________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्र० ३ पा० १ सू० ७१-७६ ]
महावृत्तिसहितम्
१६३
इह तहिं न प्राप्नोति पञ्चानां कपालानां समाहारः पञ्चकपाली । पञ्चकपाल्यां संस्कृतः पञ्चकपालः । नैष दोषः । श्रव्यविकन्यायेन पञ्च पालशब्दात् त्योत्पत्तिः । यथा वेर्मासं श्राविकमिति श्रविकशब्दादेव त्यो नाविशब्दात् । श्रनपत्य इति किम् ? द्वयोर्देवदक्षयोरपत्यं द्वैदेवदत्तिः । जग्रहणमनुवर्तते । तेनेह न भवति । पञ्चभ्यो गर्गेभ्य श्रागतं पञ्चगर्गरूप्यम् । प्राग्द्रोरित्येव । द्वाभ्यामक्षाभ्यां दीव्यति द्व यक्षिकः । त्रैयक्षिकः ।
Acharya Shri Kailassagarsuri Gyanmandir
यूनि || ३ | १|७५ ॥ प्राग्द्रोरिति वर्तते चीति च। यूनि यस्त्यस्तस्यो भवति प्राद्रवीयेऽजादौ त्य उत्पत्स्यमाने । फाण्टाहृतस्यापत्यं फाण्टाहृतिः । तस्यापत्यं युवा "फाण्टाहृतेः” [३।१।१३८ ] इति णः । फाण्टाहृतः । तस्य यूनश्छात्रा बुद्धिस्थ एवानुत्पन्नेऽजादौ त्ये रास्योपि कृते इञन्तमिदं जातम् । "इज" [३२२८८] इत्यण् भवति । फाण्टाहृताः । भगवित्तस्यापत्यं भागवित्तिः । तस्यापत्यं युवा "दोष्ठण सौवीरेषु प्राय:" [३ | १|१३६ ] इति ठण् । भागवित्तिकः । तस्य यूनश्छात्राः ठण उपि कृते " इञः” [३२२८८] इत्यण् । भागवित्ताः । तिकस्यापत्यं तैकायनिः । तस्यापत्यं युवा "फेरछ: " [ ३|१ | १३७] इति छः । तैकायनीयः । तस्य यूनश्छात्राः छस्योपि कृते "दोश्छ: " [३।२।१०] इति छः । तैकायनीया: । ग्लुचुकस्यापत्यं " फिरदो : " [ ३|१|१४७ ] इति फि: । ग्लुचुकायनिः । तस्यापत्यं युवा " प्राग्द्धोरण " [३|१|६८ ] ग्लौचुका - यनः । तस्य यूनश्छात्रा प्रण उपि तस्येदमित्यण । सौचुकायनाः । कपिञ्जलादस्यापत्यं कापिञ्जलादिः तस्यापत्यं युवा "कुचादेः " [ ३|१|१३६ ] इति एयः । कापिञ्जलाद्यः । तस्य यूनश्छात्रा रायस्थोपि कृतै “इञः’[३३२२८८] इत्यय् कापिलादाः । श्रचीत्येव । फाण्टाहृतरूप्यम् । फाण्टाहृतमयम् । प्राग्द्रोरित्येव । भागवित्तिकाय हितं भागवित्तिकीयम् ।
फफियोर्वा ||३|१| ७६ ॥ यूनीति वर्तते । यूनि यौ फफिञौ तयोर्वा उन्भवति प्राद्रवीयेऽजादौ त्ये विवक्षिते । पूर्वेण नित्ये उपि प्राप्ते विभाषेयम् । गार्ग्यस्यापत्यं युवा "य जिजो: " [ ३|१|१०] इति फण् । गार्ग्यायणः । तस्य यूनच्छात्राः गार्गीया गार्ग्या वा । फिञः खल्वपि । यस्कस्यापत्यं “ शिवादिभ्योऽण” [३।१।१०१] यारुकः । यास्कस्यापत्य' युवा "द्वचचोऽणः " [३ | १|१४३ ] इति फिञ् । यास्कायनिः । तस्य यूनच्छात्राः यास्कीयाः । यास्कायनीयाः ।
तस्यापत्यम् ||३|१|७७॥ तस्येति तासमर्थात् श्रपत्यमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । हृदर्थनिर्देशे लिङ्गवचनादिकमविवक्षितमप्राधान्यात् । उपगोरपत्यं श्रौपगवः । तान्तादण् । उक्तार्थस्यापत्यशब्दस्य निवृत्तिः । “सुपो धुमृदो:' [१।४।१४२] इति सुप उप् | ऐप्' । श्राश्वपतः । दैत्यः । सैनापत्यः । श्रौत्सः । स्त्रैणः । पौंस्नः । वृतौ स्वभावत एकार्थीभावः । प्रकृत्यर्थो विशेषणभूतोऽप्रधानम् । व्यार्थस्य सामान्येन प्रवृत्तस्य विशेषेऽवस्थापनात्त्यार्थः प्रधानम् । गुणप्रधानभावेन प्रकृतिस्त्यश्च त्यार्थे सह ब्रत इति । ननु च तस्येदं विशेषणं (सामान्यम् ) एते अपत्यं समूहो निवासो विकार इति । तस्येदमित्येव सिद्ध किमर्थमिदमुच्यते ! arasaraarर्थम् । भानोरपत्यं भानवः । श्यामगवः । दुलक्षणश्छो बाधितः । " तस्यापत्यम्” “अदुबाह्वादेरिन्” [३।११८५] इत्येव वक्तव्ये इह करणं पूर्वैदत्तरैश्च त्यैरभिसंबन्धो यथा स्यादित्येवमर्थम् ।
पोत्रादि वृद्धम् ||३|१| ७८ ॥ पुत्रस्यापत्यं पौत्रः । विदादित्वादञ् । प्रथमादिति वर्तमानमर्थवशात्तया विपरिणम्यते । प्रथमस्य पौत्रादि यदपत्यं तद् वृद्धसंज्ञ' भवति । संज्ञाविषयस्य प्रथमस्य गर्गस्थापत्यं गार्ग्यः । वात्स्यः । “वृद्ध े कुञ्जादिभ्यो व्फ: ” [३।१।८७ ] इति वर्तमाने “गर्गादिर्य" [३|१|१४ ] इति यञ् । पौत्रादीति किम् ? गार्गिः । श्रनन्तरमपत्यं वृद्धं मा भूत् ।
१. एनम् अ०, ब० ।
एकः ||३|१॥७६॥ वृद्धमिति वर्तते । वृद्धेऽपत्ये विवक्षिते एक एव त्यो भवति । स्वस्याः स्वस्याः प्रकृतैरपत्यभेदविवक्षायामनेकं त्यं बुद्ध्या समुदायीकृत्य नियमः क्रियते । यदिदं गर्गादिपितृकमपत्यजातं वृद्धं
For Private And Personal Use Only