________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० १ पा० १ सू० ४६-२१] महावृत्तिसहितम् भवतः । तिर्यक्कृत्य गतः । तिर्यकृत्वा । तिर्यकारम् । समाप्य गत इत्यर्थः । अपवर्ग इति किम् ? तिर्यक कृत्वा काष्ठं गतः। तिरश्चीति तिर्यक्छब्दानुकरणनिर्देशः । “प्रकृतिवदनुकरणं भवति" [ परि०] इति रूपसिद्धिः।
स्वाङ्गे तस्त्ये कृभुवः ॥२॥४॥४६॥ तस्त्यो यस्मात्तत्तथोक्तम् । तस्त्ये स्वाङ्गे वाचि कृ भू इत्येताभ्यां क्वाणमो भवतः । मिन्नयोगनिर्दिष्टखाद्यथासंख्यमत्र न भवति । मुखतःकृत्य गतः। मुखतः कृखा। मुखत:कारम् । पृष्ठतःकृत्य । पृष्ठतः कृत्वा । पृष्ठतःकारम् । मुखतोभय । मुखतोभूत्वा । मुखतोभावम् । प्रष्ठतोभूय । पृष्ठतोभूला। पृष्ठतोभावम् । "अपादानेऽहीयरहोः" [२।१०] इति "आदिभ्य उपसंख्यानम्" वा०] इति वा तसिः । स्वाङ्ग इति किम् ? सर्वतःकृत्वा । तत्यग्रहणं किम् ? मुखीकृत्य गतः। त्यग्रहणं किम् १ मुखे तस्यति मुखतः। श्रमुखतसं मुखतसं कृत्वा मुखतःकृत्य ।
नाघार्थत्ये व्यर्थे ॥२४॥४७॥ नार्थो धार्थश्च त्यो यमात्स तथोक्तः । नार्थत्ये धार्थत्ये च शब्दे व्यर्थे वाचि कृ भू इत्येताभ्यां क्त्वाणमौ भवतः । नार्थत्ये-विनाकृत्य गतः । विनाकृत्वा । विनाकारम् । विनाभूय । विना भूत्वा । विनाभावम् । अनाना नाना कृत्य गतः। नानाकृला । नानाकारम् । नानाभय । नानाभवा । नानाभावम् । “विनभ्या नानाजी न सह" [ १४७] इति नानाजो भवतः । धार्थे त्ये-अद्विधा द्विधा कृत्य गतः । द्विधाकृत्वा । द्विधाकारम् | द्विधाभूय । द्विधाभूत्वा । द्विधाभावम् । अवैधं द्वैधं कृत्य गतः। द्वैधं कृत्वा । द्वैधंकारम् । द्वधं भूय । द्वैधं भृत्वा । द्वैधं भावम् । अवघा द्वधा कृत्य गतः । द्वधाकृत्वा । द्वेधाकारम् । द्वेषाभूय । द्वेधाभूत्वा । द्वधाभावम् । "संख्याया विधार्थे धा" [१1१०६] "द्विवेधंमुज" [ ८] एकधा । ऐकथ्यम् । "वैकादयमु" [130१0७] । अर्थग्रहणं स्वरूपमात्रनिरासार्थम् । त्यग्रहणं किम् ! नाधाय वाचीत्युच्यमाने इहापि स्यात् । अहिरुक् हिरुक्कृला पृथक्कृत्वा चिर्विकल्पेन विधास्यते । व्यर्थमात्रमत्र विवक्षितं न च्विः । अर्थ इति किम् ? नाना कृत्वा काष्ठानि गतः ।
तूष्णीमि भुवः ॥४॥४८॥ तूष्णीमशब्दे वाचि भू इत्येतस्मात् क्त्वाणमौ भवतः । तूष्णीभूयास्ते । तूष्णी भूत्वा । तूष्णीभावम् । . अन्वच्यानुलोम्ये ॥२४४९॥ श्रानुलोम्यमनुकूलता । अन्वक्छब्दे वाचि आनुलोम्ये गम्यमाने भुवः क्त्वाणमौ भवतः । अन्वग्भूत्वा । अन्वग्भावम् । आनुलोम्य इति किम् ? अन्वरभूत्वा प्रास्ते । पश्चाद् त्वेत्यर्थः । अन्वचीति निर्देशः प्रकृतिवदनुकरणमिति न्यायात् ।
शकधृषशाग्लाघटरभलभक्रमसहाहस्त्यिर्थे तुम् ॥२।४।५०॥ शकादिषु अस्त्यर्थेषु च धुषु वातु धोस्तुम् भवति । शक्नोति भोक्नुम् । धृष्णोति भोक्तुम् । जानाति भोक्तुम् । ग्लायति भोक्नुम् । घटते भोक्तुम् । श्रारभते भोक्तुम् । लभते भोक्तुम् । प्रक्रमते भोक्तुम् । सहते भोक्तुम् । अर्हति भोक्तुम् । अत्यर्थेषु-अस्ति भोक्तुम् । भवति भोक्तुम् । विद्यते भोक्तुम् । क्रियायां तदर्थायां वाचि तुम् विहितः । अतदर्थायामपि यथा स्यादित्यारम्भः ।
पर्याप्तिवचनेऽलमर्थे ॥२४॥५१॥ पर्याप्तिः प्रभूतत्वं सामर्थ्यं च अलमर्थेन विशेष्यमाणत्वात्सामर्थ्यमेवावतिष्ठते । पर्याप्तिवचनेष्वलमर्थविशिष्टेषु वाच धोस्तुम् भवति । पर्याप्तो भोक्तुम् । समर्थो भोक्तुम् । प्रभुभोक्तुम् । अलं भोक्तुम् । पारयति भोक्तुम् । इदमप्यस्योदाहरणम् । युक्तं पुनरिदं विचारयितुम् । "वा भादिर' [१३।४] इति षसो न भवति । अमैवेति तत्र वर्तते । पर्याप्तिवचन इति किम् १ अलकुरुते कन्याम् । अलं रुदित्वा । समष्विति वक्तव्ये गुरुकरणं किम् ? सामर्थ्यमात्रे मा भूत् । शक्त्या भुते । बल्लेन भुक्के । अलमर्थे इति किम् ? पर्यासं भुते । प्रभूतं भुङ्क्ते । अन्यूनं भुङ्क्ते । पूर्वसूत्रे शकिः सौकर्ये वर्तते नासमर्थे ।
For Private And Personal Use Only