________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७२
जैनेन्द्र-व्याकरणम्
[ अ० ३ पा० १ सू० १३६-१४५
कुर्यादयः || ३|१ | १३६ ॥ सौवीरेष्विति निवृत्तम् । कुरु इत्येवमादिभ्योऽपत्ये ययो भवति । श्रादौ कारः “जिग्यराजार्षात्” [ १/४/१३० इत्यत्र विशेषणार्थः । कुरोरपत्यं कौरव्यः । राजार्षात् कुरुशब्दशञ्ज्यो वक्ष्यते । तस्य द्विसंज्ञकत्वाद्वहुषूप् । तिकादिषु कौरव्यायणिः । कुरु गरी संजय अतिमारक । रथकाराजातौ च । पट्टक । सम्राजः क्षत्रिये । कवि पितृमत् ऐन्द्रजालि धातुजि पेजि दामोष्णीषि । गणकारि कैसोरि कापिलादि ऐन्द्रजाल्यादिभ्यः ततो "यूनि” [ ३|१|७५ ] इति यूनि एयः । क्रोड कुट शलाका मुर खएडाक एमुक शुद्धरसी केशिनी । स्त्रीलिङ्गनिर्देशसामर्थ्यात् पुंवद्भावो न भवति । शूर्पणाय श्यावनाय श्यावरथ श्यावपुत्र सत्यङ्कार वडभीकार पथिकारिन् मूढ़ सीक्ष भूहेतु शकशालीन इनपिएडी वामरथ । वामरथ्यस्य सकलादिकार्य भवति । सकलादयो गर्गाद्यन्तःपातिनः । बहुत्वे उन्भवति वामरथाः । स्त्री वामरथी । वामरथ्यायनी । वामरध्यायनः । वामरथ्यस्य छात्राः वामरथाः “शकलादिभ्यो वृद्धे" [३ २८० ] इत्यण् भवतीति । वामरथानां संघः वामरथः । "संघाङ्क" [ ३ | ३ | १५ ] श्रादिनाऽण् ।
Acharya Shri Kailassagarsuri Gyanmandir
सेनान्तलक्षणकारिभ्य इञ्च ॥ ३|१|१४० ॥ कारिशब्दः कारुवाचि । सेनान्तान्मृदो लक्षणशब्दात् कारिवाचिभ्यश्चापत्ये इम् भवति ण्यश्च । हारिषेण्यः । हारिषेणिः । भैमसेन्यः । भैमसेनिः । जातसेन्यः । जातसेनिः । लाक्षण्यः । लाक्षणिः । कारिभ्यः - कौम्मकार्यः । कौम्भकारिः । तान्तुवाय्यः तान्तुवायिः । तक्षन्शब्दात् शिवादिलक्षणोऽण् । स इञो बाघको न तु यस्य । तेन द्वैरूप्यम् | ताणः ।
ताक्षण्यः ।
तिकादेः फिञ ||३|१| १४१ ॥ तिक इत्येवमादिभ्योऽपत्ये फिञित्ययं त्यो भवति । तिकस्यापत्यं तैकायनिः । तिक कितव संज्ञा वाल शिखा उरस् शाढ्य सैन्धव यमुन्द रूप्य नाडी' सुमित्रा कुरु देवर देवरथ तितिलिन् सिलालिन् उरस । कौरव्य । द्रिसंज्ञस्येदं ग्रहणम् । श्ररसशब्देन राष्ट्रसमानशब्देन साहचर्यात् । कथं कौरव्यः पिता कौरव्यः पुत्रः १ श्रनु ( अत्र ) एयान्तादिञ् तस्योप् । लाङ्कव गौकक्ष्य भौरिकि चौपयत चैटयत सैकयत दौञ्जयत त्वजवत् चन्द्रमस् शुभ गङ्गा वरेण्य बन्ध आरद्ध वाह्यका खल्यका लोयका सुयामन् उदन्या यज्ञ | यदिहावृद्ध दुसंज्ञ पठ्यते तस्य नित्यार्थं वचनम् ।
कौशल्येभ्यः ||३|१|१४२ ॥ कौशल्यादिभ्योऽपत्ये फिञ् भवति । बहुवचनेन कर्मा रागवृषा गृह्यन्ते । कोशलस्यापत्यं कौशल्यायनिः । सर्वत्र मूलप्रकृतेः फिञ । तस्यायनादेशे कृते कौशल्य इति । विकृतनिर्देशात् यु निपात्यते । एवं दागव्यायनिः । कार्मार्यायणिः । छाग्यायनिः । वार्ष्यायणिः । राष्ट्रसमानशब्दात् कोशलात् ज्यो वक्ष्यते । कर्मारशब्दात् कारिलक्षणो योऽपि भवति । इञः प्रयोगो नोपलभ्यते ।
चोऽणः ||३|१|१४३॥ अणन्ताद् द्वयचो मृदोऽपत्ये फिञ् भवति । इत्रोऽपवादः । कर्तुररपत्यं कार्त्रायणिः । पोतुरपत्यं पौत्रः; तस्यापत्यं पौत्रायणिः । एवं शैवायनिः । द्वयच इति किम् । श्रपगविः । ऋण इति किम् ? दाक्षिः ।
"
वा वृद्धाहोः ||३|१|१४४॥ पौत्राद्यपत्यं वृद्धम् अवृद्धं यदुसंज्ञं तस्मादपत्ये वा फिञ भवति । वायुरथायनिः । वायुरथिः । श्रादित्यगतायनिः । श्रादित्यगतिः । कारिशब्दात्परत्वादनेन भवितव्यम् । नापितायनिः । योऽपि भवति । नापित्यः । इञोऽभिधानं नास्ति । श्रवृद्धादिति किम् ९ श्राकम्पनायनः । श्रौपगविः । दोरिति किम् १ श्रश्वग्रीविः ।
वाकिनादेः कुक || ३|१|१४५ ॥ वेति वर्तते । वा किन इत्येवमादिभ्योऽपत्ये वा फिञ् भवति । यदा फिञ् तदा कुगागमः । वाकिनस्यापत्यं वाकिन कायनिः । वाकिनिः । गारेवस्यापत्यं गारेवकायनिः ।
१. नाडी नीडी सु- ब० ।
For Private And Personal Use Only