________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
जैनेन्द्र-व्याकरणम्
०२ पा० ४ सू० ६५-७२
लङ् । श्रपचे । श्रपचावहि । श्रपचामहि । वक्ष्यते लिङ् । लुङ् । श्रपक्षि | अपवहि । श्रपक्ष्महि । लृङ । पदये । श्रपयावहि । श्रपयामहि ।
टिटेरे ||२|४| ६५ ॥ टितां लकाराणां ये दास्तेषां टेरेत्वं भवति । यत्र एक एवाच् तत्र व्यपदेशिवद्भावाददन्तत्वमुक्तम् | यत्र च तदादिरन्यो नास्ति तत्रापि व्यपदेशिवद्भावात्तदादित्वम् । पचे | पचावहे | पचामहे । “थासः से” [ २।४।६६ ] इति वक्ष्यति । पचसे । पचेथे । पचध्वे । पचते । पचेते । पचन्ते । लिट् । पेचे । पेचिव । पेचिमहे । लुट् । पक्का हे । पक्लास्वहे । पक्लास्महे । लृट् । पक्ष्ये । पक्ष्यावहे । पदयामहे । लोटो वक्ष्यति । प्रकृतानां मिङ दस्य टेरेत्वम् । तेनेह न भवति । पचमान इति ।
1
थासः से ॥२|४|६६॥ टिद्ग्रहणमनुवर्तते । टितो लकारस्य थासः स इत्ययमादेशो भवति । पचसे । पेचिषे । पक्लासे पदयसे ।
"एशिरेसेविधानेषु किं स्यादेत्वे प्रयोजनम् । श्रादेशे तु कृते मा भूत् ज्ञापकं भवितादिषु ।” लिस्तयोरेशिरे || २|४|६७ || लिडादेशयोक्त भ इत्येतयोः एश् इरे इत्येतावादेशौ भवतः । शकारः सर्वादेशार्थः । परस्यादिर्मा भूत् । पेचे । पेचिरे । नेमे । नेमिरे ।
मानां ल्यमथाथुसणलतुसुसः || २|४|६८ ॥ लिट इति वर्तते । लिटो मानां स्थाने यथासंख्यं लादयो नव श्रादेशा भवन्ति । णकारः ऐबर्थः । लकारः सर्वादेशार्थः । न इति द्वयोरकारयोः प्रश्लेषनिर्देशः सर्वा देशार्थः । अन्त्यस्याकारस्याकारवचने प्रयोजनाभावात् सर्वादेश इति चेत् समसंख्यत्वं प्रयोजनं संभाव्येत । श्रथवा धोरिति कानिर्देशात् परस्यादेस्थकारस्याकारः । पपाच । पेचिव । पेचिम । पपक्थ । पेचिथः । पेचथुः । पेच । पपाच । पेचतुः । पेचुः । " बोपदेशे " [ ५/१/१०८ ] इत्यादिना वेट् । [ ४|४|१११ ] इति एत्वं च । वमयोः क्रादिनियमादिट् ।
"सेटि"
विदो लटो वा || २|४|६६ ॥ मानामिति वर्तते । वेत्तेरुत्तरेषां लटो मानां स्थाने वा गलादयो भवन्ति । वेद । विद्व । विद्म । वेत्थ । विदधुः । विद । वेद । विदतुः । विदुः । न च भवन्ति । वेद्मि । विद्वः | विद्मः । वेत्सि । वित्थः । वित्थ । वेत्ति । वित्तः । विदन्ति । विद इति कानिर्देशात् ज्ञानार्थस्य ग्रहणम् । लाभार्थस्य शेन व्यवधानात् ।
I
ब्रुच आहश्च ॥२|४|७० ॥ मानामिति वर्तते । लटो वेति वर्तते । ब्रुव उत्तरस्य लटो मानां वा लादयो भवन्ति । तत्सन्नियोगे ब्रुव श्राहादेशः । प्रकार उच्चारणार्थः । "न धास्मदः " [ २1४/७१ ] इत्युत्तरत्र प्रतिषेधादत्र पञ्चग्रहणम् । श्रात्थ । श्राहथुः । श्राह । श्राहतुः । श्राहुः । सिपस्थे कृतै “आहस्थः " [ ५५२] इति हकारस्य थकारः । " खरि ' [ ५ | ४ | १३० ] इति चर्त्यम् । यद्यत्र स्थानिवद्भावात् "ब्रुव ईट्' १ ] इति ईट् स्यात् झलादिप्रकरणे “श्राहस्थः " [ ५३५२ ] इति वचनमनर्थकं स्यात् । नच भवति । ब्रवीषि । ब्रूथः । ब्रवीति । ब्रूतः । ब्रुवन्ति ।
[
न थास्मदः ||२|४|७९॥ नृञः परस्य थस्यास्मदश्च पूर्वोक्ता आदेशा न भवन्ति । ब्रूथ । ब्रवीमि । ब्र ूवः । ब्र ूमः ।
लोटो लङवत् ||२|४|७२ ॥ लोटो लङ इव कार्यं भवति । लोडादेशानां लङादेशानामिव कार्य - मतिदिश्यते इत्यर्थः । पचाव । पचाम । ङितः सखं सिद्धम् । पचतम् । पचत । पचताम् । “मिप्यस्थतसो - मूतताम् ” [ २४८२ ] इत्येतत् सिद्धम् । एरुः " [ २।४।७१ ] इति उकारः पुरस्तादपवादन्यायेन "ए" [ २४८१ ] इति इखमेव बाधते न जुसादेशम् । एवं च यथा श्रदुः श्रधुरिति भवति तथा यान्तु पान्तु इत्यत्रापि जुसादेशः प्राप्नोति । नैष दोषः । वक्ष्यते "खाव:" [ २|४|१० ] "हहो वा "
For Private And Personal Use Only