________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ३ पा० १ सू० ११-२३ ]
महावृत्तिसहितम्
१५३
यः ||३|१ | १६ ॥ यञन्तान्मृदः स्त्रियां ङी भवति । गार्गी । वात्सी । "हलो हृतो ड्याम्” [ ४|४|१४० ] इति यकारस्य खम् । " द्वीपादनुसमुद्रेऽयज्” [ ३३२।१३० ] इति श्रयञ् । द्वथनुबन्धकः । तस्येद्दाग्रहणम् । द्वीपे भवा द्वैप्या। योगविभाग उत्तरार्थः ।
फट् ||३|१|२०|| यत्र इति वर्तते । यञन्तान्मृदः स्त्रियां फडित्ययं त्यो भवति । टकारो ङयर्थः । अथ गार्ग्यायणी इति स्थिते फटो हृत्संज्ञा विरहात् " क्रुदुवत्साः " [91975 ] इति मृत्संज्ञा नास्ति । कथं ङोविधिः ? टित्करणसामर्थ्यात् भविष्यति । गार्ग्यायगी । वात्स्यायनी । श्रावट्यायनी । वचनात्पूर्वोऽपि विधिर्भवति । गार्गी । वात्सी ।
लोहितादिसकलान्तात् ||३|१|२१|| यत्र इति वर्तते । लोहितादिर्गर्गादिष्वन्तर्गणः । लोहितादिभ्यः सकलशब्दपर्यन्तेभ्यो यञन्तेभ्यः स्त्रियां फट् त्यो भवति । पुनरारम्भो नित्यार्थः । तेन फडेव भवति । "यजः " [2/198 ] इत्यनेन ङोः प्राप्तो निवर्त्यते । लौहित्यायनी । सांसित्यायनी' । बाभ्रव्यायणी । सौचव्यायणी । सांचव्यायनी । लान्तव्यायनी । जैगीषव्यायणी । मानव्यायनी । मांतव्यायनी । मनायीशब्दस्य पाठसामर्थ्यात् "भस्य हृत्यढे” [ वा० ] इति पुंवद्भावो न भवति । मानाय्यायनी । काव्यव्यायनी । रौक्ष्यायणी । तारुदयायणी । तालुयायणी । ताण्ड्यायनी । वातण्ड्यायनी । श्राङ्गिरसे तु वतण्डीत्येव भवति । काप्यायनी । कात्यायनी । शाकल्यायनी ।
कौरव्यासुरिमाराकात् ||३ | १|२२|| कौरव्य आसुरि माण्डूक इत्येतेभ्यः फट् भवति । कौरव्याret | प्राप्तः । श्रासुरीति प्रश्लेषनिर्देशात् अकारश्चान्तादेश श्रायनादेशो ( शे ) न स्वेको दीत्वार्थः । श्रहृत्त्वाद् “यस्य ङ च" [ ४|४|१३६ ] इति इखं प्राप्नोति । श्रासुरायणी । "इतो मनुष्यजाते:'" [३/ ११५५ ] इति ङीत्यः प्राप्तः । माण्डूकस्यापत्यं स्त्री माण्डूकायनी । "ढण्च मण्डूकात्' [३ | १|१०८] इत्यण् । ङी प्रसज्येत । "तस्येदम्' [ ३३८८) इत्यणि विवक्षिते कौरवीति भवति । शैषिकार्थविवक्षायां "इज: " [ ३२८८] इत्यणि प्राप्ते "दोश : " [३/२/१०] इष्यते । श्रासुरिया प्रोक्ता श्रासुरीया शिक्षा ।
"
गौरादेः ||३|१|२३|| गौरादिभ्यः स्त्रियां ङी भवति । गौरी । वर्णत्वे बहुलं ङीप्राप्तेः संज्ञायामप्राप्तेः । गौर मत्स्य मनुष्य शृङ्ग गवय इय मुकय ऋष्य' "प्रयोङ: '' [३।१।५३ ] इति ङीप्रतिषेधः प्राप्तः । शृङ्गाट्टा प्राप्तः । एवमुत्तरत्राप्यूह्यम् । पुट पटें द्वरा द्रोण हरिण ककण अरीहण वरट उर्केण श्रामलक कुवल चदर बिल्व (वल्लक) बिम्ब कर तक्कर शर्कार शष्कराड शबल सुषव षाण्डशौ केषाञ्चित् । सालन्द (सलद ) गडुल पडु श्राढकानन्द स्पाट शष्कुल सूर्य पूष मूष घातक सल्लक मालक मालत साल्वक वेतस वृत ( वृस ) श्रतस उमा (उभय ) भृङ्ग मह मठ छेइ स्वन् तक्षन् श्रनडुही श्रनड्वाही । एषणात्करणे कारके । देहमेथ काकानगवादनादय । यान मे गौतम ( गोतम ) श्रयस्थूण भौरिकि भौलिकि मौलिङ्ग श्रद्गाहमानि श्रालम्ब श्रयामक श्रलब्धि श्रपाच्यांङ्क ( आपच्चिक) ऊपस्तश्च ( १ ) आरट टोट नट मूलाट सूरण (श्रास्तरण) अधिकार प्रत्येवारोहिणी श्राग्रहायणी । ग्रहायनस्य स्वार्थे ण णत्वं च निपात्यते । सेचनी । सुमंगलात्संज्ञायाम् । सुन्दर मण्डल मन्थर मन्दुल पेट (पट, पिट ( विट) पिण्ड ऊर्द गूर्द सूर्द । केषांचित् रेफापरो मकारः | सूर्म हर्द भाण्ड लोहाएड कदर कन्दर बदल कन्दल तरुण तलुन सौधर्म । रोहिणी रेवती च नक्षत्रे | विकल निष्कल पुष्कल । कटाच्छ्रोण्याम् । पिप्पल्यादयश्च । पिप्पली हरीतकी कोशातकी शमी करीरी
१. सशिष्यायनी मु० । २. ऋश्य अ० । ३. त्राऽप्यभ्युह्यम् अ०, ब०, स० । ४ पद मु० । ५. उणक मु० । ६ पण्डुश घ० । पटुस ब० । ७. अपामक य० । श्रपामक स० । ८ उपतश्च ब० । १. प्रत्यवारोहिन् मु० । १०. प्राग्रहायण मु० |
२०
For Private And Personal Use Only