________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
जैनेन्द्र-व्याकरणम्
[१०३ पा.
सू. ३-६
कुमायौं । कुमार्यः। कुमारीम् । कुमायौं । कुमारीः। कुमार्या । कुमारीभ्याम् । कुमारीभिः । कुमा। कुमारीभ्याम् । कुमारीभ्यः । कुमार्याः । कुमारीभ्याम् । कुमारीभ्यः । कुमार्याः । कुमार्योः । कुमारीणाम् । कुमार्याम् । कुमार्योः। कुमारीषु । श्रावन्तात्-माला। माले । मालाः। मालाम् । माले । मालाः । मालया । मालाभ्याम् । मालाभिः । मालायै । मालाभ्याम् । मालाभ्यः । मालायाः। मालाभ्याम् । मालाभ्यः । मालायाः। मालयोः। मालानाम् । मालायाम | मालयोः । मालासु । एवं डाबन्तात् । दामाबहुराजादयो नेयाः । मृदः--दृषद् । दृषदौ । दृषदः । दृपदम् । दृषदौ । दृषदः। दृषदा। दृषम्याम् । दृषद्भिः । दृषदे । दृषद्भ्याम् । दृषद्भ्यः । दृषदः । दृषद्भ्याम् । दृषद्भ्यः । दृषदः । दृषदोः। दृषदाम् । दृषदि । दृषदोः। दृषत्सु ।
स्त्रियाम् ॥३॥१॥३॥ स्त्रियामिति प्रकृतिविशेषणम् । यदित अर्ध्वमनुक्रमिष्यामः स्त्रियां वर्तमानान्मृदः स्वार्थे तद्वेदितव्यम् । यदि स्त्रियामभिधेयायामिति स्यात् द्विबहू न स्याताम् । कुमार्यो कुमार्य इति । एकत्वात् स्त्रीत्वस्य अनेकत्योत्पत्तिश्च न स्यात। कालितरा। भावप्रधानखात स्त्रियामिति निर्देशस्य कमारी देवदत्तेति सामानाधिकरण्यं च न स्यात् । अथापि स्त्रीसमानाधिकरणान्मृद इत्यभ्युपगम्येत एवमपि भूतमियं नारी। कारणमियं कन्या । श्रावपनमियमुष्ट्रिकेति । भूतशब्दादिषु स्त्रीत्याः प्रसज्येरन् । तस्मात् स्त्रियां वर्तमानान् मृद इत्येवाधिकृतम् । वक्ष्यति "मजायतष्टाप"। अजा । देवदत्ता । स्त्रियामिति किम् ? अजो देवदत्तः । शब्दजनितप्रत्ययवर्गाः स्त्रीवादय इहाभिप्रेता न वस्तुवर्गाः । अव्याप्तेः। शब्दो हि श्रोत्रपथं गतो लिङ्गसंख्यावन्तं स्वप्रत्ययं जनयति स प्रत्ययः । खट्वादिषु रसादिषु अभावादिषु च शब्देषु संभवति ।
अजाधतष्टाप् ॥३१॥४॥ अजादिभ्यः अकारान्तेभ्यश्च मृदः स्त्रियां वर्तमानेभ्यष्टाबित्ययं त्यो भवति । पकार: टाडापोः सामान्यग्रहणार्थः । टकारः सामान्यग्रहणाविघातार्थः। अन्यथा एकानुबन्धकग्रह द्वयनुबन्धकस्येति विघातः स्यात् । बाधकबाधनार्थमनकारान्तार्थ चाजादिग्रहणम् । अजा। एडका । अश्वा । चटका । मूषिका । "जातेरयोङ:' 1 इत्यस्यापवादः। बाला। होढा। पाका । वत्सा । मन्दा। विलाता । "वयस्यनन्त्ये' [३।१।२४] इत्यस्य प्राप्तिः । पूर्वापहाणा । अपरापहाणा । टिल्लक्षणस्यापवादः । निपातनाएणखम् । “संभस्त्राजिनशणपिण्डेभ्यः फलाट्टाप" [वा. संफला । भस्त्राफला । अजिनफला। शणफला । पिण्डफला । "सत्याकाण्डप्रान्तशतैकेभ्यः पुष्पाट्टाप्''[वा०] सत्पुष्पा । प्राकपुष्पा । काण्डपुष्पा। प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । “पाककर्णपर्णपुष्कफल मूलवालयोः' [३।११५४] इत्यस्यापवादः । "शूद्राच्चामहत्पूर्वात् जातिश्चेत्" [वा०] शूद्रा नाम जातिः । अमहत्पूर्वादिति किम् ? महाशदी। भाभीरजातिरियम् । अमहत्पूर्वादिति शब्दपरस्य महतः प्रात्वं न भवति । जातिरिति किम् ? शूद्रस्य भार्या शुद्री । पुंयोगादीकारः। त्पूर्वादिति प्रतिषेधवचनं ज्ञापकं भवत्यत्र प्रकरणे तदन्तविधिरिति । तेन महाजा। धीवानमतिक्रान्ता अतिधीवरी। अतिभवती । अतिमहतीति सिद्धम् । क्रुश्चा । उष्णिहा । देवविशा । "हन्लताहाप्चा०] ज्येष्ठा । कनिष्ठा । मध्यमा । पुंयोगलक्षणा प्राप्तिः । कोकिला जातिः । "मूलान्ताच्च टापवा०] अमूला । षकाराद्यजष्टाप । शार्कराच्या । पौतिमाष्या । गौकक्ष्या । अतः खल्वपि खट्वा । देवदत्ता । तपरकरणं किम् चीरपाः स्त्री।
आवट्यात् ॥३।१३।। श्रावस्यशब्दादाप् भवति । अवटस्यापत्यं स्त्री आवट्या । या इति डीविघेरपवादः । पुरस्तादपवादोऽयं फटो न बाधकः । श्रावट्यायनी ।
उगिहन्नान्डो ॥१६॥ उक् इत् यस्य त्यस्य मृदो वर्णस्य वा तदन्तात् अकारान्तेभ्यो नकारान्तेभ्यश्च मृदः स्त्रियां वर्तमानेभ्यो ङीत्यो भवति । डकारो "हल्ङ यापः" [३।२६] इत्यत्र विशेषणार्थः ।
1. अन्ननिधानिकोष्ठिका उष्ट्रिकेत्युच्यते ।
For Private And Personal Use Only