________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
जैनेन्द्र-व्याकरणम् [५०३ पा० १ सू० ११७-१२९ चटकाणणैरः ॥३॥११११७॥ चटकशब्दाणणैरो भवति । चटकस्यापत्यं चाटकरः । लिङ्गविशिष्टपि ग्रहणम् । चटकाया अपत्यं चाटकरः । स्त्रीढणः परसात् गरः । "खियामपत्ये उब्वतव्यः" [वा.] चटकस्य चटकाया वा अपत्य स्त्री चटका । "हृदुप्युप्' [11] इति स्त्रीत्यस्योप् । पुनष्टाप् ।
, गोधाया णारः ॥३३११११८॥ गोधाशब्दादपत्ये गारो भवति । गौधारः । रणा सिद्ध णारवचनं ज्ञापकम्, अन्येभ्योऽपि भवतीति । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः । पक्षस्य पाक्षारः।
ढणु ॥३१११११६॥ दण् च भवति गोधाशब्दात् । गौधेरः । शुभ्रादिषु पाठात् गौधेय इति च भवति ।
क्षुद्राभ्यो वा ॥३१॥१२०॥ अनियतस्का अङ्गहीना वा क्षुद्राः । क्षुद्राभ्य इत्यर्थनिर्देशः । क्षुद्रावाचिप्रकृतिभ्यः स्त्रीलिङ्गाभ्यः वा द्रण भवति । दास्या अपत्यं दासेरः । दासेयः । नट्या नाटेरः । नाटेयः । काणायाः काणेरः । काणेयः । "द्वयचः" [३।१111०] इत्ययं ढण् मध्येऽपवादः पूर्वस्य नदीमानुषीलक्षणस्थाणो बाधकः।
वसुश्छणुः ॥२१॥१२१॥ ध्वसृशब्दाद् ऋकारान्तपूर्वान्तादपत्ये छण् भवति । अणोऽपवादः । मातृष्वतीयः । पैतृष्वतीयः। स्वसुरिति कृतषत्वग्रहणं किम् ? भ्रातृस्वसुरपत्यं भ्रातृस्वनः। उरिति किम् ? मातुःस्वसुरपत्यं मातुःश्वश्रः । “था स्वसृपत्योः" [॥३॥१३७] इत्यनुप् ।
दणि खम् ॥३॥१२१२२॥ दणि परतः ध्वसुवर्णपूर्वस्य खं भवति । अनेनैव ढनिपात्यते । मातृध्वस्रयः। पैतृष्वस्रयः।
चतुष्पादभ्यो ढ ॥३।१।१२३॥ चत्वारः पादाः यासां ताश्चतुष्पादः। चतुष्पाद्वाचिप्रकृतिभ्यः स्त्रीलिङ्गाभ्यो ढा, भवति । अणादीनामपवादः । कामण्डलेयः। सैतिवाहेयः । माद्रवाइयः। जाम्बेयः । दनि सति तस्मादुत्पन्नस्य युवत्यस्योन्भवति न ढणि ।
गृष्ट्यादेः ॥३।१।१२४॥ गृष्टि इत्येवमादिभ्यः शन्देभ्यो ढा भवति । अणादीणामपवादः । गृष्टेरपत्यं गार्टेयः। अचतुष्पाद्वचनमिह गृष्टिशब्दो गृह्यते । गृष्टि हृष्टि हलि वालि विद्वक्रादि विधि कुद्रि) अजवस्ति मित्रयु मित्रयोरपत्यं मैत्रेयः । “भ्रौणहस्य" [४११६३] श्रादिना यकारादेः खं निपात्यते । बहुषु "यस्का. विभ्यो वृद्ध" [ १३४] इति उप् । मित्रयवः ।
क्षत्राद् घः ॥३।१।१२५॥ क्षत्रशब्दादपत्ये वा भवति । क्षत्रस्यापत्यं क्षत्रियः। बातावभिधानम् । अन्यत्र क्षात्रिः।
राजश्वशराद्यः ॥३॥११२६॥ राजश्वशुरशब्दाभ्यामपत्ये यो भवति । राज्ञोऽपत्य' राजन्यः। इहापि जातावभिधानम् । राजनोऽन्यः । श्वशुरस्यापत्य श्वशुर्यः। ख्यातस्य सम्बन्धवचनस्य प्रेक्षणात संज्ञायां श्वाशुरिः।
कुलाहकञ्च ॥३।१।१२७॥ कुलशब्दादपत्ये ढका भवति यश्च । कुलस्यापत्यं कौलेयकः। कुल्यः । इहापि भवति ईषदसिद्धं कुलं बहु कुलं "वा सुपो बहुःप्राक्त' [॥॥१२०] इति बहुत्यः। बहुकुलस्यापत्यं बाहु कुलेयकः । बहु कुल्यः ।
खः॥२१११२८॥ कुलशब्दात् खश्च भवति । कुलीनः। उत्तरत्र खस्यानुवृत्तिर्यथा स्यादिति योगविभागः।
सादेः॥३।१।१२६॥ सह आदिना वर्तते इति सादिः। सादेः कुलशब्दात् खो भवति । श्राज्यकुलीनः । राजकुलोनः । क्षत्रियकुलीनः । स-त्यविधौ न तदन्तविधिरिति पूर्वेण न सिद्धयति ।
For Private And Personal Use Only