________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० ३ पा० १ सू० १४-६० ]
महावृत्तिसहितम्
१५९
जातिः । नात्राकृतिः प्रतीयते नापि किञ्चिल्लिङ्गमस्ति येन सकृदाख्यायेत । लिङ्गानां च न सर्वभागित्यस्मिन् दर्शने गोत्रं चेति न वक्तव्यम् | चरणैः सहेति चरणमध्ययनवशात् क्रिया तदात्मकं ' जातिः । कुक्कुटी । ब्राह्मणी । तटी । नाडायनी । बह्वृची | कठी । कठेन प्रोक्तमधीते या "शौनकादिभ्यश्छन्दसि गिन्' [ ३ | ३ | ७७ ] इति णिन् । परस्याणः “उप्प्रोक्तात् " [ ३१२१५४ ] इत्युप् । शौनकादि वेव । "कठचरकात्” इति इन उप् । जातेरिति किम १ मुण्डा । प्रयोङ इति किम् ? श्रार्या । चत्रिया ।
पाककर्णपर्णपुष्पफलमूलवालद्योः || ३|१|५४ ॥ पाकादयो द्युभूता यस्य तस्माजातिवाचिनो मृदः स्त्रियां ङीत्यो भवति । श्रोदनपाकी । दणपाकी । मूषिककर्णी । शङ्कुकर्णी । पृष्टिपर्णी । शालिपर्णी । शङ्खपुष्पी | हिरण्यपुष्पी । दासीफली । पूगफली । दर्भमूली । शीर्यमूली । गोवाली । अश्ववाली । पुष्पफलमूलोत्तरपदाद्यतो ङीविधिर्नेष्यते तदजादिषु पठनीयम् । पूर्वेण सिद्धे नियमार्थमेतत् । स्त्रियामेव ये • जातिवाचिनः शब्दास्तेषु एतेभ्य एव ङीविधिर्नान्यस्मात् । बलाका | मक्षिका ।
इतो मनुष्यजातेः ||३|१|५५॥ इकारान्तान्मनुष्य जातिवाचिनो मृदः स्त्रियां ङीत्यो भवति । कुन्ती । अवन्ती । श्रपत्यार्थे “द्वित कुरुनाद्यजाद कौशलाब्ज्य:" [३|१|१५३ ] इति ज्यः । तस्य "कुन्त्यवन्ति कुरुभ्यः स्त्रियाम्” [३।१।१५७] इत्युपू । एवं दाक्षी । लाक्षी । इत इति किम् ? विट् । दरत् । यथासंख्यमत्रणोः "तोऽप्राच्यभदेः " [३ | १|१५८ ] इत्युप् । मनुष्यग्रहणं किम् ? तित्तिरिः । जातेरिति वर्तमाने पुनर्जातिग्रहणं योङोऽपि यथा स्यात् । औदमेयी । “अयोङ: "” [ ३|१|५३ ] इति प्रतिषेधः उत्तरत्र त्रिसूत्र्यां च वर्तते । "इस उपसंख्यानमजात्यर्थं कर्तव्यम्" [ वा० ] सुतङ्गमेन निवृत्ता नगरी सौतङ्गमी । "वुच्छय्कठे " [३|२| ६०] इत्यादिना तङ्गमादिभ्य इञ् ।
ऊरुतः ||३|१|१६|| मनुष्यतेरिति वर्तते । उकारान्तान्मनुष्यजातिवाचिनो मृदः स्त्रियां ऊकारत्यो भवति । कुरूः । इक्ष्वाकुः । पर्सुः । अस्य “कुन्त्यबन्ति कुरुभ्यः स्त्रियाम् ' ' [ ३|१|११७] इति श्रमणोः “श्चतोऽप्राच्यभर्गादेः” [३।१।१५८ ] इत्युप् । द्विमात्रोच्चारणं “ शेषाद्वा'' [ ४|२| १५४ ] इति परस्यापि कपो बाधनार्थम् । तथाहि ब्रह्मा बन्धुर्यस्याः सा ब्रह्मबन्धूः । वीरबन्धूः । अत्र च समुदायो ब्राह्मणविशेषजातिः । यद्भावेन मृदमृदोरेकादेशी मृद्वद्भवतीति मृत्सशायां स्वाद्युत्पत्तिः । मनुष्यजातेरित्येव । रुरुः । कृकवाकुः । श्राखुः । नयोङ इत्येव । श्रध्वर्युः स्त्री । श्रलावूः । कर्कन्धूरित्येवमादय श्रौणादिकाः । कथं अलाबुकर्कन्धुफलमिति १ " इकः प्रोडया:' [ ४ | ३ | १७२] इति प्रादेशेन सिद्धम् ।
पङ्गोः ||३|१|५७॥ पङ्गुशब्दात् स्त्रियामूत्यो भवति । पङ्गः । श्वशुरशब्दस्योकाराकारयोः खमूश्च त्यो वक्तव्यः । श्वश्रूः ।
ऊरुद्योरिवे ||३|१|५८॥ ऊरुशब्दो द्युर्यस्य तस्मान्मृद इवार्थे गम्ये स्त्रियामूल्यो भवति । करभोरूः । कदलीस्तम्भोरूः । नागनासोरूः । इव इति किम् ? वृत्तोरुः कन्या ।
संहितशफलक्षणवामादेः || ३|१|५९ || संहितायादेर्मृदः ऊरुद्योः स्त्रियामूत्यो भवति । श्रनिवार्थोंSयमारम्भः । संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः । "सहितसहाभ्यां चेति वक्तव्यम्” [ वा० ] सहितोरूः । सहोरूः ।
बाह्रन्तकद्र कमण्डलुभ्यः ||३|१२६० ॥ बाहुशब्दान्तान्मृदः कद्रकमण्डलुशब्दाभ्यां खुविषये ऊत्यो भवति । मद्रबाहूः । भद्रबाहूः । कदुः । कमण्डलुः । कासाञ्चिदेताः संज्ञाः । खाविति किम् ? वृत्तौ बाहू अस्याः वृत्तत्राहू: । कदुः । कमण्डलुः ।
१. यदात्मकं जातिः अ०, ब०, स० ।
For Private And Personal Use Only