________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
जैनेन्द्र-व्याकरणम्
[ ० ३ पा० १ सू० १५३-१५८
इति फिञ यथा स्यात् । नास्त्यत्र विशेषः सर्वस्यैव युवत्यस्य द्र रुत्तरस्योबिष्यते । इह तर्हि विशेषः राजसमान-: शब्दराष्ट्रात् तस्य राजन्यपत्यवदिति वक्ष्यते । श्रङ्गानां राजा श्रङ्ग इति णि सति श्राङ्गस्यापत्यं श्राङ्गायनिः । "हुथचोऽणः" [३ | १|१४३] इति फिञ् । युवत्योऽयं न भवतीति उप् नास्ति । अपि च नि सति संघाद्यर्थविवक्षायामय् प्रसज्येत । आणि सति "वृद्धचरणाञित् ” [ ३।३।१४] इति वुन् भवति । श्राङ्गकः । वाङ्गकः । मागधकः । कालिङ्गकः । सौरमसकः ।
द्वित्कुरूनाद्यजाद कोशलाञ्यः || ३|१| १५३ ॥ दुसंज्ञान्मृद इकारान्तात् कुरुशब्दात् नकारादेः श्रजादकोशलशब्दाभ्यां च ज्यो भवति । श्रञोपवादः । दोः - ग्राम्बष्ठस्यापत्यं श्राम्बष्ठ्यः । सौवीरस्य सौवीर्यः । काम्बचस्य काम्बच्यः । दार्घस्य दायः । द्वयज्लक्षणोऽपि फित्र परत्वादेतेन बाध्यते । इकारान्तात् श्रवन्तेराव1 न्त्यः । कुन्तेः कौन्त्यः । वसन्तैर्वास॒न्त्यः । तपरकरणं किम् ( कुमारी नाम जनपदः क्षत्रियश्चास्ति । तस्यापत्यं कौमारः । कुरोः — कौरव्यः । नादेः - निचकम्य नैचक्यः । निषधस्य नैषध्यः । नीपस्य नैप्यः । श्रादस्य जोध: 1 कोशलस्य कौशल्यः । सर्वत्र बहुषूप् ।
सालवावयवप्रत्यग्रथकलकूटाश्मकादिन ||३|१|१५४ ॥ साल्वा नाम मानुषी चत्रिया तस्या अपत्यं द्वयचः” [३|१|११० ] इति ढणि साल्वेय इत्युसि कृते निपातनादपि भवति । साल्वः क्षत्रियः तस्य निवासो जनपदः साल्वः । तदवयवाः ।
"उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भुलिङ्गाः शरदण्डाश्च साहवावयवसंशिताः ।" मावावयवेभ्यो राजवाचिभ्यः प्रत्यग्रथिः । कालकूटिः । श्राश्मकिः । सर्वत्र बहुषूप् योज्यः ।
पाण्डोय ण् ||३|१|१५५ ॥ राष्ट्र शब्दाद्राश इति वर्तते । पाण्डुशब्दाड्ज्यय् भवत्यपत्येऽर्थे । पाण्डोरपत्यं पाण्ड्यः । डकारो टिखार्थः । यकारः "न्णिदूष्टदरक विकारे'' [ ४|३|१५१] इति पुंवद्भावप्रतिषेधार्थः । पाढ्या भार्या श्रस्य पाण्ड्य भार्यः । कथमयं प्रयोगः श्रसिद्वितीयो न ससार पाण्डवः १ पाण्डवा यस्य दासाः इति १ येन जनपदेन समानशब्दो राजा तस्य जनपदस्य स्वामी यदि विवक्षितस्तदायं विधिर्वेदितव्यः । श्रन्यत्रोत्सर्ग एव भवति । 'इह प्रकरणे राजसमानशब्दात् राष्ट्रात् तस्य राजन्यपत्यवदिति वक्तव्यम्” [वा०] राजसमानशब्दात् राष्ट्रात् तस्येति तासमर्थात् राजन्यभिधेये अपत्य इव त्यविधिर्भवति । पञ्चालानां राजा पाञ्चाल | सावेयानां राजा साल्वेयः । एवं श्राङ्गः । श्राम्बष्ट्यः । श्रौदुम्बरिः । पाण्डवानां राजा पाण्ड्यः । सर्वत्र बहुभूप । श्रस्मादपत्यविवक्षायां व वृद्धा:" [ ३।१।१४४ ] इति फिञ् । पाञ्चालयनिः ।
उप चोलादेः || ३|१|१५६ ॥ राष्ट्रशब्दाद्राज्ञ इति वर्तते । चोलादेः परस्यो भवति । कस्य ९ सम्भवादयत्रोः । चोलस्यापत्यं चोलः । केरलः । कम्बोजः । शकः । यवनः । श्रादिशब्दः प्रकारवाची तस्य राजनीति वर्तते । चोलानां राजा चोलः ।
कुन्त्यवन्ति कुरुभ्यः स्त्रियाम् ||३|१|१५७ ॥ कुन्ति श्रवन्ति कुरु इत्येतेभ्यः उत्पन्नस्य द्रव् भवति स्त्रियामभिधेयायाम् । कुन्ती । अवन्ती । कुरूः । “द्वित्कुरुनाथ श्राद कोशळाज्य्य:" [३।१।१५३ ] इत्यस्य उपि कृते " इवो मनुष्यजाते: " [३|१|१५] इति ङीविधिः । कुरुशब्दात् " ऊरुव:" [ ३|१|५६ ] इति ऊत्यः । स्त्रियामिति किम् ? कौन्त्यः ।
श्रतोऽप्राच्यभर्गादेः ||३|१|१५८ ॥ स्त्रियामिति वर्तते । अतस्त्यस्य उन्भवति स्त्रियामभिधेयायां प्रायान् भर्गादश्च वर्जयित्वा । कुन्त्यादिभ्य उब्बचनं ज्ञापकम् - इह अत इति तदन्तविधिर्न भवति । साम
दोरुग्भवतीति वेदितव्यम् । अपाच्यो नाम राष्ट्रसमानशब्दो राजा तस्यापत्यं स्त्री अपाच्या अञ उपि टापू । एवं सूरसेनी । मद्रस्यापत्यं स्त्री मद्री । अण उपि जातिलक्षणो ङीविधिः । दरदोऽपत्यं स्त्रीं दरद् । अत इति किम् ? श्रदुम्बरी । साल्वावयवत्वादिञ् । “इतो मनुष्यजाते : " [३।१।२५ ] इति ङीविधिः । श्रप्राच्य
For Private And Personal Use Only