________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० १ सू० ७१-७४
उत्सादेरञ् ॥३|१|७१॥ प्राग्द्रोरिति वर्तते । उत्स इत्येवमादिभ्यः समर्थविभक्तयन्तेभ्यः प्राग्द्रोरर्थेष्वञ भवति । श्रणस्तदपवादानां च बाधकः । श्रमि सति “यजसोः " [१|४|१३३] इति बहुत्वे उन्भवति । उत्सस्यापत्यं श्रौत्सः । उदपानस्यापत्यमौदपानः । उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन । वष्कयशब्दादसे । श्रसमास इत्यर्थः । धेनु पङक्ति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर पीलुकुण । उदस्थानशब्दाद्देशे । पृषदंश भल्लकीय रथन्तर मध्यन्दिन बृहत् महत् । सत्वतशब्दो सत्वन्तुशब्दो मत्वन्तः श्रागतनुङ्को गृह्यते । कुरु पञ्चाल इन्द्रावसान उष्णिह् ककुभ् सुवर्णं । ग्रीष्मादच्छन्दसीति वक्तव्यम् । छन्दश्चेह वृत्तजातिः । तरुणशब्दस्य लिङ्गविशिष्टस्य ग्रहणम् । तण्या अपत्यं तारुणः । ण्यादयोऽर्थविशेषलक्षणादण - (s) पवादात् पूर्वनिर्णयेन भवन्तीति ।
Acharya Shri Kailassagarsuri Gyanmandir
स्त्री सानुकत्वात् ॥ ३३९॥७२॥ वक्ष्यति " ब्रह्मणस्त्वः " ३ । ४ । १२६] एतस्मात्त्वसंशब्दनात् प्राग्योऽर्थो वक्ष्यते तेषु स्त्रीशब्दात् पुंशब्दाच्च श्रम् भवति नुगागमः । स्त्रीषु भवं स्त्रीणां समूहः स्त्रीभ्यः श्रागतम् स्त्रीभ्यो हितं स्त्रीणां भावो वा स्त्रैणम् । एवं पौंस्नम् । “नोऽपुंसो हृति' [ ४|४|१३० ] इति प्रतिषेधात् पुष्टिखं न भवति । स्लोशब्दस्य तु नुग्वचनसामर्थ्यात् । स्त्रैणाः पौंस्ना इत्यत्र " यञञोः ” [१|४ | १३५ ] इत्युप प्राप्नोति । इह च स्त्रैणानां संघ इति "संघाङ्गलक्षण" [ ३।३।१५ ] इत्यण प्राप्नोति चेत् नैतौ दोषौ । अपत्याधिकारात् प्रागूर्ध्वं च वृद्धग्रहणेषु लौकिक गोत्रग्रहणमिति वच्यते । न च स्त्रैणं पस्नमिति वा लौकिकं गोत्र' तस्मादुबणौ न भवतः । " पुंवद्यजातीयदेशीये" [ ४ | ३ | १२४ ] इति वचनं योगापेक्षं ज्ञापकम् । वतोऽर्थे नायं विधिरिति । स्त्रीवत् । पुम्वत् ।
वृद्धेऽनुप् ||३|१|७३ ॥ प्राग्द्रोरिति वर्तते । “यस्कादिभ्यो वृद्धे " [ १ | ४ | ३३४ ] इत्यत्र प्रकरणे वृद्धे यस्य त्यस्य उबुक्तः तस्यानुब्भवति प्राद्रवीयेऽजादावुत्पत्स्यमाने । गर्गाणां छात्राः गार्गीयाः । “यत्रञोः " [ २४|१३५] इति बहुत्वे उप् प्राप्तः । ईयविषये प्रतिषिध्यते । “यस्य ड्यां च” [४|४|१३६ ] इत्यखम् "क्यच्यनाद्ष्टत्यापत्यस्य " [ ४ | ४ | १४१ ] इति यखम् | त्याश्रयलक्षण ऐन्भवति । यास्कीयाः । शिवादिलक्षणस्याणः "यस्कादिभ्यो वृद्धे " [ १।४।१३४ ] इत्युप् प्राप्तः । श्रात्रेयीयाः । “द्वयचः " [३|१|११०] "इतोऽनिज:, [ ३ | १ | १११ ] इति ढण तस्य "भृग्वत्रिकुत्स वशिष्ठ गोतमाङ्गिरोभ्यः " [ १।४।१३६ ] इत्युप्प्राप्तः । खारपायणीयाः । “यस्कादिभ्यो वृद्धे " [१|४|१३४] इत्यनेन नडादिफण उप् प्राप्तः । वृद्ध इति किम् १ कुवलस्येदं कौवलम् । वादरम् । अवयवार्थे श्रागतस्याः “ उप्फले ” [ ३।३।१२१ ] इति उबेव भवति । अचीति किम् ? गर्गेभ्यः गर्गरूप्यम् । गर्गमयम् । प्राग्द्रोरित्येव गर्गेभ्यो हितं गार्गीयम् । वृद्धाद्वहन्तात् एकस्मिन् यूनि द्वयोर्वा यूनोर्यच्यः तस्मिन्नष्टेऽप्यनुभवति । विदानामपत्यं युवा वैदः । वैदौ । अन्तादत इञ । तस्य " जिण्यराज पद्य न्युत्रणिनो: " [118|१३० ] इत्युप् । “त्यखे त्याथयम्' [ १|१|६३ ] इत्यनादित्वमस्ति । वर्णाश्रये नास्ति त्याश्रयमिति न मन्तव्यम् । अचीति विषयनिर्देशः । एकद्वयन्ताच्च वृद्धात् युवबहुत्वविवक्षायां उपच वक्तव्यः । वैदस्य वैदयोरपत्यानि युवानः विदाः ।
रोये ||३|१|७४॥ प्राग्द्रोरिति वर्तते । रस्य निमित्तत्वेन संबन्धी यो हृत् श्रपत्यवर्जिते प्राग्द्रोरर्थे विद्दितस्तस्योब्भवति । पञ्चसु गुरुषु भवः पञ्चगुरुर्नमस्कारः दशसु धर्मेषु भवः दशधर्मः । द्वावनुयोगावधीते द्वनुयोगः । त्र्यनुयोगः । हृदर्थे पसः । संख्यादीरसंज्ञः । भवार्थे श्रागतस्याण उप । रस्येति निमित्तविशेषणं किम् ? उचन्ताद्यो हृत् तस्योम्मा भूत् । पञ्चगुरोर्नमस्कारस्येदं पाञ्चगुरवम् । यदि रस्य निमित्तं यो हृत् तस्योप्
१. अत्रापि दिखं न भवतीत्यत्रापि योज्यम् ।
For Private And Personal Use Only