________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० ३ पा० १ सू."
४-३०
. १५४
पृथिवी क्रोष्टु मातामह पितामही एही पर्येही श्राश्मरथ्यात्कट प्राप्तः । काव्या शैव्या एतौ ज्यान्तौ । श्रारोह चण्ड। “नॄनश्योरैप् च” [ वा० ] नारी । येऽत्रानडुहीप्रभृतय ईकारान्ताः पठ्यन्ते तेषां से पुंवद्भावो न भवति । श्रनडुद्दीभार्यः । प्रत्यवरोहिणीभार्यः । श्राग्रहायणीभार्यः । इति ।
वयस्यनन्स्ये ||१|१|२४|| प्राणिनां कालकृता शरीरावस्था वयः । वयस्यनन्त्ये वर्तमानान्मृदः स्त्रियां ङीत्यो भवति । कुमारी | किशोरी । वर्करी । वधूटी । चिरण्टी । तरुणी । तलुनी । अनन्त्य इति किम् ? स्थविरा । वृद्धा । “कन्याया कनीन व ' ' [ ३|१|१०५ ] इति निपातनात् कन्या । श्रत इत्येव । शिशुः । उत्तानशया । लोहितपादिका । द्विवर्षा । नैते साक्षाद्वयोवाचिनः शब्दाः । अथवा द्विवर्षादिषु " परिमाणादधदुपि [३।१।२६] इत्येतस्मान्नियमान्न भविष्यतीति ।
रात् ||३|१|२५|| रसंज्ञकान्मृदः स्त्रियां ङीत्यो भवति । श्रकारान्तोत्तरपदो रः स्त्रियां भाष्यते । पञ्चानां पूलानां समाहारः पञ्चपूली । दशपूली । श्रन्नन्तस्य रसस्य खं स्त्रियां चेति पञ्चपक्षी दशतक्षी । पञ्चानी । जादिष्वजशब्दो जातिवचनोऽभिप्रेतः । कथं त्रिफला ? अजादिषु पाठात् ।
परिमाणादुपि ||३|१|२६|| सर्वतो मानं परिमाणम् परिमाणान्ताद् रात् हृदुपि सति ङीत्यो भवति । द्वाभ्यां कुडवाभ्यां क्रीता श्रायस्य त्यस्य "रादुबखौ " [ ३।४।२६ ] इत्युप् । द्विकुडवी । द्वयाढकी ।" रात्" [३।१।२१] इति सिद्धे नियमार्थोऽयम् । यतः परिमाणादेव हृदुपि नान्यतः । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । दशाश्वा । तुल्यजातीयस्य नियमान्निवृत्तिः । समाहारे भवत्येव । पञ्चाश्वी । परिमाणादिति योगवियोगः कर्तव्यः । तत इष्टतोऽवधारणं लभ्यते परिमाणशब्देनेह रूढिवशात् प्रस्थादिर्गृह्यते । कालसंख्ययोग्ग्रहणम् । तेन द्विवर्षा । त्रिवर्षा । द्विशता । त्रिशता । द्वे वर्षे प्रमाणमस्याः "प्रमाणे ध्वंसनं राच्च" इति द्वयस डादीनामुप् । उक्तं च"ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । श्रायामस्तु प्रमाणं स्यात् संख्या बाह्य तु सर्वतः " ।
न विस्ताचितकम्बल्यात् ||३|१|२७|| बिस्त प्राचित कम्बल्य इत्येवमन्ताद् रात् हृदुपि ङीत्यो न भवति । बिस्तादीनां परिमाणलात् सर्वेण प्राप्तिः- द्वाभ्यां बिस्ताभ्यां क्रीता द्विविस्ता । त्रिविस्ता । द्वयाचिता । च्याचिता । द्विकम्बल्या । त्रिकम्बल्या ।
कारखात् क्षेत्रे ||३|११२८ ॥ काण्डशब्दान्वात् शत् हृदुपि सति क्षेत्रेऽभिधेये ङीत्यो न भवति । द्वे काडे प्रमाणमस्या द्विकाराडा त्रिकाण्डा क्षेत्रभक्तिः । "प्रमाणेण्द्वयसन मात्र: " [३|४|५८ ] इत्यागतानां arasादीनां प्रमाणे ध्वंसनं राच्चेति वक्ष्यमाणया इष्टया उप् । काण्डं धनुः । तस्य परिमाणशब्देना संगृहीतमतः "परिमाणादुपि [ ३।१।२६ ] इत्यनेन नियमेन प्रतिषेधे सिद्धे नियमार्थमिदम् । क्षेत्र एव प्रतिषेधो भवति नान्यत्र । द्विकाण्डी । त्रिकाण्डी रज्जुः । " रात्” [ ३।११०५ ] इति ङीविधिः ।
पुरुषात्प्रमाणे वा ||३|१|२९|| हृदुपीति वर्तते । प्रमाणे यो वर्तते पुरुषशब्दस्तदन्ताद्राद् हृदुपि वा भवति । द्वौ पुरुषौ प्रमाणमस्याः खातायाः द्वयसडादीनां “प्रमाणे ध्वंसनं राच" इति उप् । द्विपुरुषा । द्विपुरुषी । त्रिपुरुषा | त्रिपुरुषी । परिमाणत्वात्पुरुषस्य " परिमाणादुपि" [ ३।१।२६] इति नियमान्निवर्तितो ङीत्यो विकल्पते । प्रमाण इति किम् ? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा । हृदुपीत्येव । समाहारे पञ्चपुरुषी ।
गुणोक्तेरुतोsaveफोङः ॥ ३ | १३० ॥ वेति वर्तते । गुणोक्तेर्मृद उकारान्ताद् वा ङीत्यो भवति खरुशब्दं स्फोडं च वर्जयित्वा । यः शब्दो गुणे वर्तित्वा द्रव्ये वर्तते स गुणोक्तिरित्युच्यते । पटुः । पट्वी । मृदुः । मृद्वी । गुणोक्तेरिति किम् ? श्राखुः । जातिशब्दोऽयम् । उत इति किम् ? शुचिरियं कन्या । अखरुस्फोङ इति किम् ? खरुरियं कन्या । पाण्डुरियं कन्या । "सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते ।
For Private And Personal Use Only