________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ० ३ पा० १ सू० १३०-१३८ ]
महावृत्तिसहितम्
१७१
महतोऽखौ ||३|१|१३० ॥ महच्छब्दपूर्वात् कुलशब्दात् श्रखत्रौ इत्येतौ भवतः । महतः श्रावविषये श्रभिधानं माहाकुलः । माहाकुलीनः । केचित्खस्यानुवृत्तिमिच्छन्ति । महाकुलीनः । श्रालविषये इति किम् ? महर्ता कुलं महत्कुलं तस्मात् "खादेः " [३|१|१२8] इति खः । महत्कुलीनः ।
दुसो ढण् ||३|१| १३१॥ दुःशब्दपूर्वात् कुलादपत्ये ढण् भवति । पापं कुलं दुष्कुलम् " इदुदुहोस् - पुम्मुहुस:" [५/४/२८] इति सत्वषत्वे । दुष्कुलस्यापत्यं दौष्कुलेयः । केचित् खमप्यनुवर्तयन्ति । दुष्कुलीनः । स्वसुश्छः ॥३|१|१३२॥ स्वसृशब्दादपत्ये छो भवति । श्रणोऽपवादः । स्वस्त्रीयः ।
भ्रातुर्व्यश्व || ३|१| १३३ ॥ भ्रातृशब्दादपत्ये व्यो भवति छश्च । श्रणोऽपवादः । भ्रातुरपत्यं भ्रातृव्यः । भ्रात्रीयः । कथं लोके भ्रातृव्यशब्देन सपत्त्रोऽभिधीयते ? उपचारात् । एकद्रव्याभिलाषश्च उपचारनिमित्तम् । सपत्नी इव सपत्नः शक्तः । पृषोदरादिपाठादकारो निपात्यते ।
रेवत्यादेष्ठ ||३|१|१३४ ॥ रेवती इत्येवमादिभ्यो ऽपत्ये ठण भवति । श्ररणादीनामपवादः । रेवत्या अपत्यं रैवतिकः । रेवती अश्वपाली मणिपाली द्वारपाली वृकवञ्चिन् वृकप्राह कर्णग्राह दण्डग्राह कुक्कुटा ।
वृद्धस्त्रियाः क्षेपे णश्च ||३ | १| १३५ ॥ पौत्राद्यपत्यं वृद्ध क्षेपः कुत्सा | वृद्धस्त्रीवाचिशब्दादपत्ये गो भवति ठण् च क्षेपे गभ्यमाने । गार्ग्या श्रपत्यं युवा गार्गो जाल्मः । गार्गिको जाल्मः | ग्लुचुकायन्या अपत्यं युवा ग्लोचुकायनो जाल्मः | ग्लौचुकायनिको जाल्मः । क्षेपश्चात्र प्रतिषिद्धाचरणेन पितुरज्ञानाद्वा गम्यते । वृद्ध इति किम् ? कारियो मः । स्त्रिया इति किम् । श्रपगविर्जाल्मः । क्षेप इति किम् ? गार्गेयो माणवकः ।
1
दोष्ठण सौवीरेषु प्रायः || ३|१|१३६ ॥ वृद्धग्रहणं चानुवर्तते । सौवीरेष्विति वृद्ध विशेषणम् । सौवी - रेषु यद्वृद्ध वाचि दुसंज्ञ ं तस्मादपत्ये प्रायष्ठय् भवति क्षेपे गम्यमाने । वेति वक्तव्ये प्रायोग्रहणं परिगणनार्थम् । "भागपूर्वपदो विसिद्वितीयस्ता विदवः । तृतीयस्त्वाकशापेयो वृद्धाट्ठय् बहुलं ततः । "
भागवित्तेरपत्यं युवा भागवित्तिकः । भागवित्तायनः । तार्णविंदवस्यापत्यं युवा तार्णविन्दविकः । ताविन्दविः । कशा इति शुभ्रादिषु । श्राकशापेयस्यापत्यं युवा श्राकशापेयिकः । श्राकशापेयिः । दुग्रहणं स्त्रीनिवृत्त्यर्थमविशेषेणेष्यते । सौवीरे। ध्वति किम् ? श्रौपगविर्जाल्मः । क्षेष इत्येव । भागवित्तायनो माणवकः ।
फेश् च ॥ ३|१| १३७॥ वृद्धग्रहणां सौवीरेष्विति च वर्तते । फिञन्तात् सौवीरेषु वृद्धादपत्ये छो भवति च क्षेपे गम्यमाने । दोरित्यधिकारात् फेरित्यत्र फित्र एव संप्रत्ययः । यमुन्द तिकादिः । यामुन्दायनीयः । यामुन्दायनिकः । प्राय इत्यनुवर्तनादणपि भवति । तस्य फिञन्तात् परस्य " भिण्यराजार्षायून्युब - णिश्रो:' [ १।४ | १३० ] इत्युप् । यामुन्दायनिर्जात्मः । सुयामन् — सौयामायनिः । तस्यापत्यं युवा सौयामायनीयः । सौयामायनिकः । श्रणि । सौयामायनिः । वृषस्य वार्षायण: । फिञः संनियोगे वृद्धयभावे वक्ष्यते वार्ष्यायणेरपत्यं वार्ष्यायणीयः । वार्ष्यायणिकः । ऋणि वार्ष्यायणिः । क्षेप इत्येव । यामुन्दायनिर्माणवकः । श्रणेव भवति । सौवीरेष्वित्येव । तैकायनेरपत्यं युवा श्रय् तस्योप् । तैकायनिर्जाल्मः ।
"यमुन्दश्च सुयामा च वार्याणि फिन : स्मृता: ।
सौवीरेषु च कुत्साय द्वौ योगौ शब्दवित्स्मरेत् ।। ”
फाटाहृतेर्णः ||३|१|१३८ ॥ क्षेप इति निवृत्तम् । वृद्धग्रहणं सौवीरेष्विति च " निण्ण्यराजार्षात् "
[ १४ । १३० ] इत्यत्र "श्रणिजोरुप्यब्राह्मण गोत्रमात्राद्य वत्यस्योपसंख्यानम्” [वा०] इति उम्मा भूदिति णित्करणम् । “फिञप्यत्र भवतीति वक्तव्यम् ।" [वा०] फाण्टाहृतायनिर्माणवकः । सौवीरेष्वित्येव । फाण्टा हृतायनः । "सौवीरेषु मिमतशब्दाय्याफिनौ वक्तव्यौ” [ बा०] मैमतः । मैमतायनिः । सौवीरेष्वित्येव । मैमतिः ।
For Private And Personal Use Only