________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४
जैनेन्द्र-व्याकरणम्
[ म० २ पा० ४ सू० ५२-५७
कर्तरि कृत् || २|४|५२ ॥ कर्तरि कारके कृत्संज्ञास्त्या भवन्ति । श्रनिर्दिष्टार्थास्त्याः स्वार्थे भावे प्राताः । कारकः । कर्ता । ये कृतः कर्तरि नेष्टाः तेषां करणाधिकरणयोर्युडित्येवमादिरपवाद उक्तः ।
Acharya Shri Kailassagarsuri Gyanmandir
भव्यगेयप्रवचनीयोपस्थानोयजन्याप्लाव्यापात्या वा || २|४|५३ || भव्य इत्येवमादयः शब्दाः कर्तरि वा निपात्यन्ते । " तयोर्व्यतखार्थः " [२|४|५५ ] इत्यस्मिन् प्राप्ते पक्षे कर्तरि विधानम् । भवत्यस भव्यः । भव्यमनेनेति वा । गेयो माणवकः षडङ्गस्य । गेयो माणवकेन षङ्गः । प्रवचनीयो गुरुः शास्त्रस्य । प्रवचनीयं शास्त्रं गुरुणा । उपस्थानीयः शिष्यो गुरोः । उपस्थानीयो गुरुः शिष्येण । जायते सौ जन्यः । जन्यमनेन । “जनिवध्योः” [ १ २ ४० ] इत्यैप्प्रतिषेधः । श्रथवा “शकिसहश्च" [२११८६] इति चकारेण जनेयः । श्राप्लवतेऽसौ श्राप्लाव्यः । श्रालाव्यमनेन । श्रापततीत्यापात्यः । श्रापात्यमनेन ।
1
लः कर्मणि च भावे च धेः || २|४|५४ || ल इति लडादीनां नवानामुत्सृष्टानुबन्धानां सामान्येन ग्रहणं जसा च निर्देशः । लकाराः सकर्मकेभ्यो धुन्यः कर्मणि कर्तरि च कारके भवन्ति, भावे कर्तरि च धिसंज्ञेभ्यः । कर्मणि क्रियते कटः । गम्यते ग्रामः । कर्तरि - करोति कटम् । गच्छति ग्रामम् । घेर्भावे - श्रस्यते भवता । सुप्यते । कर्तरि - श्रास्ते भवान् । स्वपिति भवान् । लो ङौ चेति वक्तव्ये प्रपञ्चेन निर्देशः किमर्थः १ सकर्मकेभ्यो लो भावे मा भूवन् ।
तयोर्व्यक्कखार्थः ॥ २/४/५५ ॥ तयोर्भावकर्मणोः व्यसंज्ञाश्च क्तश्च खार्थाश्व भवन्ति । “कर्तरि कृत्' [ २।४|५२] इत्यस्यायमपवादः । कर्मणि -- कर्तव्यः कटो भवता । भोक्तव्य श्रोदनो भवता । भावे - सितव्यं भवता । शयितव्यं भवता । क्तः कर्मणि । कृतः कटो भवता । भुक्त श्रोदनो भवता । भावे — श्रासितं भवता । शयितं भवता । खार्थाः कर्मणि -- ईषत्करः कटो भवता । सुकरः कटो भवता । सुपानं पयो भवता | दुष्पानं पयो भवता । भावे - स्वासं भवता । दुरासं भवता । सुग्लानं भवता । दुग् भवता । श्रात्मकर्मविवक्षायां व्यक्तखार्थप्रयोगविषये सकर्मका अप्यविवचितकर्मकत्वेनाकर्मकाः । तेन भावे व्यादयः । भेत्तव्यं कुशूलेन स्वयमेव । भावकर्मग्रहणे तु वर्तमाने तयोरिति ग्रहणं यथाविधिप्रतिपादनार्थं सकर्मकेभ्यः कर्मण्यकर्मकेम्यो भाव इति ।
कतैरि चारम्भे क्लः || २|४|५६ || आरम्भः श्रायः क्रियाक्षणः । श्रारम्भे यो धुर्वर्तते तस्माद्यः कः स कर्तरि भवति यथाप्राप्तं च भावकर्मणोः । प्रकृतो भवान् कटम् । प्रकृतः कटो भवता । प्रकृतं भवता । प्रभुक्तो भवानोदनम् । प्रभुक्तः श्रोदनो भवता । प्रभुक्त ं भवता । धिभ्यस्तु "धिगत्यर्थाच्च ” [२|४|१८ ] इति वक्ष्यति । श्राद्य क्रियाक्षणकाले । कटो नाभिनिर्वृतः तस्योपचारात् भूतकालेन प्रकृतशब्देन सामानाधिकरण्यम् ।
श्लिषशीङ स्था सवसजन रुहनृषश्च || २|४|५७॥ श्लिषादिभ्यः कर्तरि क्तो भवति यथाप्राप्तं च भावकर्मणोः । “धिगत्यर्थाच्च" [२|४|१८ ] इति सिद्धे इह सकर्मकार्थमुपादानम् । इदमेव ज्ञापकम् । अकर्मका (सकर्मका) अपि भवन्ति । आश्लिष्टः कन्यां देवदत्तः । श्राश्लिष्टा कन्या देवदत्तेन । आश्लिष्टं देवदत्तस्य । श्रतिशयितो गुरुं भवान् । श्रतिशयितो भवता गुरुः । श्रतिशयितं भवतः । उपस्थितो गुरुं भवान् । उपस्थितो भवता गुरुः । उपस्थित भवतः । उपासितो गुरुं भवान् । उपासितो भवता गुरुः । उपासितं भवतः । श्रनूषितो गुरुं भवान् । अनूषितो भवता गुरुः । अनूषितं भवतः । अनुजातो माणवको माग - विकाम् | अनुजाता माविका माणवकेण । अनुजातं माणवकस्य । श्रारूढो वृक्ष देवदत्तः । श्रारूढ वृक्षो
१. षड्जस्य ब०, स० । २ षड्जः ब०, स० । ३, चाधेः मु० । ४. खार्थेौ च श्र०, ब०, स० । खार्थी [अ०, ब०, स० ।
५.
For Private And Personal Use Only