________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ पा० १ सू० ३१-३१ ]
महावृत्तिसहितम्
१५५
आधेयश्चाक्रियाजच सोऽसत्व प्रकृतिगुणः ।" सत्त्वं द्रव्यं तत्र निविशते उत्पद्यते श्राश्रयति वा स गुण इति संबंधः । द्रव्यादपैति अपगच्छति यथाम्रात् हरितता पीततायां उत्पन्नायाम् । पृथज्जातिषु दृश्यते, यथा सैव हरि - तता तरुतृषु । श्राधेयः उत्पाद्यः, यथा कुसुमयोगात् गन्धो वस्त्रे, यथा वा घटे रक्कता । श्रक्रियावश्च क्रियाजश्च क्रियातो नोत्पद्यते यथाऽऽकाशादिषु महत्त्वादि । चकारात् क्रियाजश्च यथा संयोगो विभागो वा श्रसवप्रकृतिद्रव्यस्वभावरहितो निर्गुण इत्यर्थः ।
1
बह्वादेः ||३|१|३१|| वेति वर्तते । बहु इत्येवमादिभ्यश्च मृद्भ्यः स्त्रियां वा ङीत्यो भवति । बहुः । बह्री । पद्धतिः । पद्धती । बहु पद्धति श्रञ्चति श्रति श्रंहति शकटि शक्ति । केचिच्छस्त्रे ऽर्थे शक्तिं पठन्ति । सामर्थ्ये शक्तिरेव तेषाम् । शस्त्रि शारि राति राधि शाधि अहि कपि मुनि यष्टि । किमर्थमिकारान्ताः पय्यन्ते । यावता कृदिकारादक्लेरित्येव सिद्धे पद्धतिशब्दान्न स्यात् इतरेभ्यश्चाव्युत्पत्तिपक्षः "इत: प्राण्यङ्गात् " [ग० ] श्रोणि: श्रोणी । धमनिः । धमनी । इत इति किम् । ग्रीवा । प्राण्यङ्गादिति किम् ? कौणिः । साणिः । " कृदिकाशद: " [ग० ] भूमिः । भूमी । क्लेरिति किम् १ कृतिः । हृतिः । श्रत्यर्थावि (दि) त्येके । इहापि मा भूत् । चकरणिर्हन्त ते वृषल । कृदिकारादिति किम् ? सुगन्धिः । सुरभिगंधिः । स्त्रीहृतो न भवति । व्युत्पत्तिपक्षे कृदिकारस्यैचः पूर्वः प्रपञ्चः । चण्ड अगल कमल कृपण विकट विशाल विशङ्कट भरुज । चन्द्रभागानद्याम् । कल्याण उदार पुराण । श्रहः शब्दस्येह पाठोऽनर्थकः । केवलस्य स्त्रियामवृत्तेः । सविधौ तु उत्तरपदभूतस्य “वोठ्खे” [३।१।११] इत्यनेनैव त्रैरूप्यं सिद्धम् । बहुशब्दस्य गुणवाचित्वात्पूर्वेणैव विकल्पे सिद्धे द्विद्धं सुबद्धं भवतीति पुनर्ग्रहणम् । तेन सकृदुक्तो श्रणन्तान्ङीविधिः । क्वचिन्न भवति । कामिकेति ।
पतिम्यन्तर्वयो ||३|१|३२|| पतिवत्नी अन्तर्वत्नी इत्येतौ शब्दौ निपात्येते । पतिमच्छन्दस्य ङीत्ये परतः मतोर्वत्वं नुमागमश्च निपात्यते । जीवति भर्तरि पतिवत्नी । जीवत्पतिरित्यर्थः । अन्यत्र पतिमती पृथिवी । श्रन्तः शब्दादधिकरणप्रधानात् श्रस्तिसामानाधिकरण्याभावात् विहितो मतुर्नुक् च निपात्यते गर्भिण्याम् । अन्तर्वनी गर्भिणी | अन्यत्र अन्तरस्यामस्ति शालायाम् । उक्तं च-- “ पतिवत्न्या नुका वश्वमन्तर्वत्यां मतुका । जीवत्य च गर्मियां यथासङ्ख्यं निपात्यते ॥"
1
पत्नी ||३|१|३३|| पत्नीति निपात्यते । पतिशब्दस्य स्त्रियां नकारोऽन्तादेशः पुंयोगे निपात्यते ङीत्यो नकारान्तत्वादेव भवति । इयमस्य पत्नी । अस्य पुंसः वित्तस्य स्वामिनीत्यर्थः । पुंयोगादन्यत्र पतिरियमस्य ग्रामस्य ।
सपत्न्यादौ ||३|१|३४॥ सपत्न्यादिषु पत्नीशब्दो निपात्यते "वा से" [३|१|३५] इति विभाषया पत्नीशब्दस्य निपातने प्राप्ते नित्यार्थं वचनम् । समानः पतिरस्याः सपत्नी । यद्येवं पत्नीति वर्तते समानादिभ्य इति वक्तव्ये सनकारेकारस्य समुदायस्योच्चारणं किमर्थम् ? समानशब्दस्य सभावार्थम् । इकारापायेऽपि नकारश्रवणार्थं च । सपत्न्याः श्रयं सापन्यः । कृतेकारस्योच्चारणं पुंवद्भावप्रतिषेधार्थमित्येके । सपत्नीभार्यः । एवं एकपत्नी । वीरपत्नी । पिण्डपत्नी । पुत्रपत्नी । भ्रातृपत्नी ।
वा से || ३|१|३५|| से पत्नी वा निपात्यते । पतिशब्दान्तस्य मृदः स्त्रियां वा नकारो ऽन्तादेशो निपात्यते । बसे बसे चेदं निपातनम्। नीच इति नाभिसम्बध्यते । गृह्यमाणस्य शब्दस्याभावात् । बसेदृढः पतिरस्या दृढपतिः । दृढपत्नी । स्थिरपतिः । स्थिरपत्नी । वृद्धपतिः । वृद्धपत्नी | स्थूलपतिः । स्थूलपत्नी । पसे ग्रामस्य पतिः ग्रामपतिः । ग्रामपत्नी । श्रप्राप्ते विकल्पोऽयम् । पुंसा योगे पत्नीति नित्यं निपातनम् । तेन पत्नीशब्देन ताले राजनीत्येव भवति । स इति किम् १ पतिरियमस्य ग्रामस्य ।
वर्णाद्बहुलं तो नस्तु ||३|१| ३६॥ वर्णवाचिनो मृदः स्त्रियां बहुलं ङीत्यो भवति तकारस्य तु नकारादेशः । तुशब्दः किमर्थः १ बहुलं ङोविधिर्भवति तकारस्य तु नकारो नित्यं यथा स्यादित्येवमर्थः । एता ।
For Private And Personal Use Only