________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
१६४
[ अ० ३ पा० १ सू० ८०-८५
तस्मिन्नेक एव त्यो भवति । स च परमप्रकृतेर्भवति । यदपि व्यवहितेन जनितमपत्यं तदपि परमप्रकृतेः सामान्येनापत्यं भवत्येव । यदपि सर्वेऽप्यपत्येन युज्यन्ते तथापि प्रथमादित्यनुवर्तनात् परमप्रकृतैरेव भविष्यति गर्गस्यापत्यं गार्ग्यः । तत्सुतोऽपि गार्ग्यः । एवं व्यवहितेऽपि वृद्धापस्ये विवक्षिते गर्गशब्दाद् यमेव भवति । अथवा प्रकृतिनियमोऽयं वृद्धापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः त्यमुत्पादयति नान्येति प्रकृतिर्नियम्यते । एवं नस्यापत्यं नाडायनः ।
ततो यूनि ॥३|१|८० ॥ ततो वृद्धत्यान्ताद् यून्यपत्ये विवक्षिते एक एव त्यो भवति । गार्ग्यस्यापत्यं युवा गार्ग्यायणः । दाक्षायणः । श्रपगविः । नाडायनिः ।
जीवति तु वंश्ये युवाऽस्त्री ||३|१२८१ ॥ वंशः पितृपितामहादिप्रबन्धः; तत्र भवो वंश्यः पित्रादिः । पौत्रादीति वर्तते । तच्चार्थवशात् तान्तं संबध्यते । पौत्रादेर्यदपत्यं चतुर्थादिकं तद्वंशे जीवति युवसंज्ञ' भवति स्त्रियं वर्जयित्वा । गार्ग्यस्यापत्यं गार्ग्यायणः । दाक्षेर्दाक्षायणः । श्रस्त्रियामिति किम् ? गार्ग्यस्यापत्यं स्त्री गार्गी । दाक्षी । तु शब्दो वृद्धसंज्ञासमावेशनिवृत्त्यर्थम् । इह दोषः स्यात् । सालङ्केरपत्यं युवा " यजिलो:" [३|१|१०] इति फण् । पैलस्यापत्यं युवा "द्वयचोऽणः ” [३।१।१४३ ] इति फिञ् । तयोयूनि “पैलावे: " [१|४|१३१] इत्युन् भवति । वृद्धसंज्ञासमावेशे तु " वृद्ध ऽच्यनुप्" [३|१|७३ ] इति प्राद्रवीये अजादावनुप् प्रसज्येत । श्रस्तु "यूनि” [३।१।७२ ] इति भविष्यति । इह तर्हि दोषः । " फफिजो " [ ३ | ११७६] इति उब्धिभाष्यते । उपक्षेऽपि वृद्धसंज्ञासमावेशे “वृद्धो ऽध्यनुप्' [३।१।७३] इति श्रनुपस्यात् । श्रथासमावेशे कथं वृद्धलक्षणो वुञ गार्ग्यायणानां समूहः गार्ग्यायणकम् । वक्ष्यति "वृद्धोझोष्ट्रो' [३।२।३४ ] श्रादिसूत्रे वृद्धग्रहणेनैव सिद्धे राजन्यमनुष्यग्रहणं ज्ञापकमपत्याधिकारादन्यत्र वृद्धग्रहणे लौकिकं गोत्रग्रहणम् । तेन वृद्धयूनोः समावेशः ।
भ्रातरि व ज्यायसि ||३|१|८२ ॥ पौत्रादिरपत्यमिति वर्तते । भ्रातरि च ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति । मृतेऽपि वंश्ये यथा स्यादित्यारम्भः । भ्राता वंश्यो न भवति साक्षात् परम्परया वा । कारणत्वाद्गार्ग्यस्य द्वौ पुत्रौ ज्यायसि जीवति कनीयान् गार्ग्यायणः । एवं दाक्षायणः । ज्यायांस्तु भ्राता गायों दाक्षिरिति ।
वान्यस्मिन् सपिण्डे स्थविरतरे जीवति ||३|१|२३|| पौत्रादेरपत्यमिति वर्तते । येषां सप्तमः पुरुष एकस्ते सपिण्डाः परस्परम् । बसे यसे वा सपिण्डशब्दः । समानस्य सभाव इहैव निपातितः । प्रकृतं जीवतीति शत्रन्तं स्थविरतरस्य विशेषणम् । इदं तु जीवतीति पदं तिङन्तं संज्ञिनो विशेषणम् । भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रादेरपत्यं यज्जीवति तद्वा युवसंज्ञ भवति । गार्ग्यायो गार्ग्यः । दाक्षायणो दाक्षिः । श्रन्यग्रहणं किम् ? भ्रातरि इति वर्तते । तस्मिन्नेव सपिण्डे पितृव्यपुत्रे जीवति स्यात् । सपिण्डग्रहणमसम्बन्धान्यसम्बन्धनिरासार्थम् । ज्यायसीति वर्तमाने स्थविरतरग्रहणं किम् १ स्थानवयोभ्यां ज्येष्ठे सपिण्डे यथा स्यात् भ्रातृव्ये वयोज्येष्ठे पितृव्यः कनीयान् युवसंज्ञो न भवति । जीवतीति किम् ? मृते गार्ग्य एव ।
पूजाकुत्सयोर्व्यत्ययः ॥ ३१११८४ ॥ वेति वर्तते । परस्परविषयगमनं व्यत्ययः । वृद्धस्य युवसंज्ञा यूनश्च वृद्धसंज्ञेत्यर्थः । पूजायां कुत्सायां च गम्यमानायां यथासंख्यं वृद्धयूनोर्वा व्यत्ययो भवति । पूजायाम्तत्रभवान् गार्ग्यायणः, तत्रभवान् गायों वा । युवसंज्ञासामर्थ्यात् वृद्धत्यस्य युवत्येन योगः । कुत्सायां गार्ग्यस्त्वं जाल्म । गार्ग्यायणस्त्वं जाल्म । वृद्धसंज्ञासामर्थ्यात् युवत्यस्य निवृत्तिः ।
अद्बाह्वादेरिन् ॥३|१|८५ ॥ तस्यापत्यमिति वर्तते । अकारान्तेभ्यो मृद्भयः बाहु इत्येवमादिभ्यश्च अनन्तरे वृद्ध े युवसंज्ञके चाऽपत्ये इञ भवत्यणोऽपवादः । श्रकम्पनिः । दाक्षिः । श्रपगविः । अनकारा
For Private And Personal Use Only