________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अ० ३ पा० १ सू० १०७ - ११६]
महावृत्तिसहितम्
१६६
पीलाया वा ॥ ३|१|१०७ ॥ पीला तदाख्या मानुषी । पीलाया अपत्ये वाऽण् भवति । पैलः । पैलेयः ।
Acharya Shri Kailassagarsuri Gyanmandir
ढण् च मण्डूकात् ||३|१| १०८ ॥ मण्डूकशब्दाड्ढय् भवति चकारादण् च वा । तेन त्रैरूप्यम् । माण्डूकेयः । माण्डूकः । मण्डूकिः । स्त्रियां माण्डूकेयी । श्रणन्तस्य "कौरव्यासुरिमाण्डूकात्" [३|१|१२] इति फटि कृते माण्डू कायनी । ढञन्तस्य माण्डूक्या ।
स्त्रीभ्यो ढण् || ३|१| १०६ ॥ इह स्त्रीग्रहणेन स्त्रियामित्येवं विद्दिताष्टाबादयः स्त्रीत्या गृह्यन्ते । स्त्र्यर्थग्रहणं तु न भवति । शुभ्रादिषु मातृशब्दस्य पाठाज्ञायते । स्त्रीत्यान्तेभ्यो दण् भवत्यपत्ये । सौपर्णेयः । वैनतेयः । वायुवेगेयः । स्त्रीत्यग्रहणमिति विशेषणं किम् १ स्त्र्यर्थे मा भूत् । इडबिडः स्त्रिया श्रपत्यम् ; दरदः अपत्यम् ऐडबिडः, दारदः । "पीलाया वा " [३|१|१०७] इत्यतो मण्डूकप्लुत्या वेति व्यवस्थितविभाषा वर्तते 1 तैन वडवायाः वृषे वाच्ये ढण भवति । वाडवेयो वृषः । श्रपत्ये वाडव इति । क्रुञ्चकोकिलाभ्याम भवति । क्रुञ्चाया श्रपत्यं क्रौञ्चः । कोकिलाया अपत्यं कौकिलः ।
द्वन्यचः ॥३|१|११० ॥ द्वयचश्च स्त्रीत्यान्तादपत्ये ढण् भवति । मानुषीलक्षणस्यापो ऽपवादः । दत्ताया दात्तेयः । गुप्ताया गौप्तेयः ।
इतोऽनित्रः || ३|१|१११ ॥ स्त्रीभ्य इति निवृत्तम् । श्रविशेषेण स्त्रियाश्च विधानाद द्वयच इति वर्तते । इकारान्तान्मृदो ऽनिमन्तादण् भवति । वलेरपत्यं वालेयः । नाभेयः । श्रात्रेयः । दौलेयः । इत इति किम् ? दाक्षि: । अनि इति किम् ? दाक्षायणः । द्वयच इत्येव । मरीचेरपत्यं मारीचः ।
/
शुभ्रादेः || ३|१|११२ ॥ शुभ्र इत्येवमादिभ्यो ढण् भवति । इजादीनामपवादः । शुभ्रस्यापत्यं शौभ्रेयः शुभ्र विष्टपुर पिष्टपुर ब्रह्मकृत शतद्वार शतहार शलाथल शलाकाभ्रे लेखाभ्रू विधवा कृकसा रोहिणी रुक्मिणी विकचा विवसा इलिका दिशा शालूका श्रजवस्ति शवन्धि | लक्ष्मणश्यामयोर्वाशिष्ठे । लाक्ष्मणिरन्यः । श्यामायनोऽन्यः । "अश्वादेः " [३|१|१६] इति फञ । गोधा । कृकलास । प्राणि विकणाचि' प्रवाहण भरत भागर मष्ट्र मकुष्ट सुकराडु मृषण्डु कर्पूर इतर अन्यतर श्रालीढ सुदत्त सुदक्ष सुनामन् सुदामन कटु तुद कशाप कुमारिका कुवणिका ( किशोरिका ) जिह्माशिन् परिधि वायुदत्त शलाका सवला खड्वर अम्बिका अशोक गन्धपिङ्गला खरोन्मत्ता कुदत्ता कुसम्बा शुक्र वलीवर्दिन् विस्र वीजश्वन् श्रश्व अमिर विमातृ । श्राकृतिगणश्चायम् । तेन गाङ्ग ेयः पाण्डवेय इत्यादि सिद्धम् ।
विकर्ण कुषीत कात्काश्यपे || ३|१|११३ ॥ विकर्ण कुषीतकशब्दाभ्यां ढण भवति काश्ययेऽपत्यविशेषे । वैकर्णेयः काश्यपश्चेत् । वैकर्णिरन्यः । कौषीतकेयः काश्यपश्चेत् । कौषीतकिरन्यः ।
arga ||३|१|११४॥ शब्दादपत्ये ढय् भवति वुक् चागमः । भ्रौवेयः ।
कल्याण्यादीनामिनङ् ||३|१|११५॥ कल्याणी इत्येवमादीनां ढण भवति इनङादेशश्च । येऽत्र स्त्रीत्यान्ताः शब्दास्तेषामादेशार्थं वचनम् । ढण् पूर्वेण सिद्धः । अन्येषामुभयार्थं वचनम् । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः । कल्याणी सुभगा दुर्भगा बन्धकी अनुकृष्टि जरती वलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री रस्त्री ।
कुलटाया वा ॥ ३|१|११६ ॥ कुलान्ययतीति कुलटा । श्रत एव निपातनात् पररूपम् । कुलटाया वा इनङादेशो भवति । ढण स्त्रीभ्य इत्येव सिद्धः । कौलटिनेयः । कौलटेयः । श्रनियतपुस्कत्वविवक्षायां परत्वात् क्षुद्रालक्षणो द्रय् । कौलटेरः ।
१. विकरणान्चि ब० । २. भामण ब० । भामर स० ।
२२
For Private And Personal Use Only