________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६६
जैनेन्द्र-व्याकरणम्
[ श्र० ३ पा० १ सू० १०-१५
यञिञोः ||३|१|१०|| अत्रापि वृद्धग्रहणं यञिञर्विशेषणम् । वृद्ध विहितौ यो यत्रौ तदन्ताफण भवति । सामर्थ्याद्य नीति ज्ञातव्यम् । गार्ग्यायणः । दाक्षायणः । इह गार्ग्या श्रपत्यं गार्गेय इति लिङ्गविशिष्टस्य ग्रहणेऽपि परत्वाद्ण् भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
शरद्वच्छुनकदर्भाद् भृगुवत्साप्राणेषु || ३ |१| १॥ वृद्ध इति वर्तते । शरद्वत् शुनक दर्भ इत्येतेभ्यः फण् भवति यथासंख्यं भार्गवे वात्स्ये श्रामायणे चापत्ये ऽभिधेये । शारद्वतायनो भवति भार्गव - श्चेत् । शारद्वतोऽन्यः । शौनकायनो भवति वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणो भवति श्राग्रायणश्चेत् । दार्भिरन्यः । शरद्वत् शुनकशब्दौ विदादिषु पठ्येते ।
1
द्रोणपर्वतजीवन्ताद्वा ||३|१|१२|| द्रोण पर्वत जीवन्त इत्येतेभ्यो वृद्वापत्ये फण् च भवति । द्रौणायणः । द्रौणिः । पार्वतायनः । पार्वतिः । जैवन्तायनः । जैवन्तिः । वृद्ध इत्येव । द्रौणिः ।
विदादिभ्योऽनृष्यानन्तर्येऽत्र ॥३१॥९३॥ वृद्ध इति वर्तते । विद इत्येवमादिभ्यः श्रनृषीणामान न्तर्ये भवति । विदस्यापत्यं वैदः । विद उर्व कश्यप कुशिक भरद्वाज उपमन्यु किलात किन्दर्भ विश्वानर ऋष्टिषेण ऋतभाग हर्यश्व प्रियक श्रापस्तम्ब कूचवार शरद्वत् शुनक धेनु गोपवन शित्रु विन्दु भाजन तामन श्रश्वावतान श्यामाकश्यापर्ण गोपवनादिप्रतिषेधः प्राग्वरितादेः इत ऊर्ध्व बहुत्वेऽञ उबेव भवति । हरित किन्दास वह्यस्क कलूष वध्योग विष्णु वृद्ध प्रतिबोध रथन्तर गविष्ठिर निषाद निषादशब्दस्य "सुधातुरकङ च" [३।१८६] इत्यत्र नैषादकिरुक्तोऽनन्तरे वृद्धे परत्वादयमत्र । मठर। श्रयं गोपवनादिष्वपि मठराद्यत्रपि । एते इरितादय इत्याचार्यस्मृतिः । प्रदाक सदाक पुनर्ध्वादिष्वनन्तरेऽपत्ये पुनर्भू पुत्र दुहितृ ननान्ह परस्त्री परशुं च या तु सवर्णा परस्य स्त्री परस्त्री सा कल्याण्यादिषु पठ्यते पारस्त्रियेणः । वृद्ध इत्येव । श्रनन्तरो वैदिः । बाह्वादेराकृतिगणत्वाद् ऋष्यण् न भवति लौकिकगोत्रमात्र इत्येव । वैदो नाम कश्चित् तस्य वैदिः । श्रनुष्यानन्तर्य इति किमर्थम् ! पुनर्भूप्रभृतीनामनृषीणामानन्तर्ये श्रनन्तरेऽपत्ये श्रञ्वेदितव्यः । ये तु ऋष्यपत्यानां नैरन्तर्ये प्रतिषेधमाचक्षते । तेषां कौशिको विश्वामित्र इति न स्यात् । ऋष्यानन्तर्ये प्रतिषेधो नास्ति । इन्द्रभूः सप्तमः काश्यपानाम् भारद्वाजानां कतमोऽसीति "तस्येदम्" [३३८८] इत्यया भविष्यतीति ।
गर्गादेर्यत्र ॥ ३९ ॥ ६४ ॥ वृद्ध इति वर्तते । गर्ग इत्येवमादिभ्यः वृद्धापत्ये यत्र भवति । गर्गस्यापत्यं पौत्रादि गार्ग्यः । गर्ग वत्स "वाजादसे” [ सू० ग० ] स इति किम् १ सौवाजिः । संकृति अन व्याघ्रपात् विदभृत् पुलस्ति प्राचीनयोग पुलस्त्यशब्दात् ऋष्यरिण पौलस्त्यः । स्त्रियामणि पौलस्त्यी । यत्रि पौलस्त्यायनीति विशेषः । रेभ अग्निवेश शङ्ख शट धूम अवट मनस् धनञ्जय वृक्ष विश्वावसु बरमाण लोहित संशित बभ्रु मण्डु मनु सकु शङ्कुलि गुगुलु जिगीषु मनु मन्तु तन्तु मनायी ढण् प्राप्तः । " भस्य हृत्यढे" [ वा० इति पुंवद्भावः कस्मान्न भवति । कौडिन्यागस्ती इति निर्देशात् । यदि यत्रि पुंवद्भावः स्यात्, कुण्डिनी - शब्दस्य पुंवद्भावे टिखे च कृते कौण्डिन्य इति न स्यात् । सूनु कथक रुक्ष तलुन तणु वतण्ड कपि कत सकल कुरुकत । श्रयमनुशतिकादौ । श्रनडुह कण्ठ गोक्क्ष अगस्त्य कुण्डनी यज्ञवल्क अभयजात विरोहित वृषगण रहूगा शडिल मुद्गल मुसल पराशर जतूकर्ण मन्त्रित अश्मरथ शर्कराक्ष पूतिमाष स्थूरा अशक वामरथ पिङ्गल कृष्ण गोलुन्द उलूक तितम्भ तितव भिवज तिलज भण्डित चेकित देवहू इन्द्रहू एकहू एकलू पिप्पलु बृहदभि सुलाभिनू कुटीगु उक्थ । वृद्ध इत्येव । श्रानन्तरो गार्गिः । कथमनन्तरो जामदग्न्यो रामः पाराशर्यो व्यास इति ? गोत्राध्यारोपेण । श्रनन्तरापत्ये ऋष्यणा भवितव्यम् । लौकिकगोत्रमात्र इत्येव । यो गोत्रस्याप्रवर्तको गर्गस्तस्यापत्यं वृद्ध गार्गिः ।
भव
मधुबभ्वोर्ब्राह्मणकौशिकयोः ||३|१|६५|| वृद्ध इति वर्तते । मधु बभ्रु इत्येताभ्यां यथासंख्यं ब्राह्मणे कौशिकेऽत्राभिधेये । माधव्यो ब्राह्मणश्चेत् । माधवोऽन्यः । बाभ्रव्यः कौशिकश्चेत् । बाम्न
For Private And Personal Use Only