________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
जैनेन्द्र-व्याकरणम् [म. २ पा० ४ सू० ३४-१५ स्वाङ्गेऽध्रुवे ॥२४॥३९॥ इपीति वर्तते । यस्मिन्विनष्टेऽपि प्राणिनां मरणं न भवति तदध्रुवं स्वाङ्गम् । तस्मिन्निबन्ते वाचि धोर्णम् भवति । अक्षिनिकोचं जल्पति । अक्षणी निकोचम् । भूक्षेप जल्पति । भ्रुवं क्षेपम् । अंगलिनिकोटं जल्पति । अंगुलिं निकोटं जल्पति । अध्रुव इति किम् ? शिर उत्क्षिप्य जल्पति । (अद्रवं मूर्तिमत्स्वांगं प्राणिस्थमविकारकम् । अतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथायुतम् । )
श्राद्यैश्चतुभिर्विशेषणैालाबुद्धिफलशोफादिरहितप्राणिस्थं वस्तु स्वाङ्गमुक्तम् । अतत्स्थं तत्रष्ट चेत्यनेन भूमिपतितकेशादिपरिग्रहः । तेन चेत्तत्तथायुतमित्यनेन काष्ठादिप्रतिमायां स्थितं पाण्यादि संगृहीतम् ।
सक्लेशे ।।२।४॥४०॥ इपीति वर्तते स्वाङ्ग इति वा । सह क्लेशेन दुःखेन वर्तते इति सलं शं विश्यमानमित्यर्थः । इबन्ते सक्लेशे स्वाने वाचि धोर्णम् भवति । ध्रुवार्थोऽयमारम्भः । उरःप्रतिपेषं युध्यन्ते । उरांसि प्रतिपेषम् । उरांसि पीडयन्तो युध्यन्ते इत्यर्थः । एवं शिरःप्रतिपेषम् । शिरांसि प्रतिपेषम् ।
विशिपतिपदिस्कन्दो व्याप्यासेव्ययोः ॥४॥४१॥ इपीति वर्तते । विश्यादिभिः कास्येन ध्यापनीयद्रव्यं व्याप्यम् । क्रियारूपं तात्पर्येण आसेवनीयमासेव्यम् । क्रियाधारभूतमुपचाराद्रव्यमप्यासेव्यम् । विशि पति पदि स्कन्द इत्येतेभ्यो धुभ्यः व्याप्य आसेव्ये च वाचि णम् भवति । गेहानुप्रवेशमास्ते । वृत्या व्यापनस्यासेवनस्य चोक्लत्वात् द्वित्वं न भवति । वाक्यपक्षे व्याप्यमानस्य द्रव्यस्य द्वित्वम् । श्रासेव्यविवदायां तु मुख्यस्यासेव्यस्य क्रियारूपस्य द्वित्वम् । गेहंगेहमनुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशमास्ते । गेहानुप्रपातमास्ते । गेहंगेहमनुप्रपातम् । गेहमनुप्रपातमनुप्रपातमास्ते । गेहमनुप्रपादमास्ते । गेहंगेहमनुप्रपादम् । गेहमनुप्रपादमनुप्रपादम् । गेहावस्कन्दमास्ते । गेहं गेहमवस्कन्दम् । गेहमवस्कन्दमवस्कन्दम् । वेत्यधिकारात् गेहं गेहमनुप्रविश्य गेहमनुप्रविश्यानुप्रविश्यास्ते । वीप्सायामाभीक्ष्ण्ये च द्वित्वम् । व्याप्यासेव्ययोरिति किम् । गेहमनुप्रविश्य भुङ्क्ते । “णम् चाभीक्ष्ण्ये'' [२४] इति यद्यप्यासेव्ये यम् सिद्धः, तथापि वाक्सक्किल्पार्थमिदम् ।
तृष्यस्वोः क्रियान्तरे काले ॥४॥४२॥ इपीति वर्तते । इबन्ते कालवाचिनि वाचि तृषि असु इत्येताभ्यां णम् भवति क्रियान्तरार्थे यद्यनुप्रयुज्यमानक्रियापेक्षया क्रियान्तरे वृत्तिरित्यर्थः । यहापतर्षे गाः पाययति । द्वथहमपतर्षम् । व्यहापतर्षम् । व्यहमपतम् । दुधहात्यासं गाः पाययति । द्वयहमत्यासम् । यहात्यासम् । व्यहमत्यासम् । कालाध्वन्यविच्छेद इतीप । तृ यस्वोरिति किम् ? यहमुपोष्य भुङ्क्त । क्रियान्तर इति किम् ? अहरत्यस्य गतः। अत्रास्यतिर्न क्रियान्तरे वर्तते किन्तु गताय । काल इति किम् ? पञ्च पूलान् त्यस्य तिलान् भक्ष्यति ।
नाम्न्यादिशिग्रहः ॥२४॥४३॥ इपीति वर्तते । इबन्ते नामशब्दे वाचि श्रादिशिग्राहभ्यां णम् भवति । नामादेशमाचष्टे । नामान्यादेशम् । नामग्राहमाकारयति । नामानि ग्राहम् ।
भावनिष्टोक्ती कृतः क्त्वाणमौ ॥२४॥४४॥ झिसंज्ञके वाचि अनिष्टोक्तो गम्यमानायां कृषः क्वाणमौ भवतः । वेत्यधिकारात् क्त्वात्ये सिद्धे पुनः क्त्वाग्रहणं क्त्वा इत्यनेन वृत्तिविकल्पार्थम् । मादीति तत्र वर्तते तेनोत्सर्गे क्त्वात्ये सविकल्यो न स्यात् । ब्राह्मण पुत्रस्ते जातः किं तर्हि वृषल नीचैःकृत्याचष्टे । नीचैः कृत्वा । नीचैःकारम् । उच्च र्नाम प्रयमाख्येयम् । नीचैराख्यायमानमनिष्टं भवति । ब्राह्मण कन्या ते गर्भिणी । तर्हि वृषल उच्च कृत्याऽचष्टे । उच्च कृत्वा । उच्चैः कारम् । कन्यागर्भः उच्चैराख्यायमानोऽनिष्ठः । अनिष्टोक्ताविति किम् ? उच्चैःकृत्याचष्टे पुत्रस्ते जातः ।
तिरश्च्यपवर्गे ॥२॥४॥४५॥ अपवर्गः समाप्तिः । तिर्यक्छन्दे वाचि अपवर्गे गम्यमाने कृषः क्त्वाणमौ ..-दिक्रियाभिः-प्र०, ब०, स० ।
For Private And Personal Use Only