________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ पा० १ सू० ६६-७० ]
महावृत्तिसहितम्
१६१
देवयशिशौचिवृक्षिसात्य मुप्रिकाण्ठेविद्धिभ्यो वा ||३|१/६६ ॥ देवयशि शौचवृद्धि सात्यमु काठेविद्धि इत्येतेभ्यः वा ष्यो भवति । उभयत्र विभाषेयम् । वृद्धे प्राप्ते ऽनन्तरापत्ये चाप्राप्ते । दैवयज्ञया । दैवयज्ञो । शौचिवृक्ष्या । शौचिवृक्षी । सात्यमुग्र्या । सात्यमुग्री । काठेविद्ध्या । काण्ठेविद्धी । श्रनन्तरापत्ये "हूञ उपसंख्यानमजात्यर्थम् ” [ वा० ] इति ङी । वृद्धापत्ये “इतो मनुष्यजाते ” [३|१|१२] इति ।
समर्थात्प्रथमाद्वा ||३|१|६७ || समर्थादिति प्रथमादिति वेति च पत्रितयमधिकृतं वेदितव्यम् । “किंबहुसर्वनाम्नोऽद्वयादेः” [ ४।१।६८ ] इत्यतः प्रा. वक्ष्यति "तस्यापत्यम्" [३|१|७७] उपगोरपत्यं श्रौपगवः । तस्येत्येतत् तान्तं सूत्रे प्रथमं सन्निविष्टम् तस्मादपत्याभिधाने त्यः । समर्थादित्युच्यते सामर्थ्य च सुबन्तस्येति सुबन्ताच्योत्पत्तिः । द्वद्ववर्णादिति विशेषणार्थं तु ड्याम्मृद्ग्रहणमधिक्रियते । वृद्धस्य उपगोरपत्यमिति वाक्यस्यान्तत्वात् वाक्यावयवस्य चासामर्थ्यात् त्यानुत्पत्तिः । समर्थादिति किम् ? कम्बल उपगोरपत्यं देवदत्स्य। यद्येवं समर्थः पदविधिरिति समर्थादेव भविष्यति किमनेन ? कृतवर्णानुपूर्वकात् पदात् त्यो यथा स्यादित्येवमर्थम् । सुत्थितस्यापत्यं सौत्थितिः । वैज्ञमाणिरिति । "नेन्द्रस्य " [२१२२७ ] इत्यत्र वक्ष्यति समुदायकार्य' तावद्भवति पश्चादेकादेशः । एवं वा (चा) संहितात्योत्लत्तः वनिष्टं रूपं स्यात् । प्रथमादिति किम् ? तान्ताद्यथा स्यादपत्यशब्दान्मा भूत् । वाग्रहणं किम् ? उपगोरपत्यमिति वाक्यमपि साधु यथा स्यात् । श्रनन्तराद्वाग्रहणात् सविधिरपि । उपग्वपत्यम् ।
1
प्राग्द्रोरण् ||३|१|६८|| “द्रो':' [३|३|१११] " माने वय:" [३|३|१२० ] इति वक्ष्यति । प्रागेतस्माद्येऽर्था वक्ष्यन्ते तेष्वय् भवतीति वेदितव्यम् । अधिकारो विधिर्वाऽयम् । अधिकारपक्षे "पीछाया बा" [३|१| १०७], "वोदश्वितः” [३।२।१४] इत्येवमादौ वावचनादपवादविषये नास्ति वृत्तिः । विधिपक्षेऽपि परिहृत्यापवादविषयं तत उत्सर्गोऽभिनिविशते । वक्ष्यति तस्यापत्यम् श्रौपगवः । कापटवः । अपवादेन बाधितोऽप्युत्तरत्रानुवर्ततामिति प्राग्वचनम् ।
1
अश्वपत्यादेः ||३|१|६६॥ अश्वपति इत्येवमादिभ्यः समर्थविभक्त्यन्तेभ्यः श्रय् भवति प्राग् द्रोरर्थेषु । “पतिद्यो:' [३|१|७० ] इति एयो वक्ष्यते । तस्यायमपवादः । श्रश्वपतेरपत्यं श्राश्वतः । श्रश्वपति गणपति वनपति गजपति राष्ट्रपति कुलपति पशुपति धान्यपति बन्धु पति सभापति प्राणपति क्षेत्रपति येऽत्र दुसंज्ञास्तेभ्यो “दोश्छः” [३।२।१०] इतिच्छं बाधित्वा पूर्वनिर्णयेनायमे वाय् ।
दित्यदित्यादित्यपतिद्योर्ण्यः || ३|१| ७० ॥ प्राग् द्रोरिति वर्तते । दिति श्रदिति श्रादित्य पतिद्यु इत्येतेभ्यः समर्थविभक्त्यन्तेभ्यः प्राग् द्रोरर्थेषु एयो भवति । श्रपो ऽपवादः । दितेरपत्यं दैत्यः । "द्वयचः”, “इवोनिश: ” [ ३|१|११०, १११] इतीमं ढणं पूर्वनिर्णयेनायं बाधते । सर्वतो "अक्त्यर्थात् ' [ ३|१|३१ ग०सू० ] इति ङीविधौ कृते परत्वा च भवति । दैतेयः । लिङ्गविशिष्टपरिभाषा वा नित्या श्रदितेरपत्यं श्रादित्यः । श्रादित्यस्यापत्यमादित्यः । प्राक्क्रनस्य यकारस्य “क्यच्यनाधृत्या पत्यस्य '' [ ४|४|१४१ ] इति "हलो यर्मा यमि खम् ” [ ५|४|१३८ ] इति वा खम् । पतिद्योः खल्वपि । बार्हस्पत्यः । सैनापत्यः । प्राजापत्यः । एयादयोऽविशेषलक्षणादण (गोड) पवादात् पूर्वनिर्णयेन (इति) एय एव भवति । वनस्पतीनां समूहः वानस्पत्यम् । "यमाच्चेति वक्तव्यम्" [ वा० ] यमस्यापत्यं याम्यः । " पृथिव्या जानौ" [ वा० ] पार्थिवः । पार्थिवी । "देवस्य यजत्रौ” [वा०] | देव्यम् । दैवम् । “बहिषष्टिखं यच" [वा०] । बाह्यम् | "ईक च" [ वा० ] बाहीकः । झेर्ममात्रटिखमनित्यमारातीय इत्यादौ । स्थाम्नोऽकारः । श्रश्वत्थाम्नोऽपत्यम् श्रश्वत्थामः । " छोस्न श्चापत्येषु बहुषु'' [ वा० ] उडुलोमाः । शरलोमाः । बहुष्विति किम् ? श्रडुलोमिः । शारलोमिः । "सर्वत्र गोरजादिप्रसङ्ग े य:" [aro ] गव्यः । श्रनादिप्रसङ्ग इति किम् ? गोरूप्यम् । गोमयम् ।
१. प्रकल्प्य चापवादविषयं इति परिभाषेन्दुशेखरे । २ बन्धपति भ०,
२१
For Private And Personal Use Only
ब०, स० ।