________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ० २ पा० ४ सू० ५८-६४] महावृत्तिसहितम् देवदत्तेन । श्रारूढं देवदत्तस्य । अनुजीर्णो वृषी देवदत्तः । अनुजीर्णा वृषली देवदत्तेन । अनुजीर्ण देवदत्तस्य । रुहेरगत्यर्थत्वादन्यदपि गत्यर्थकार्य न भवति । श्रारोहयति वृक्षं देवदत्तेन । कर्मसंज्ञा न भवति ।
धिगत्यर्थाच्च ॥२४॥५८॥ घिसंज्ञेभ्यः गत्यर्थेभ्यश्च धुभ्यः क्लस्त्यः कर्तरि भवति यथाप्राप्तं च । श्रासितो भवान् । श्रासितं भवता । शयितो भवान् । शयितं भवता । गत्यर्थेभ्यः-नातो मवान् ग्रामम् । गतो भवता ग्रामः । गतं भवता । यातो भवान् | यातो भवता ग्रामः। यातं भवता । "कालभावाध्वभिः कर्मभिः सकर्मकवद्भवति" [ वा०] वत्करणात् स्वाश्रयमपि भवति । अतस्त्रैरूप्यम् । सुप्तो भवान् मासम् । सुप्तो भवता मासः । सुप्तं भवता । श्रोदनपाकं सुप्तो भवान् । श्रोदनपाकः सुप्तो भवता । श्रोदनपाकं सुप्तं भवता । कोशं सुप्तो भवान् । कोशः सुप्तो भवता । कोशं सुप्तं भवता ।
अधिकरणे चाद्यर्थाच ॥रा४॥५६॥ त इति वर्तते । अद्यर्था अभ्यवहारार्थाः। अद्यर्थेभ्यो धिगत्यर्थेभ्यश्च क्तोऽधिकरणे भवति कर्तरि भावे कर्मणि च। यथाप्राप्तं कर्तृकर्मभावेषु । अद्यर्थेभ्यः अधिकरणकर्मभावेषु क्तः। अधिकरणे अस्मिन्निमे भुञ्जते स्म इदमेषां भुक्तम् । इदमेषां पीतम् । "कस्याधिकरणे"[ ७] इति कर्तरि ता। कर्मणि-एभिभुक्त अोदनः । एभिः पीतं मधु । भावे-भुक्तमेभिः । पीतमेभिः । धिभ्योऽधिकरणकत भावेषु कः। श्रधिकरणे-इदमेषामासितम् । आसितो भवान् । आसितं भवता । गत्यर्थेभ्यः अधिकरणकर्तृकर्मभावेषु क्तः । अधिकरणे-इदमेषां यातम् । यातो देवदत्तो ग्रामम् । यातो देवदत्तेन ग्रामः। यातं देवदत्तेन । इह विभुक्ताः भ्रातरः पीता गावः इति मत्वर्थीयोऽकारः ।
दासगोनौ संप्रदाने ||२४|६०॥ दास गोन इत्येतौ शब्दौ निपात्येते संप्रदाने कारके । दासतेऽस्मै पचाद्यचि दासः। गां हन्ति अस्मै श्रागताय गोनोऽतिथिः । टगत्र निपात्यः । स्त्रियां गोनी देवदत्ता ।
भीमादयोऽपादाने ॥२४॥६१॥ भीमादयः शब्दा अपादाने कारके ज्ञातव्याः। भीमादयः शब्दा अन्यत्र साधिताः कारकनियमार्थमिह तेषां पाठः। विभत्यस्मादिति भीमः। भीष्मः। भयानकः । चकः । प्रस्कन्दनम । प्रयतनम् । समुद्रवन्त्यस्मात् समुद्रः । स्तु वः । स क । भृष्टिः। रक्षा । संकसन्ति तस्मात् संकसुकः। खलिनः।
उणादयोऽन्यत्राभ्याम् ॥२४.६२॥ उणादयस्त्या आभ्यां संप्रदानापादानाभ्यामन्येषु कारकेषु भवन्ति । करोतीति कारुः । वृश्चति तं वृक्षः। कषितोऽसौ कषिः । ततोऽसौ तन्तुः। वृत्तं तत्र वर्म । चरितं तत्रेति चर्म । भसितं तत्रेति भस्म । ऋचन्ति तया ऋक् ।
लस्य ॥२॥४.६३॥ अकार उच्चारणार्थः । लस्येत्ययमधिकारः । यदित अर्ध्वमनुक्रमिष्यामो लस्य स्थाने तद्वेदितव्यम् । नव लकाराः पञ्च टितश्चखारो ङितः-लट लिट् लुट लुट लोट् लङ् लिङ् लुङ् लुङ् । एषामनुबन्धापायेन लकारमात्र स्थानित्वेनाधिक्रियते । त्य इति वर्तते धोरिति च । धोविहितस्य त्यस्य लकारस्य ग्रहणात् लभते चूडाल इत्येवमादि परिहृतम् ।
मिध्वस्मस्सिप्थस्थतिप्तस्मोड्वहिमहिथासाथांध्वंतातांझङ, ॥२।४।६४॥ लस्य स्थाने मिबादयः अादेशा भवन्ति । पकारः "गोऽपित्' [ १७८ ] इति विशेषणार्थः। इटष्टकारो "रममेटः" [२४८६] इति विशेषणार्थः । झडो उकारः प्रत्याहारार्थः । पचामि । पचावः । पचामः। पचसि । पचथः । पचथ । पचति । पचतः । पचन्ति । टितां दविषये आदेशान्तराणि वक्ष्यन्ते । लिटो मानां णलादयः श्रादेशाः वक्ष्यन्ते । लुट । पक्कासि । पक्तास्वः। पलामः। इत्येवमादि शेयम् । लुट । पक्ष्यामि । पक्ष्यावः । पक्ष्यामः । लोट आदेशाः वक्ष्यन्ते । डितां लकाराणां मविषये च इह तानुदाहरिष्यामः ।
१.कः कर्त-अ०।
For Private And Personal Use Only