________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५८
जैनेन्द्र-व्याकरणम्
[ अ० ३ पा० १ सू० ४८-५३
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् ||३|||४८ || स्वाङ्गान्नीच इति वर्तते वेति च । नासिकादयो ये न्यञ्चस्तदन्तान्मृदो वा ङीत्यो भवति । दीर्घनासिकी। दीर्घनासिका । तनूदरी । तनूदरा । विम्बोष्ठी । बिम्बोष्ठा | “ओत्वोष्ठयोर्वा से पररूपमुपसंख्यास्यते" [वा०] समजङ्घी । समजङ्घा । समदन्ती । समदन्ता । चारुकर्णी । चारुकर्णा । तीक्ष्णशृङ्गी । तीक्ष्णशृङ्गा । नासिकोदरयोः ''बह्वच: " [ ३|१|४६ ] इत्यनन्त रे प्रतिषेधे प्राप्ते ग्रहणम् । सहनत्र विद्यमानलक्षणस्तु प्रतिषेधो भवत्येव । शेषाणामस्फोङ इति पूर्वस्मिन् प्रतिषेधे प्राप्ते उपादानम् । सहादिप्रतिषेधस्तु भवत्येव । 'पुच्छाच्चेति वक्तव्यम्" [वा०] दीर्घपुच्छी । दीर्घपुच्छा | "कमर मणि शरविषेभ्यो नित्यमिति वक्तव्यम्" [वा०] कबरं पुच्छमस्याः कबरपुच्छी । मणिः पुच्छेऽस्याः मणिपुच्छौ । विषं पुच्छेऽस्याः विषपुच्छो । “ईव्विशेषणे वे' [ १|३|१०१] इत्यत्र खङ्गादिभ्यः ईचन्तस्य परवचनमुक्तम् । “उपमानात् पक्षपुच्छ्राभ्यामिति वक्तव्यम्" वा०] उलूक इव पक्षावस्याः उलूकपक्षी शाला । उलूक इव पुच्छमस्या उलूकपुच्छी सेना ।
Acharya Shri Kailassagarsuri Gyanmandir
न क्रोडादिबह्वचः ॥ ३ १२४६ ॥ क्रोडादिर्गणः । क्रोडाद्यन्तात् बहुजन्ताच्च मृदो ङीत्यो न भवति । “श्वाङ्गानीचः” [३|१|४७ ] इति प्राप्तिः । क्रोडाशब्दः स्त्रीलिङ्गः । कल्याणी क्रोडा अस्याः कल्याणक्रोडा । कल्याणगोखा | कल्याणवाला । कल्याणखुरा । कल्याणशफा | कल्याणगुदा । क्रोडादिराकृतिगणः । सुभगा । सुगला । बह्वचः खल्वपि । पृथुजघना । दृढहृदया । महाललाटा |
सहनविद्यमानात् ||३|१ | ५० ॥ सह नत्र विद्यमान इत्येतेभ्य उत्तरं यत्स्वाङ्गं तदन्तात् ङीत्यो न भवति । सकेशा । अकेशा विद्यमानकेशा । सनासिका । अनासिका । विद्यमाननासिका । सुदन्ता । अदन्ता । विद्यमानदन्ता ।
नखमुखाखौ ||३|१/५१ ॥ नख मुख इत्येवमन्तान्मृदः खुविषये ङोलो न भवति । शूर्पणखा । व्याघ्रणखा । वज्रणखा। “पूर्वपदात् खावगः " [ ५४८७ ] इति णत्वम् । गौरमुखा । श्लक्ष्णमुखा । कालमुखा । संज्ञाशब्दा एते । खाविति किम् ? शूर्पमिव नखा अस्या शूपणखी । शूर्पणखा । चन्द्रमुखी । चन्द्रमुखा ।
सख्यशिश्वी ||३|१|५२ ॥ सखी अशिश्वी इत्येतौ शब्दौ निपात्येते । ङीविधिर्निपात्यते । सखयं कुमारी । नास्याः शिशुरस्ति शिखी ।
जातेरयोङः ||३|१|५३ ॥ श्रत इति वर्तते । जातिवाचिनः श्रयकारोऽङो मृदः स्त्रियां ङीत्यो भवति । "प्राकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्माह्या गोत्रं च चरणैः सह । " आकृतिः संस्थानम् । श्राकृतिग्रहणमस्याः श्राकृतिग्रहणा । ब्राह्मणत्वादीनां जातिविशेषाणां संस्थानविशेषाभावात् कथं संग्रह: १ लिङ्गानां च न सर्वभाक् । एकलिङ्गो द्विलिङ्गो वा भावो जातिः । ब्राह्मणत्वादिषु केवलमुपदेशमात्रं जातिव्यवहारस्य निर्बन्धनम् । जात्यभावेऽपि द्विलिङ्गतास्ति देवदत्तः देवदत्ता इति । अथ कथं त्रिलिङ्गेषु तटस्तटी तमित्येवमादिषु जातिवाचित्वम् : सकृदाख्यातनिर्ग्राह्या । श्रभिधानप्रत्यययोरनाकस्मिकत्वात्तन्निमित्तं जातिरिति । एवं सकृदाख्याता निश्चयेन ग्राह्या । ननु सर्वे शब्दा जातिवाचिनः इत्यस्मिन् दर्शने यहच्छाशब्दानां क्रियागुणशब्दानां च जातिशब्दत्वं देवदत्तादयोऽपि संज्ञाशब्दा बाल्यकौमारयौवनादिष्वन्ययिनीमाकृतिमवलस्वन्ते । एवं च देवदत्ता कारणा शुक्लत्यत्र ङीविधिः प्रसज्येत । यदीदं दर्शनमाश्रीयेत व्यावर्त्य नास्तीति ग्रहणमनर्थकं स्यात् । तस्माद्येषां जातिरेव प्रवृत्तेर्निमित्तं त छह जातिशब्दाः । गोत्र' च लौकिकमपत्य मात्र
१. - दाख्याननि श्र० । २ दाख्याननि श्र० ।
For Private And Personal Use Only