________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भे० ३ पा० । सू० १४६-१११] महावृत्तिसहितम्
१७३ गारेविः । वाफिन गारेव कार्कद्य काक लङ्क । वर्मिचर्मिणोर्नखं च । यदिहावृद्धं संश तस्य कुगर्थ वचनम् । अन्यस्योभयार्थम् ।
पुत्रान्ताद्वा ॥३१४६॥ वा वृद्धादोरिति वर्तते । पुत्रान्तान्मृदो द्रुसंशकाद् वा कुगागमो भवति फिभि परतः । प्रकृतेन वामहणेन फिञ् विकल्प्यते अनेन कुक् । तेन त्रैरूप्यम् । वासवदत्तापुत्रस्यापत्यं वासवदत्तापुत्रकायणिः । वासवदत्तापुत्रायणिः । वासवदत्तापुत्रिः । गार्गीपुत्रकायरिणः । गार्गीपुत्रायणिः । गार्गीपुत्रिः।
फिरदोः ॥३॥१११४७॥ त्यान्तरोपादानात् फिनि निवृत्ते तत्संबद्धः कुगपि निवृत्तः। वेति वर्तते । अदोर्मूदोऽपत्ये फिर्भवति वा । त्रिपृष्टायनिः । पृष्टिः । श्रीविजयायनिः। श्रेविजयिः । ग्लुचुकायनिः । ग्लौचुकिः। म्लौचुकाचनिः। म्लौचुकिः । वेति व्यवस्थितविभाषा । तेनेह न भवत्येव । दाक्षिः। प्लाक्षिः। अदोरिति किम् ? रामदत्तिः ।
मनोर्जातौ षुकचाऽज्यौ ॥३।११४८॥ मनुशब्दात् अत्र य इत्येतो त्यौ भवतः षुक् चागमः समुदायेन जातौ गम्यमानायाम् । मानुषः। मनुष्यः। अपत्यापत्यवत्संबन्धद्वारेण व्युत्पत्तिमात्र' क्रियते । परमार्थतस्तु रुटिशब्दावेतौ । अत एव "यजसोः" [१४।१३१] इति बहुधूम्न भवति । मानुषा इति । जाताविति किम् ? अपत्यमात्रेऽण (श्रौत्सर्गिकोऽणेव) भवति । लोहितादिपाठात् पौत्रादौ यत्रि तूब्भवति । मानव्यः। मानव्यौ । मनवः । स्त्री मनव्यायनी । [जाताविति किम् ? अपत्यमात्रे श्रौत्सर्गिकोऽणेव भवति । ]
"पुरुदेवस्य पौत्रादा(म्रोऽसा)वर्ककीर्तिजिंता हतः । पाठयामास लक्ष्मीवान् मानवो मानवी: प्रजा।" वृद्ध पत्यविवक्षायां तु गर्गादित्याद्या भवितव्यम् ।
"अपत्ये कुत्सिते मूढे मनोरौत्सगिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिथति माणवः ॥" नेदं णत्वार्थ बहु वक्तव्यम् । “माणवचरकात् ख" [३।४।१०] इति निपातनात् सिद्धम् ।
द्रिः ॥३।१।१४९॥ यानित ऊर्ध्वमापादपरिसमातेस्ल्यान्वक्ष्यामो द्रिसंशास्ते वेदितव्याः । वक्ष्यति "राष्ट्रशब्दादाज्ञोऽन" [३।११५०] पाञ्चालः । पाञ्चालौ । पञ्चालाः। सत्यां द्रिसंज्ञायां "बहुषु तेनैवाखियाम्" [ ३३] इत्युप् सिद्धः ।
राष्ट्रशब्दाद्राशोऽञ ॥२१११५०॥राष्ट्र बनपदः। राजशब्दश्चेह क्षत्रियपर्यायः । राष्ट्रशब्दाद्राजवा. चिनोऽपत्येऽञ् भवति । स्वभावतः पञ्चालादिशब्देन राष्ट्र राजा चाभिधीयते । अथवा पञ्चालानां निवासो जनपद इति निवासार्थ श्रागतस्याणो "जनपद उस्[३।२।३१] इति उसि कृते अवरकालेनापि पञ्चालशन्देन सत्रियशन्दो लक्ष्यते । यथा देवदत्तस्य पितेति । पञ्चालस्यापत्यं पाश्चालः। पाञ्चालौ। पञ्चालाः। ऐच्वाकः । ऐच्वाको । इक्ष्वाकवः। इक्ष्वाकुशब्दस्य अनि "श्रौणहत्य'' [10१६६] इत्यादिना उखं निपात्यते । राष्टशब्दादिति किम् ? श्रीविजयिः । द्वह्योः द्रोह्यवः । राज्ञ इति किम् ? पञ्चालो नाम ब्राह्मणस्तस्यापत्यं पाञ्चालिः ।
साल्वेयगान्धारिभ्याम् ॥३२१११५१॥ साल्वा नाम क्षत्रिया तस्माद्वयच इति दणि साल्वेयः । साल्वेय गान्धारि इत्येताभ्यां राजशब्दाभ्यामञ् भवति । अञोऽपवादे द्विस्कुरुनायजादकोशलाम्न्यः" [१३] इति ध्ये प्राप्त वचनम् । साल्वेयस्यापत्यं साल्वेयः । गान्धारेरपत्यं गान्धारः । गान्धारौ । बहुधूपि गान्धारयः।
(वयमगधकलिङ्गसूरमसादण ॥३।१।१५२॥ राष्ट्र शब्दाद्राश इति वर्तते । द्वथचो मृदः मगध कलिङ्ग सूरमस इत्येतेभ्यश्च अण् भवति । अशोऽपवादः । श्राङ्गः । वाङ्गः। सोमः। पौण्ड्रः । मागधः। कालिङ्गः । सौरमसः । सर्वत्र बहुधूप । अजैव सिद्ध किमर्थमण विधीयते ? वयचोऽयः" [३।१११४३]
For Private And Personal Use Only