________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
जैनेन्द्र-व्याकरणम् [अ० २ पा० ४ सू० १०२-१०६ [11] प्राप्तः । सुपिष्ट मयूरकर्ण खर्जुरकर्ण तक्षन् । अत्र कारिलक्षणस्य इञो बाधा । एयस्त्विष्यत एव । ताक्षण्य इति । ऋष्टिषेण । विदादिष्वस्य पाठो वृद्धार्थः। गङ्गा । अत्र नदीलक्षणस्यायो "दूधचः" [ १०] इति ढण् बाधकः तमपि बाधित्वा 'द्वथचो नद्याः" इत्यण् प्राप्तः। तस्यापि तिकादिषु पाठात् फिज बाधकः स्यात् । अयं गङ्गाशब्दः शुभ्रादिषु च पठ्यते । तेन त्रैरूप्यम् । गाङ्गः । गाङ्गायनिः । गाङ्गेयः । विपाश । अत्रापि नदीमानुषीलक्षणस्याणः “थचः" [३।१।११०] इति ढण बाधकः । तमपि "दूधचो नद्याः" इत्यण बाधते । तमपि बाधित्वा कुञ्जादिलक्षणो उफ एव स्यात् । रूप्यं चेष्यते । वैपाशः वैपाशायन्य इति । यस्क लह्य दुह्य अयस्थूण भलन्दन विरूपाक्ष विरूपा भूमि इला सपत्नी। “दूथचो नद्या" इति गणसूत्रम् । अन्यथा "यचः" [३।३।१०] इति ढण् प्रसज्येत । त्रिवेणी त्रिवेणं च ।
नदोमानुषीभ्योऽदुभ्यस्तदाख्याभ्यः ॥३।१।१०२॥ नदीमानुषीभ्य इत्यर्थनिर्देशः । नदीमानुषीवाचिप्रकृतिभ्योऽदुसंशाभ्यस्तदाख्याभ्योऽण् भवति । ढणोऽपवादः। यमुनाया अपत्यं यामुनः प्रणेता । इरावत्या अपत्यम् ऐरावतः । उद्धथः। वितस्तायाः पलालशिराः वैतस्तः । नर्मदाया नीतो नार्मदः । मानुषीभ्यःचिन्तितायाः चैन्तितः। सुदर्शनायाः सौदर्शनः। स्वयंप्रभायाः स्वायंप्रभः । नदीमानुषीभ्य इति किम् ? सौपर्णेयः। वैनतेयः । सुपर्णा विनता च देव्यौ । अन्येषां पक्षिण्यौ । अदुभ्य इति किम् ? चान्द्रभागायाः चान्द्रभागेयः । वायुवेगेयः । तदाख्याभ्य इति किम् ? या (भ्यः), काभ्यः। प्रकृतिभ्योऽण प्रार्थ्यते ता एवाख्या नामधेयानि नदीमानुषीणां यदि भवति । तेनेह न भवति । शोभनाया अपत्य शौभनेयः । पुरस्तादपवादोऽयमिति अनन्तरमणं बाधते न व्यवहितं "क्षुद्राभ्यो वा' [३।१।१२०] इति ढणम् । पुलिकायाः पौलिकेरः ।
कुवृष्यन्धकवृष्णेः ॥३।१।१०३॥ कुरवः अन्धकाः वृष्णयश्च क्षत्रियवंशाख्याः । ऋषयश्चेह ग्राम्या मठपतयो वशिष्ठाद्या गृह्यन्ते । महर्षीणामहिंसादिव्रतोपपन्नानामपत्यापत्यवत्सम्बन्धो नास्ति । कुर-ऋषिअन्धकवृष्णिवाचिभ्यो मुद्यः सामान्येनापत्येऽण् भवति । इञोऽपवादः। कुरुभ्यः-नाकुलः। साहदेवः । दौर्योधनः। ऋषिभ्यः वाशिष्ठः। वैश्वामित्रः। अन्धकेभ्यः-श्वाफल्कः। रान्धसः। श्वैत्रकः । वृष्णिभ्यःश्रदारः प्रातिवाहः । वासुदेवः । आनिरुद्धः । इह आत्रेयः इति परत्वाद्रण । यद्यपि भीमसेनः कुरुः, जातसेन ऋषिः । उग्रसेनोऽक्षक, विष्वक्सेनो वृष्णिस्तथापि परवात्सेनान्तलक्षणो एय इञ्च भवति । मध्येऽपवादोऽयं पूर्व जित्यं बाधते ।। । मातरुत्संख्यासंभद्रादेः ॥३।१।१०४॥ मातृशब्दस्य संख्यासंभद्रादेः उकारश्चान्तादेशो भवति श्रण चाधिकारात् । द्वयोर्मात्रोरपत्यं द्वैमातुरो भरतः। शातमातुरः । सामातुरः । भाद्रमातुरः । अभिधानवशात् जननीपर्यायस्य मातृशब्दस्य ग्रहणम् । संख्यासंभद्रादेरिति किम् ? सौमात्रः । वैमात्रेयः । विमातृशब्दः शुभ्रादिषु पठ्यते ।।
कन्यायाः कनीन च ॥३।१।१०५॥ कन्यायाः कनीन इत्ययमादेशो भवति । अण च तस्मात् । ढणोऽपवादः । कानीनः कर्णः । कानीनो हि नारका ।
विकर्णशुझछगतावत्सभरद्वाजात्रिषु ॥३।१।१०६॥ विकर्ण शुङ्ग छगल इत्येभ्यः अण् भवति यथासंख्यं वात्स्ये भारद्वाज श्रात्रेये चापत्यविशेषे । वत्सभरद्वाजानिष्वित्यत्र वत्सादयः शब्दा उपचारात् वृद्धत्यान्तेषु वर्तमाना गृह्यन्ते । वैकर्णो भवति वात्स्यश्चेत् । वैकर्णिरन्यः। काश्यपे वैकर्णेयः । शौङ्गो भवति मारद्वाजश्वेत् । शौङ्गिरन्यः । लिङ्गविशिष्टस्य ग्रहणे शुङ्गाया अपत्यं सौङ्गो भवति भारद्वाजश्वेत् । अन्यत्र सौङ्गेयः । छागलो भवति पात्रेयश्चेत् । छागलिरन्यः ।
१. मदन ।
For Private And Personal Use Only