________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
जैनेन्द्र-व्याकरणम् [अ०३ पा० । सू० १२-15 बहुतक्ष्णः । बहुधीवे । बहुधीवाः । बहुधीवानौ । बहुधीवानः । बहुधीवौं । बहुधीवर्यः। उङ्घ इति किम् ! सुपर्वा । सुपर्वाणौ। पूर्वेण द्वैरूप्यम् । अन इत्येव सुमत्स्या नदी।
डी खौ ॥१॥१२॥ खुविषयेऽन्नताद् बसान्डी भवति । अधिराजी नाम ग्रामः। पुनर्जीग्रहणं नित्यार्थम् ।
ऊधसः ॥३१॥१३॥ बादिति वर्तते । ऊधःशब्दान्ताबसान्ङी भवति । कुण्डमिवोधो यस्याः कुण्डोध्नी । द्वे ऊधसी यस्या व्यूनी। निगंतमूघोऽस्या निरुनी “ऊधसोऽन' [४।२।१३२] इति अनङ्सान्तः । “वोङ्के' [३।१११] इति त्रैरूप्यं प्राप्तम् । स्त्रियामेवानङ । सान्त इत्येव । इह मा भूत् । महोधाः । पर्जन्यः । बादित्येव । प्राप्ता ऊधः प्राप्तोधा गौः। "इपा च प्राप्तापन्ने [१॥३॥२०] इति षसः । तत्रैव पूर्ववल्लिङ्गं व्याख्यातम् ।
दामहायनात्संख्यादेः ॥३१॥१४॥ संख्यादेबसात् दामान्तात् हायनान्ताच डी भवति । द्विदाग्नी। त्रिदाम्नी। “वोले" [३।११] इति त्रैरूप्यं प्राप्तम् । "हायनाद्वयसि स्मृतः" [वा०] विहायनी । त्रिहायणी । चतुर्हायणी वत्सा । "त्रिचतुर्ध्या हायनस्य णत्वमपि वयसीप्यते" [वा० ] तेनेह डीविधिर्णत्वं च न भवति । द्विहायना । त्रिहायना । चतुर्हायना शाला । संख्यादेरिति किम् ? उद्दामा वडवा । "वोझे" [३।१।११] इत्यनेन त्रैरूप्यं भवति ।
पादो वा ।।३।१।१५॥ पाच्छब्दान्तान्मृदः स्त्रियां वर्तमानाद्वा डी भवति । द्विपात् । द्विपदी । त्रिपात् । त्रिपदी । “सुसंख्यादेः" [१२।१४०] इति पादशब्दस्य खम् । पादयतेः किबन्तस्य प्रयोगो नास्ति।
टाचि ॥३।१११६॥ पाद इति वर्तते । पाच्छब्दान्तान् मृदष्टाब् भवति अच्यभिधेयायाम् । द्विपदा ऋक् । त्रिपदा ऋक् । ऋचीति किम् ? द्विपदी देवदत्ता ।
अनीचः ॥३१॥१७॥ न्यक्छब्दोऽत्राप्रधानवचनो नअपूवः । यदित ऊर्ध्वमनुक्रमिष्यामोऽनीच इत्येवं तद्वेदितव्यम् । नीचो ङ्यादयो न भवन्तीत्यर्थः । वक्ष्यति "टिड्डाण' [३।11८] इति । कुरुचरी । मद्रचरी । “जातेरयोङ' [३।११५३] । कुक्कुटी । शूकरी । अनीच इति किम् ? बहुकुरुचरा । बहुकुक्कुटा मथुरा । ननु पूर्वत्र समुदायः स्त्रियां वर्तते नावयवः । अवयव एव च टिन्न समुदायः। द्वितीयेऽपि बसे न समुदायो जातिवाची; किं त्ववयवः, तत्कथं प्राप्तिः ? इदमेव ज्ञापकं भवत्यत्र प्रकरणे तदन्तविधिरिति । तथाहि प्रधानभूतेन तदन्तविधिः कुम्भकारी देवदत्तकुक्कुटी। यद्येवं पूर्वमेवेदं सूत्रं वक्तव्यम् । इह करणात् पूर्वोक्तविधिर्नीचोऽपि भवतीति ज्ञाप्यते । बहुधीवरी बहुपीवरीति ।
टिड्ढाणठण्ठक्करपः ॥३।१।१८॥ अत इति वर्तते । टित् ढ अण् अञ् टण् ठ करप् इत्येवमन्तेभ्यः स्त्रियां डी भवति । टापोपवादः । “अनीच:" [३।१॥१५] इत्यधिकारात् प्रधानेन तदन्तविधिवक्तः । कुरुचरी । भद्रचरी । "कृद्ग्रहण तिकारकपूर्वस्यापि ग्रहणम्" [परि०] न मन्तव्यम् । इह कृदकृतो. ग्रहणात् । ढ-सौपर्णेयो । वैनतेयी । "शिलाया ढः" [११११५६] इत्यस्य निरनुबन्धकस्य स्त्रियामभिधानं नास्ति । अण्-कुम्भकारी । औपगवी । कथं चुराशीला चौरी । तपःशीला तापसी १ णेऽप्यणकृतं भवतीति वक्ष्यति । अञ्-ौत्सी। वैदी। ठण्-लाक्षिकी। रौचनिकी । ठञ्-पारायणं वर्तयति पारायणिकी । प्राग्वतेष्ठञ् । करप्-इत्वरी। नश्वरी । अनौच इत्येव । बहुकुरुचरा । ख्युट्प्रभृतीनां दूयनुबन्धकत्वेऽपि टित्करणसामर्थ्याद् ग्रहणम् । लकाराणां स्थानिवद्भावाहित्वं ङित्वं च न भवतीत्युक्तम् । पचमाना स्त्री। अचिनवम् । त्यसाहचर्यादागमस्य न ग्रहणम्। लिखिता विद्योति ।
For Private And Personal Use Only