________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० ३ पा० । सू० ४६-४७] महावृत्तिसहितम्
१५७ श्रार्याणी । आर्या । क्षत्रियाणी । क्षत्रिया । अपुंयोग इति किम् ? आर्यस्य भार्या आयीं । क्षत्रियस्य भार्या क्षत्रियो । भानुगिति द्विमात्रोच्चारणमिष्टिसंग्रहार्थम् ।
क्रीतात्करणादेः ॥३१॥४३॥ क्रीतशब्दान्तान्मृदः करणादेः स्त्रियां ङीत्यो भवति । वस्त्रेण क्रीयते या वस्त्रक्रीती। वसनक्रीती । "साधनं कृता बहुलम्"[१।३।२६] इत्यत्र बहुलवचनाल्लब्धम् । "तिवाकारकाणां कृभिः सविधिः प्राक्सुबुत्पत्त"[परि०] इति करणवाचिशब्दस्य क्रीतशब्देन सविधिः। पश्चादकारान्तलक्षणो डीविधिः । करणादेरिति किम् ? सुक्रीता । दुष्क्रीता । "इदुदुडोऽस्यपुग्मुहुसः' [शा२८] इति सत्वषत्वे । कथं "साहितस्य धनक्रीता प्राणेभ्योऽपि गरीयसी" बहुलवचनान्न । सुबन्तेन वृत्तिन कृदन्तेन । सुबत्पत्तिश्च बहिरङ्गा अन्तरङ्गे यपि कृते भवतीति सिद्धम् । क्रोतान्तान्मृद इति विशेषणात् वाक्ये न भवति, व्रत्येन (वित्तेन) क्रोता ।
तादल्पे ॥३१॥४४॥ करणादेरिति वर्तते । करणादेम॒दः क्लान्तादल्पे डोत्यो भवति । अत्रापि प्राफ सुबुत्पत्तेः सविधिः । अभ्रविलिप्ती द्यौः। अल्पान्यस्यामभ्राणीत्यर्थः । रूपविलिप्ती पात्री । अल्प इति किम् ? चन्दनानुलिप्ता।
जातेर्बात् ॥३।११४५॥ क्लादिति वर्तते । जातिशब्दपूर्वः क्लान्तो यो बसस्तस्मान्डीत्यो भवति । अस्वाङ्गादेहत्तरत्र विकल्पो वक्ष्यते । स्वाङ्गे पूर्वपदमिहोदाहरणम् । शङ्खौ भिन्नौ यस्याः सा शङ्खभिन्नी । उच्छिन्नी । गलकोत्कृत्ती। केशलूनी । जातेरिति किम् ? मासजाता। बहुजाता । अजाता । सुखजाता । दुःखजाता । बादिति किम् ? सव्यजानुप्रतिष्ठिता। "जातान्तोत्प्रतिषेधो वक्तव्यः' [वा०] दन्तजाता । स्तनजाता। "पाणिगृहीत्यादीनां गुर्वनुज्ञातेन की वक्तव्यः" [वा.] पाणिग्रहीती भार्या । यस्यास्तु यथाकथञ्चित पाणि हीतः सा पाणिग्रहीता। त इति दतोक्तं ( त इत्यत्रोक्तं ) जातिकालसुखादिभ्यः परनिपातस्तान्तस्योत जातिरत्र सकृदाख्यातनि ह्या ।
वाऽस्वाङ्गादेः ॥३॥१॥४६॥ क्लादिति वर्तते बादिति च । अस्वाङ्गादेः क्वान्तारासाद् वा ङीत्यो भवति । सारङ्ग जग्धमनया सारङ्गजग्धी। सारङ्गजग्धा। पलाण्डुभक्षिती। पलाण्डुक्षिता। सुरापोती। सुरापोता । अस्वाङ्गादेरिति किम् १ शवभिन्नी । स्वाङ्गादेः पूर्वेण नित्यो विधिः । वेति व्यवस्थितविभाषा । तेनेह न भवति । वस्त्रं छन्नमस्याः वस्त्रच्छना । वसनच्छन्ना । षसेऽपि संज्ञायां विकल्पः। प्रवद्धविलूनी । प्रवद्धविलूना। . स्वाजानोचोऽस्फोडः ॥३॥१॥४७॥ वेति वर्तते । स्वाङ्ग न्यक् अस्फोङ् यत् तदन्तान्मृदो वा डोत्यो भवति । दीर्घकेशी । दीर्घकेशा । गौरमुखी । गौरमुखा । स्वाङ्गादिति किम् ? बहुयवा । अस्फोङ इति किम् ? कल्याणगुल्का । कल्याणपाङ । वेति व्यवस्थितविभाषा व्याख्याता । तेन 'अङ्गगात्रकण्ठेभ्यो वा प्रतिषेधः" [वा०] मृदगी। मृदङ्गा । मृदुगात्री। मृदुगात्रा। स्निग्धकएठी। स्निग्धकएठा । बसाधिकारे पुनयंगग्रहणं पार्थम् । अतिकेशी । अतिकेशा । निष्केशी । निष्केशा माला। इह कस्मान्न भवति ? कल्याणं पाणिपादमस्याः कल्याणपाणिपादा। स्वाङ्गसमुदायः स्वाङ्गग्रहणेन न गृह्यते । किं स्वाङ्गम् ? "अदवं मूतिमत्स्वाङ्ग प्राणिस्थमविकारजम् । अतरस्थं तत्र दृष्टं चेत् तस्य चेत् तत् तथायुतम् ।"स्वाङ्ग मुखादि । अद्रमिति किम? बहुकफा । मूर्तिमदिति किम् ? बहुशाना । प्राणिस्थमिति किम् ? श्लएमुखा शाला | अविकारजमिति किम् ? बहुशोफा । श्रतस्थं तत्र दृष्टं च प्राक् प्राणिनि दृष्ट संप्रत्यप्राणिस्थमपि स्वाङ्गम् । दोधकेशी। दीर्घकेशा रथ्या । तस्य चेत् तत् तथायुतम् येन प्रकारेण प्राणिनो युतं दृष्ट तस्याप्राणिनोऽपि यदि तत्तथायुतं दृश्यते एवमपि स्वाङ्गम् । दीर्घमुखी दीर्घमुखा अर्चा ।
For Private And Personal Use Only