतः परिवृत इत्याश्रयणात् । रथैकदेशस्त्यमुत्पादयति न छात्रादिः । इह कस्मादण् न भवति । पाण्डुकम्बलैः परिवृतो रथ इति १ अनभिधानात् । कथं पाण्डुकम्बली रथ इति पाण्डुकम्बला अस्य संबृह्य ( सन्ति व्रीह्यादि) पाठात् यसे कृते इन्द्रष्टव्यः । ठस्याभिधानं नास्ति । "तीया - न्तात् स्वार्थं वा ईक वक्तव्यः " [वा०] द्वैतीयिकम् । द्वितीयम् । तार्तीयिकम् । तृतीयम् । “विद्याया अभिवाने नेष्यते” [वा०] द्वितीया विद्या । तृतीया विद्या । इह कथमय् भवति ? न विद्यते पूर्वः पतिर्यस्याः सा पूर्वा कुमारी । तादृशीं कुमारीमुपपन्नः कौमारः पतिरिति "तन्त्र भव:" [३३३३२८] इत्यण् भविष्यति । कुमार्यां भवः पतिः कौमारः पतिः । पुंयोगात् कौमारी भार्यां इत्यपि सिद्धम् । तत्रोद्धृतममत्रेभ्यः ॥३॥२९॥ भुक्तावशिष्टमुद्धृतमुच्यते इति केचित् । तत्तु नातिश्लिष्टम् अन्यत्रापि प्रयोगात् । उद्धृतं ब्राह्मणेन लब्धमिति । तत्रेति ईप्समर्थादमत्रवाचिनो मृदः उद्धृतमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । सरावेषु उद्धृत श्रोदनः सारावः । माल्लवः ( माल्लिक: ) । श्रमत्रेभ्य इति किम् ? पाणावुद्धृत श्रोदनः । स्थाण्डिलः ||३|२|१०|| स्थाण्डिल इति निपात्यते । स्थण्डिलशब्दादीबन्ता च्छयितर्यभिधेयेऽणू निपात्यते समुदायेन व्रते गम्ये । स्थण्डिले शेते स्थाण्डिलो ब्रह्मचारी | व्रतादन्यत्र स्थण्डिले शेते देवदत्त इति । संस्कृतं भक्षाः ||३|२|११ ॥ सतो गुणान्तराधानं संस्कारः । खरविस (श) दमभ्यवहार्य भक्षः । तत्रेति ईप्समर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति यत्तत् संस्कृतं भक्षाश्चेत्तद् भवति । भाष्ट्रे संस्कृताः भ्राष्ट्राः । एवं कैलासाः ( कालशाः ) पात्राः । भक्षा इति किम् ? फलके संस्कृतो मालागुणः । - शूलो खाद्यः ||३२|१२|| शूल उखा इत्येताभ्यां ईप्समर्थाभ्यां संस्कृतं भक्षा इत्येतस्मिन्नर्थे यो भवति । अणोऽपवादः । शूले संस्कृतं शूल्यम् । उखायां संस्कृतमुख्यम् । उपमानात् सिद्धम् । पिठरे शूले इव संस्कृतं पिठरशूल्यम् । मयूरव्यंसकादित्वात् सविधिः । दध्नष्ठण ॥३।२।१३॥ दधिशब्दादीप समर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ठणू भवति । दधि संस्कृतं दाधिकम् । तत्र यद्दभि संस्कृतं तद्दध्ना संस्कृतमित्यपि भवति । एवं च " तेन संस्कृतम्' इति वक्ष्यमा - योन ठणा सिद्धं नार्थोऽनेन १ नैष दोषः । यदन्यत्रोत्पन्नं दधिकृतमेवोत्कर्षमपेक्षते तदिहोदाहरणम् । यस्य तु दध्ना लवणादिना च संस्कारस्तस्य वच्यमाणमुदाहरणम् । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy