________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म.३ पा० १ ० १-२]
महावृत्तिसहितम्
१४९
लिट २४६॥ एवशब्दोऽनुवर्तते । लिडादेशो मिङ अगसंज्ञ एव भवति । पेचिथ । शेकिथ । "वोपदेश" [५/१।१०८ इत्यादिनेट । "सेटि ११११] इत्येत्वचखे । गसंज्ञासमावेशनिवृत्त्यर्थमेवकारोऽभिसंबध्यते । तेरिम इत्यत्र गसंज्ञायामसत्यां तदाश्रयः शम्न भवति ।
लिडाशिषि ॥२॥४॥६६॥ एवेति वर्तते । श्राशिषि यो लिङ् तदादेशश्चागसंज्ञ एव भवति । भावे-जागरिषीष्ट । कर्मणि-लविषीष्ट । अगसंज्ञायां गाश्रयं “लिङोऽनन्त्यसखम्" [शा१३८ इति सखं न भवति । एवकाराधिकारात् गसंज्ञासमावेशो न भवति । यदि स्याद्यक् प्रसज्येत । आशिषीति किम् ? जागृयात् । जागृयाताम् । जागृयुः।
इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यायस्य चतुर्थः
पादः समाप्तः । समाप्तश्च द्वितीयोऽध्यायः।
यत्किञ्चिद्वाङ्मयं लोके सान्वयं संप्रतीयते । तत् सर्व धातुभिर्व्याप्तं शरीरमिव भातुभिः ।।
तृतीयोऽध्यायः उयान्मृदः ॥३॥११॥ ङी इति स्वरूपग्रहणम् । प्राविति गब्डापोः सामान्येन ग्रहणम् । मृदितिसंज्ञानिर्देशः "अधु मृत्" [14] "कृद्धत्साः" [ ११६] इति । यदित अर्ध्वमनुक्रमिष्यामः श्रा कपो विधानात् ङयन्तादाबन्तान्मृद्र पाच तद्भवतीत्येवं वेदितव्यम् । ननु वक्ष्यमाणास्त्याः “परः" [२।१।२] इति नियमन परे प्रयुज्यन्ते । घोः परत्वञ्च तव्यादिभिराक्रान्तम् । मिङन्तं च क्रियावाचि सुबन्तमपि पदं क्रियासापेनं क्रियात्वभूतमित्यतः पारिशेष्यान्ङयाम्मृद एव भविष्यन्ति । एवं तर्हि वाक्यान्मा भूवन् । वृद्धस्य उपगोरपत्यमिति । गुपदभसंज्ञाश्च प्रयोजनम् । द्वद्वकारद्वयजादिग्रहणानि च ड्याममूदो विशेषणानि न समर्थविभक्यन्तस्येत्यधिकारः क्रियते । दु इति मृद्र पम् । दु-ज्ञानामपत्यमित्यत्र मुद्रूपापेक्षया "वाऽवृद्धाद्दोः" (३२११४४] इति दुलक्षणः फिन न भवति । अदुलक्षण एव "फिरदोः" [३।११४७] इति फिर्भवति । दक्षाणामपत्यमिति मृद्र पापेक्षया अदन्तलक्षणः इञ् भवति । घटेन तरतीत्यत्र मृदपेक्षया “नौद्यचष्ठः" [२३।१३.] इति 'यजलक्षणष्ठः सिद्धः" वाचा तरतीत्यत्र न भवति । मृद्ग्रहणे लिङ्गविशिष्टस्यापि प्रहणमिति सिद्ध ड्याग्रहणं किम् ? कालितरा । मालितरा। एनिका । हरणिका । परमपि हृतं बाधित्वा स्त्रीत्यो यथा स्यात् । अथ "झरूपकल्पचेलअवगोत्रमतहते प्रोऽनेकाच:" [४३।१५५] [करणे] इति प्रादेशवचनसामर्थ्यादेतल्लभ्यते । एवं तर्हि मृद्ग्रहणे लिङ्गविशिष्टस्यापि परिभाषेयमनित्येति ज्ञाप्यते । तेन गोमतीति उगिल्लक्षणो नुम्न भवति । युवतीः पश्येति जिन भवति । सख्यौ । सख्यः । इति च णिन्न भवति । हे भवति भगवति अघवति इत्यत्र "भवद्भगवदघवतो वा रिः काववस्यौः [शा३] इत्येष विधिर्न भवति । इह त्यग्रहणं न कर्तव्यम् । कथं युवतितरा वामोरुतरा ? हृदन्तत्वाधुवतिशब्दस्य मृत्संज्ञा, वामोरु. शब्दस्यापि मृदमृदोरेकादेशो मृद्ग्रहणेन गृह्यते । अजादिषु हलन्ताहापं विधास्यति डापि च टिखेन भवितव्यमिति एकादेशो नास्ति तस्मात् ङ्याप्ग्रहणं कर्तव्यम् ।
. स्वौजसमौट्छष्टाभ्यांभिस्भ्यांभ्यसूङसिभ्यांभ्यस्ङसोसाम्ड्योस्सुप् ॥ ३१॥२॥ ख्या म्मृदः स्वादयो भवन्ति । उकाराद्यनुबन्धनाशः । अनेन विहितानां स्वादीनां "कर्मणीप्" [॥४।२] इत्येवमादिना विभक्तिनियमः "साधने स्वार्थे' [११२१११३] इति वचननियमश्च ज्ञातव्यः । ड्यन्तातु कुमारी ।
For Private And Personal Use Only