________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अं० २ पा० ४ सू०७३-८४ ]
महावृत्तिसहितम्
१४७
[ २|४|११ ] इत्यत्र लङ् ग्रहणस्य प्रयोजनं लङेव यो लङ् तस्य जुस् भवति अतिदेशेन यो लङ् तस्य मा भूत् । लवदिति तांताद्वत् ( श्रभूतताम्वत् ) तैनाडागमो न भवति ।
परुः || २|४|७३ || लोट इति वर्तते मानामिति च । लोटो मानामिकारस्य उकारादेशो भवति । इखस्यापवादः । पचतु । पचन्तु । करोतु । कुर्वन्तु । मिप्सिपोरादेशान्तरमुत्वस्य बाधकं वक्ष्यते ।
सेपिच्च || २|४|७४ || लोट इति वर्तते । सेर्हिरादेशो भवति श्रपिच्च । लुनीहि । पुनीहि । हि । राष्नुहि ।
मेनिः || २|४|७५ ॥ लोटो मेर्निरित्ययमादेशो भवति । पचानि । करवाणि ।
श्रमेतः || २|४|७६ ॥ लोट इति वर्तते । लोडादेशस्य य एकारस्तस्य श्रामित्ययमादेशो भवति । निर्दिश्यमानस्यादेशो भवति । पचेथाम् । पचताम् । पचेताम् । पचन्ताम् ।
स्वो वामौ ||२|४|७७॥ लोट इति वर्तते एव इति च । सकारवकाराभ्यां परस्य एतो व श्रम् इत्येतावादेशौ भवतः । पचस्व । पचध्वम् । वयस्व । वयध्वम् ।
पिच्चास्मदः ||२|४|७८ ॥ लोट इति वर्तते । लोटोऽस्मदः श्राडागमो भवति पिच । करवाणि । करवाव । करवाम | करवै । करवावहै । करवामहै ।
1
एत ऐ ||२|४|७६॥ लोटोऽस्मद इति वर्तते । लोटोऽस्मदः एकारस्यैकारादेशो भवति । निर्दिश्यमानस्यादेशोऽयमामोऽपवादः । करवै । करवावहै । करवाम है । चिनवै । चिनवावहै । चिनवामहै ।
ङितः सखम् ||२|४|८०॥ अस्मद इत्येव । ङितो लकारस्य योऽस्मत्तस्य सखं भवति । लङअपचाव | पचाम | लिङ् - पचेव । लुङ - अपादव । श्रपादम । लुङ - अपक्ष्याव । श्रपयाम |
ए || २|४|८१॥ ङित इति वर्तते । ङिल्लकारसम्बन्धिन इकारस्य खं भवति मविषये । लङ्श्रपचः । श्रपचत् । पचन् । लिङ- पचेरन् । पचेत् । लुङ् श्रपाक्षीः । श्रपाक्षीत् । लुङ् श्रपयः । अपश्यत् । श्रपक्ष्यन् | म इति किम् १ श्रपचावहि । श्रपचामहि ।
मिथस्थत सोऽमृततताम् ||२|४|८२|| ङितां लकाराणां मिप् थस्थ तम् इत्येतेषां यथासंख्यं श्रम् तं तताम् इत्येते देशा भवन्ति । पचम् । श्रपचतम् । श्रपचत । श्रपचताम् । लिङ - पचेयम् । पचेतम् । पचेत । पचेताम् । लुङ- श्रपाक्षम् । श्रपाक्तम् । अपाक्त । श्रपाक्लाम् । "वदब्रज ( ब्रजवद )" [21१1७ ] इत्यादिनैप् । "झलो झलि" [५।३।४४ ] इति सखम् । लुङ- श्रपच्यम् । अपक्ष्यतम् ।
पक्ष्यत । पच्यताम् ।
लिङः सीयुट् ||२४|८३ ॥ लिङादेशानां सीयुडागमो भवति । मे यासुटो विधानाद्दे सीयुड् द्रष्टव्यः । टकार: “टिदादिः” [११५३] इति विशेषणार्थः । उकार उच्चारणार्थः । पचेय । पचेवहि । पचेमहि | पचेथाः । पचेयाथाम् | पचेध्वम् । पचेत । पचेयाताम् । पचेरन् । “रुदादेगें" [५।१।१३५ ] इति वर्तमाने “लिङोऽनभ्यसखम्” [५।१।१३८ ] इति सीयुट्सकारस्य "सुट्तथो: " [ २४८७ ] इति सुट्सकारस्य च खम् । श्राशिषि लिङ्-पक्षीय । पक्षीवहि । पक्षीमहि । पक्षीष्ठाः । पक्षीयास्थाम् । पक्षीध्वम् । पक्षीष्ट । पक्षीयास्ताम् | पक्षी रन् ।
यासुण मो ङित् ||२|४|८४ ॥ लिङ इति वर्तते । लिङो मविषयस्य यासुडागमो भवति ङिच्च । सीयुटो ऽपवादोऽयम् । श्रत्र "किदाशिषि [२/४/६५ ] इति वचनात् विध्यादिलक्षणस्य लिङ इहोदाहरणम् ।
१. वति । अपात्र | अनवान | हिड् । पचेः । पचेत । अ०, ब०, स० ।
For Private And Personal Use Only