________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ३ पा० १ सू० ३७-४२ एनी । स्येता । स्येनी । रोहिता । रोहिणी । हरिता। हरिणी । शवली । पिशङ्गी । कल्माषी । सारङ्गी । काली संज्ञायां वर्णे च । काला अन्या । क्वचिदप्रवृत्तिरेव श्वेता। असिता। पलिता। कृष्णा | कपिला । क्वचिदुभयथा। शोणी । शोणा । वडवा । नीली औषधिः। प्राणिनि च नीली वडवा। नीली गौः । संज्ञायामुभयम् । नीली। नीला | आच्छादने न भवत्येव । नीला शाटी। नोला मेघसंहतिः । वर्णादिति किम् ? कृता । हृता । अत इत्येव । सितिः कन्या ।
कुण्डगोणस्थलभाजनागकुशकामुककबरादत्रमावपनाकृत्रिमााणास्थौल्यायोविकारमैथुनेच्छाकेशवेशेषु ॥३॥१॥३७॥ कुण्डादिभ्यः कवरशब्दपर्यन्तेभ्योऽमत्रादिष्वर्थेषु यथासंख्यं स्त्रियां डोत्यो भवति । कण्डी भवति अमत्रं चेत् । कुएडा अन्या। दाह इत्यर्थः। गोणी भवति श्रावपनं चेत् । गोणा अन्या। संज्ञषा । स्थली भवति अकृत्रिमा चेत् । स्थला अन्या । भाजी भवति श्राणा चेत् । भाजा श्रन्या । भाजयतेः स्त्रियां युचि प्राप्त अत एव निपातनादकारः। नागी भवति स्थौल्यं चेत् । नागा अन्या । तन्वी दीर्घा वा । संज्ञायां वा । जातिविवक्षायां तु नित्यं ङो। कुशी भवति अयोविकारश्चेत् । कुशा अन्या । काष्ठादिमयो तदाकृतिः। कामुकी भवति मैथुनेच्छा चेत् । कामुका अन्या। कबरी भवति केशवेशश्चेत् । कबरा अन्या।
पुयोगात् खोरगोपालकादेः ॥३॥१॥३८॥ अत इति वर्तते । पुंयोगाद्धेतोर्यः शब्दः स्त्रियां वर्तते खुभूतस्तस्मान्डीत्यो भवति गोपालकादीन् वर्जयित्वा । उपाध्यायस्य स्त्री उपाध्यायी। गणकी। प्रष्ठी। महामात्री । एते संज्ञाशब्दा पुंयोगात् स्त्रियां वर्तन्ते । पुंयोगादिति किम् ? देवदत्ता । खोरिति किम् ? प्रसूता । प्रजाता। परिभ्रष्टा | पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते; न तु पुंसि संज्ञाभूताः। अगोपालकादेरिति किम् ? गोपालिका । पशुपालिका । श्रादिशब्दः प्रकारवाची । तेन सूर्याद्देवतायां डोर्न भवति । सूर्यस्य भार्या सूर्या । देवतायामिति किम् ? सूर्यो नाम मनुष्यः तस्य सूरीति ।
पूतक्रतोरै च ॥॥३६॥ पुंगोगादिति वर्तते । पूतक्रतुशब्दान्छोत्यो' भवत्यैकारश्चान्तादेशः । पूतक्रतोः स्त्री पूतक्रतायी। पुंयोगादित्येव । पूताः क्रतवो यस्याः सा पूतक्रतुः ।
वृषाकप्यग्निकुसितकुसीदात् ॥३१॥४०॥ ऐ चेति वर्तते पुंयोगादिति च । वृषाकपि अग्नि कुसित कुसौद इत्येतेभ्यः स्त्रियां ङोत्यो भवति ऐकारश्चान्तादेशः। वृषाकपायी । अग्नायो । कुसितायो । कुसीदायी । कुसितकुसीदयोः संज्ञाशब्दत्वात् पूर्वेणैव सिद्धेऽप्यैकारार्थ वचनम्। पुंयोगादित्येव । वृषाकपिर्नाम काचित् ।
मनोरौ च ॥३॥१॥४१॥ पुंयोगादिति वर्तते । श्रीकारश्चान्तादेश ऐकारश्च । मनोः स्त्रो मनावी । मनायो । केषाञ्चिन्मनुरित्यपि ।
वरुणभवशवरुद्रेन्द्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥३।११४२॥ वरुणादिभ्यो मुद्भयो स्त्रियां ङीत्यो भवति भानुगागमः । अत्र केषाञ्चिच्छब्दानां पुंयोगादिति सिद्धेऽप्यानुगर्थ ग्रहणम् । वरुणानी । भवानी । शर्वाणी । रुद्राणी । इन्द्राणी । मृडानी । “हिमारण्ययोमहत्वे" [वा०] महद्धिमं हिमानी। महदरण्यमरण्यानी । “यवाहोणे" [वा०] सदोषो यवः यवानी । “यवनाल्लि प्याम्" [वा०] यवनानां लिपिः यवनानी । उपाध्यायमातुलाभ्यां वा । प्रानुक एवायं विकल्प उपाध्यायी। उपाध्यायानी। मातुली। मातुलानी। "प्राचार्यादणत्वं च" [वा०] आचार्यानी । प्राचार्या । "आर्यक्षत्रियाभ्यामपु'योगे वेति वक्तव्यम्" [वा०]
१. उदात्तु कोल्यो मु०।
For Private And Personal Use Only