________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ ० १ सू० ८६-८ ]
महावृत्तिसहितम्
१६५
तार्थं बाधकबाधनार्थं च बाह्वादिग्रहणम् । बाह्रविः । श्रौपवाकविः । बाहु उपवाकु निवाकु वराकु उपबिन्दु एभ्योऽणू प्राप्तः । वला 'द्वचच: " [३ | १|११०] इति ढण् प्राप्तः । वृकला बलाका मूषिका भगला लगहा ध्रुवका सुमित्रा दुर्मिंत्रा एभ्यः "स्त्रीभ्यो ढण्" [३|१|१०१ ] इति ढण् । मानुषीलक्षणो वा ढणू स्यात् । पुष्करसत् अनुरदत्' अनुशतिकादित्वादनयोः पदद्वयस्यैप् । देवशन् अग्निशर्मन् इन्द्रशर्मन् कुनामन् पञ्चन् सप्तन् । “श्रमितौजसः सखं च" [वा०] सुधावत् उदञ्च चेर्निपातनात् नखाभावः । शिरस्- शिरोमात्रस्थापत्यं नास्ति इति तदन्तविधिः । हातिशीर्षिः । पैलुशीर्षिः । शिरसः शीर्षादेशो वक्ष्यते । माषशराविन् क्षेमवृत्विन् शृङ्खलतोदिन् खरनादिन् निपातनादणत्वम् । नगरमर्दिन् प्राकारमर्दिन् लोमन् लोग्ना तदन्तविधिः इत उत्तरं प्रागुदङकशब्दात् “कुर्वष्यन्धक" [३|१|१०३ ] श्रादिनाऽण् प्राप्तः । श्रजीगर्त कृष्ण युधिष्ठिर अर्जुन साम्ब गद प्रद्युम्न राम संकर्षण मध्यन्दिन सत्यक उदक। “संभूयोऽम्भसोः सखं च '[वा०] ख्याताख्यातयोः ख्याते संप्रत्यय इति । तेन बाह्रादिप्रभृतिषु येषां लौकिकगोत्रभावं प्रति प्रवर्तकत्वमस्ति तेभ्य एव इञादयः । इह माभूत् बाहुर्नाम कश्चित् तस्यापत्यं बाइवः । श्राकृतिगणत्वादस्याजबन्धविः । श्राजवेनविरिति ।
सुधातुरकङ च ॥३॥१८६॥ सुधातृशब्द दिन भवति तत्सन्नियोगेन कङादेशश्च । सुधारपत्यं सौधातकिः । “व्यास वरुडनिषाद चण्डाल बिम्बादीनामिति वक्तव्यम्” [ वा० ] | न वक्तव्यम् । श्रव्यविकन्यायेन कान्तेभ्य एव त्यविधिः । वैयासकिः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः । कार्मारकिः ।
वृद्धे कुञ्जादिभ्यो ञ्फः || ३|१|८७॥ वृद्धसंज्ञके अपत्ये विवक्षिते कुञ्ज इत्येवमादिभ्यो फो भवति । इञोऽपवादः । श्रादौ ञकारः "त्रात फादस्त्रियाम्" [४/२/२] इति विशेषणार्थः । कुञ्जस्यापत्यं पौत्रादि
ययः । कजान्यो । कौञ्जायनाः । "यातल्फादखियाम्" [ ४ |२| २] इति स्वार्थे त्र्यो भवति द्विसंज्ञः । कुञ्ज ब्रध्न शङ्ख गण लोमन् लोमशब्देन तदन्तविधिरिति केचित् । भस्मन् शट । श्रयं गर्गादिष्वपि । शाक शौण्ड शुभ विपास् । श्रयं शिवादिष्वपि । स्कन्द स्कम्भ । वृद्ध इति किम् ? कुञ्जस्यापत्यमनन्तरं कौञ्जिः । वृद्ध इत्ययमधिकारश्च “शिवादिभ्योऽय्' [ ३।१।१०१] इत्यतः प्राक् ।
नङादेः फण् ||३|१|८८॥ नड इत्येवमादिभ्यो वृद्धेऽपत्ये फय् भवति । नडस्यापत्य वृद्धं नाडायनः । वृद्ध इत्येव । श्रनन्तरो नाडि: । नड चर वक मुज्ज इतिक इतिश उपक लमक शलङ्कु शलङकवादेशं लभते । शालङ्कायनः । कथं शालङ्कायनः १ कथं सालङ किः पिता सालङ्किः पुत्रः [ सलङ्क ] शालङ्क इति प्रकृत्यन्तरमस्ति । अथवा पैलादिषु पाठसामर्थ्यात् इञपि भवति । पञ्चपूल वाजव्य तिक अग्निशर्मन् वृषगणे । गोत्रे अग्निशम्र्माणो भवति वार्षगणश्चेत् । श्राग्निशम्मिरन्यः । प्राण नर सायक दास मित्र द्वीप तगर पिङ्गल किङ्कर कथन कतर कतल काश्य काव्य सैव्य प्रजावाच्य स्तम्भ शिंशपा श्रमुष्य निपातनात् साधुः । कृष्णरणौ ब्राह्मणवाशिष्ठयोः । यथाक्रमं ब्राह्मणवाशिष्ठेऽर्थे । श्रजमित्र लिगु चित्र कुमार । क्रोष्टुरपत्यं क्रोष्टयं च । लोह दुर्ग श्रम तृण शकट सुमत मिमत ब्राह्मण चटक | ऐरोपीष्यते । चाटकैर बदर अश्वल
स्वर कामुक ब्रह्मदत्त उदम्बर अलोह दण्डथा । श्रन्ये इमानपि पठन्ति वच्यमाणान् । यच् जत् इत्वत् जनवत् हिंसक दण्डिन् हस्तिन् पञ्चाल चमसिन् । लौकिक गोत्रमात्र इत्येव । नडो नाम कश्चित्तस्यापत्यं नाडि: ।
हरिताद्यञः ||३|१|८९ ॥ हरितादिर्विदाद्यन्तर्गणः । हरितादिभ्यो ऽञन्तेभ्यः फण् भवति । इञोऽपवादः । द्दह वृद्धग्रहणमनुवर्तमानमत्रो विशेषणम् । वृद्ध योऽन् विहितस्तदन्तात् फणू एक इति निय माद्यनिद्रष्टव्यः । हरितस्यापत्यं युवा हारितायनः । कैन्दासायनः ।
१. अनुरहत् श्र० । २. वरुट अ०, ब०, स० । ३. चारुट किः अ०, ब०, स० ।
For Private And Personal Use Only