________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
१४८
जैनेन्द्र-व्याकरणम् [अ० २ पा० ४ सू० ८५-६४ कुर्याम् । कुर्याव । कुर्याम । कुर्याः । कुर्यातम् । कुर्यात । कुर्यात् । कुर्याताम् । कुर्युः। "जो ये च" [४ ] इति विकरणस्य खम् | "झेजुस्" [२।४।८८] इति जुस् । 'उसि" [३३] इति पररूपम् । स्थानिषद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो डिद्वचनं ज्ञापकं लकाराश्रयमादेशानां ङित्त्वं च न भवति । तैन अचिनवमित्येपू सिद्धः। पचमाना स्त्री। टित इति डोत्यो न भवति ।
किदाशिषि ॥२४॥५॥ आशिषि लिङो यासुट किद्भवति । डित्त्व प्राप्त कित्त्वं विधीयते । ज्यर्थ जागर्तेरेबर्थ च । उह्यासम् | उह्यास्व । उह्यास्म । उह्याः। उह्यास्तम् । उपास्त । उह्यात् । उह्यास्ताम् । उह्यासुः । जागर्यासम् । जागर्यास्व । जागर्यास्स । “जागुरविजिणलङिति" [५१२८२] इत्येप् ।
रनभेटः ॥२॥४।६।। लिङादेशयोर्स इट इत्येतयोर्यथासंख्यं रन् अत् इत्येतावादेशौ भवतः । पचेरन् । पक्षीरन् । "झोऽन्तः" [२३] इत्यस्यापवादोऽयम् । पचेय । पक्षीय । "क्षीयाशी:प्रेषेषु मिडाकासम्" [२३।३०२] इत्येवमादिना प्राप्तस्य पस्य निवृत्यर्थं तपरकरणम् ।
सुट तथोः ॥रा४८७॥ लिङो यो तकारथकारौ तयोः सुडागमो भवति । श्रगविषये लिङ् प्रयोजयति । गे सखेन भवितव्यम् । पक्षीष्ठाः । पक्षीयास्थाम् । पक्षीष्ट । पक्षीयास्ताम् ।
भेर्जुस् ।।४।८८॥ लिङादेशस्य भे सित्ययमादेशो भवति । अन्तादेशापवादः । कुर्युः । क्रियासुः । निर्दिश्यमानस्यादेशो न यासुटः ।
थवित्सेः ॥२।४।८९॥ थसंज्ञक वेत्ति सि इत्येतेभ्यः परस्य भेर्जुसादेशो भवति । डित इति वर्तते । तत्र लिङ आदेश उक्तः । लूः स्येन व्यवधानमस्ति । लुङोऽपि सेरिति भविष्यति । पारिशेष्यात्थविद्ग्रहणं लङर्थम् । अविभः । अजागरुः । "उसि' (जुसि) [५।२।८०] इत्येप। विदेः। अविदुः । अकार्षुः । अहार्षुः।
प्रातः ॥२।४।६०॥ सेरिति वर्तते । प्राकारान्तात्सेः परस्य झर्जुस् भवति । श्रुतिकृतं झेरातः परत्वं सेरुपि कृते त्याश्रयलक्षणेन सेः परत्वम् । अत उभयगतमानन्तर्य झरस्ति । श्रस्थुः। अगुः। अयुः। अदुः। अधुः । त्याश्रयलक्षणेन भेरिति पूर्वेणैव सिद्ध नियमार्थमेतत् । अत एव सेरुपि कृते नान्य स्मात् अभूवन्निति ।
लको वा ॥२९॥ प्रात इति वर्तते । प्राकारान्तात्परस्य लङादेशस्य झर्वा जुस् भवति । श्रयः। अयान् । अधुः। श्रधान् । ननु लङ्ग्रहणमनर्थकम । डित इति वर्तते । पारिशेप्यात लङ एव संप्रत्ययः । नानर्थकम् । इह लडेव यो लङ् तस्य झर्जुस् भवति । अतिदेशे मा भूत् । यान्तु । वान्तु । "धवित्सेः" [२।४।८६] इत्यनेनापि मुख्यस्य लङो ग्रहणादिह न भवति । बिभ्यतु । जाग्रतु । विदन्तु ।
द्विषः॥२४६२॥ लडो वेति वर्तते । द्विषः परस्य लडो झर्वा जुस भवति । अद्विषुः । अद्विषन् । अनिगन्तत्वात् "जुसि" [५/२।८०] इत्येम्न भवति ।
मिशिनः ॥२।४।६३॥ मिङः शितश्च त्या धोर्विहिताः गसंज्ञा भवन्ति । भूयते । नयति । रोदिति । शित् । पचमानः । यजमानः। गसंज्ञाश्रयो विकरण एन्भवति ।
शेषोऽग एव ॥२॥४९॥ मिशिद्भ्यामन्यः शेषः। धोरित्येवं विहितस्त्यः शेषोऽगसंज्ञ एव भवति । लविता । लवितुम् । लवितव्यम् । अगसंज्ञाकार्यमिडागम एप् च । धोरिति विशेषणं किम् ? जुगुप्सते | श्रीकाम्यति । लूभ्याम् । अग्निखम् । एवकार उत्तरार्थः। श्रगप्रदेशाः-"वलाद्यगस्येट" ५।१।८४] "गागयोः" [५८०] इत्येवमादयः ।
For Private And Personal Use Only