________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म.३ पा.२सू०.१-]
महावृत्तिसहितम् भर्गादेरिति किम् । प्राच्या ये राष्ट्राभिधाना राजानस्तेभ्य उप प्रतिषिध्यते । पाञ्चाली । वैदेही । पैप्पली । पानी। वाङ्गी । सौझी । पोएड्री। मागधी । कालिङ्गी। भर्गादेरमाच्यार्थ उप प्रतिषेधः । भर्गस्यापत्यं स्त्री मार्गी । करूषस्य कारूषी । भर्ग करूष केकय कश्मीर सेल्व (सुल्वा) सुस्थाल उरस कौरव्य । वचनाद्यर्थेण उपि कुरूः । अनेनानुपि कौरव्येति । यौधेयः । शौक्रेय शौभ्रेय घातय ग्रावाणेय नृगत भरत । उशीनर । कस्य पुनरकारस्य यौधेयादिभ्यः द्रुसंज्ञकेभ्यः परस्योप् प्राप्तः प्रतिषिध्यते १ उच्यते । "परवदेरण' [२६] इति द्रिसंज्ञकोऽण् स्वार्थिको वक्ष्यते । तस्यायं प्रतिविधिः' न तु राष्ट्र समानशब्दात् । श्रापत्यस्य उबुच्यमानः कथं स्वार्थिकस्य मिन्नप्रकरणस्य नेरुन्भवति । इदमेव यौधेयादिभ्यः प्रतिषेधवचनं ज्ञापकं भिन्नप्रकरणस्यापि द्वेरुन्भवति । अपत्यग्रहणेन गृह्यते इति किमेतस्य ज्ञापने प्रयोजनम् । इह स्त्रियामुपू । पशुः रक्षाः असुरी इति पशु रक्षस् असुर इति राष्ट्र शब्दा राजानः एषामपत्यं संघः स्त्रीत्वविशिष्टो विवक्षित इति अणजोरागतयोः “उप् चोलादेः" [10१५६] इति उपि कृते पुनः "पर्वादेरण" [१२।१] इति स्वार्थिकोऽण् । तस्यापि स्त्रियामनेनोपू सिद्धः।
इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः ।
रागात् ॥३॥२१॥ रज्यतेऽनेन शुक्लं वस्त्विति रागः; कुसुम्भादि द्रव्यम् । तेनेति भासमर्थात् रागविशेषवाचिनो मृदो रक्तमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । कषायेण रक्तं वस्त्र काषायम् । हारिद्रम् । कौसुम्भम् । माञ्जिष्ठम् । रागादिति किम् ? देवदत्तेन रक्तम् । "पुखौ घः प्रायेण" [२।३।..] इत्येतद् पश्चिधानेऽपेक्ष्यते । तेन वर्णविशेषस्य रागस्य ग्रहणादिह न भवति । पाणिना रक्तमिति । इहोपमानाद्भवति । काषायो गर्दभस्य कौँ । हारिद्रौ कुक्कुटस्य पादाविति ।
नीलपीतादकौ ॥२२।२।। नील पीत इत्येताभ्यां भान्ताम्यां रक्तमित्येतस्मिन्नर्थे यथासंख्यम् अक इत्येतौ त्यौ भवतः । नीलेन रक्त नीलम् । लिङ्गविशिष्टस्यापि ग्रहणम् । नील्या रक्त नीलम् । पीतेन रक्त पीतकम् ।
लाक्षारोचनाशकलकर्दमाढण् ॥२२॥३॥ लाक्षादिभ्यो भासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठण भवति । अणोऽपवादः । लाक्षया रक्त लाक्षिकम् । शाकलिकम् । शकलकदमाभ्यामणपीध्यते ।
___ भायुक्तः कालः ॥२४॥ तेनेति वर्तते । भविशेषवाचिनो मृदो भासमर्थाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । योऽसौ युक्तः कालश्चेत् स भवति । नित्ययुक्तौ हि भकालो न क्योः सन्निकर्षविप्रकर्षों स्तः। तत्कथं पुष्यादिना 'भेन युक्तः काल' इत्युच्यते । व्यभिचाराभावात् । नैष दोषः । इह पुष्यादिसमीपस्थे चन्द्रमसि पुष्यादयः शब्दाः वर्तमाना गृह्यन्ते । पुष्येण युक्तः कालः पुष्यसमीपगतेन चन्द्रमसा युक्त इत्यर्थः। पौषी रात्रिः । पौषमहः। "तिष्यपुष्ययोर्माणि" [ २०३६ ] इति यकारस्य खम् । माघी रात्रिः। माघमहः । भादिति किम् ? चन्द्रमसा युक्ता रात्रिः। काल इति किम् ? पुष्येण युक्तश्चन्द्रमाः।
उसभेदे ॥३२॥५॥ अभेदो नामाविशेषः । पूर्वेण विहितस्योस् भवति न चन्द्रेण युक्तस्य कालस्य भेदो रात्र्यादिविशेषोऽभिधीयते । अद्य पुष्यः । अद्य कृत्तिकाः । अद्य रोहिण्यः । “युक्तवदुसि लिसंख्ये" [1986] इति युक्तवद्भावः । अत्र यावान् कालः त्रिंशन्मुहूर्तमात्रो भेन युक्तो न तस्य भेदोऽभिधीयते । अभेद इति किम् १ पौषी रात्रिः । पौषमहः । अभेद इति प्रसज्यप्रतिषेधः । तेनेहापि न भवति । पौषोऽहोरात्रः।
१. प्रतिषेधः स.।
For Private And Personal Use Only