________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. २ पा० ४ सू० ३१-३८] महावृत्तिसहितम्
१४१ वहिभ्यां णम् भवति । जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो भूत्वा वहतीत्यथः। कोरिति किम् १ जीवेन नष्टः । पुरुष' वहन्ति । अत्र करणं कर्म च वाक् ।
ऊर्ध्वं शुषिपुरोः ॥२४॥३१॥ कोरिति वर्तते । ऊर्ध्वशब्दे कर्तृवाचिनि वाचि शुषि पूरि हत्येताभ्यां एम् भवति । अवशोषं शुष्कः । ऊर्ध्वः इत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वः पूर्यत इत्यर्थः ।
कर्मणि चेवे ।।४।३२॥ शब्दे कार्यस्यासम्भवादिवार्थ उपमानं गृह्यते । इवशब्दार्थे वर्तमाने कर्मणि कर्तरि भूवादिधोर्णम् भवति कर्मणि । घृतनिधायं निहितः। घृतमिव निहित इत्यर्थः। एवं जीवितरक्षं रक्षितः । कर्तरि-अकरनाशं नष्टः । अक्रूर इव नष्ट इत्यर्थः । एवमजकनाशं नष्टः। चूडकनाशं नष्टः । पिषादिषु यथाविध्यनुप्रयोगो न वक्तव्यः। धुयोग इति वर्तते तत्र प्रत्यासत्तेरभिधानवशाद्वा यत एव धोर्णम् तस्यैवानुप्रयोगः।
उपदंशोभायाम् ॥२॥४॥३३॥ उपपूर्वाशेर्भान्ते वाचि णम् भवति । धुयोग इति च वर्तते । एककर्तृ कादिति च पूर्वकालत्वं संभवतः संबन्धनीयम् । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशं भुङ्क्ते । “वा भादि" [॥३॥८४] इति विभाषया वाक्सः । इत ऊर्ध्व यानि वाक्संज्ञकानि वक्ष्यन्ते तानि भादिग्रहणेन गृह्यन्ते । सर्वत्रास्मिन् प्रकरणे वेत्यनुवर्तते । तेन त्वाऽपि भवति । मूलकेनोपदंश्य भुङ्क्त । कर्मणः साधकतमत्वविवक्षायां भा भवति । अथवा उपदंशिगुणस्य भुजेरेतत्करणम् ।
हिंसाविककर्मकात् ॥२४॥३४॥ भायामिति वर्तते । हिंसार्थेभ्यो धुभ्योऽनुप्रयोगेणैककर्मकेभ्यो भान्ते वाचि णम् भवति । दण्डाघातं गाः सादयति । दण्डेनाघातम् । "करणे" [२।४।२५] इत्यनेन हन्तेयः पूर्वनिर्णयेन णम् विहितस्तस्यैवानुप्रयोगो द्रष्टव्यः। हन्तेरन्यदपीहोदाहरणम् । दण्डाताडं गाः कालयति । दण्डेनाताडम् । खड्गप्रहारं शत्रून् विजयते । खङ्गेन प्रहारम् । एककर्मकादिति किम् ? दण्डेनाहत्य भूमि गोपालको गाः सादयति।
ईपि चोपपोडरुधकर्षः ॥२४॥३५॥ उपपूर्वेभ्यः पीडरुधकर्षेभ्य ईपि वाचि चकाराभान्ते वाचियम् भवति । उपशब्दः प्रत्येकमभिसम्बध्यते । व्रजोपरोधम् । व्रजे उपरोधम् । ब्रजेनोपरोषम् । पाश्वोंपपीडं शेते । पार्वाभ्यामुपपीडम् । पार्श्वयोरुपपीडम् । पाण्युपकर्षे धानाः पिनष्टि । पाणावुपकर्षम् । पाणिनोपकर्षम् ।
प्रमाणासत्त्योः ॥२४॥३६॥ ईपि भायां चेति वर्तते । प्रमाणमायाममानम् । श्रासत्तिः सन्त्रिकर्षः । ईबन्ते मान्त वाचि धोर्णम् भवति प्रमाणासत्त्योर्गम्यमानयोः । द्वयङ्गुलोत्कर्ष गं एडकाश्छिनत्ति । व्यङ्गलोस्कर्षम् । व्यङ्गुलेनोत्कर्षम् । व्यङ्गुले उत्कर्षम् । आसत्तौ । केशग्राहं युध्यन्ते । केशेषु ग्राहं केशैाहम् । सन्निकृष्टं युध्यन्ते इत्यर्थः। एवमस्यपनोदं युध्यन्ते । असिष्वपनोदम् । असिभिरपनोदम् । हस्तग्राहम् । हस्तेषु ग्राहम् । हस्तैहिम् ।
त्वयंपादाने ॥२४॥३७॥ त्वरणं त्वरा त्वरीति सौत्रमात्खम् । त्वरायां गम्यमानायामपादाने वाचि घोर्णम् भवति । शय्योत्थायं धावति । शय्याया उत्थाय । मुखप्रक्षालनाद्यवश्यकार्यमकृत्वा त्वरत इत्यर्थः। एवं स्तनरन्ध्रापकर्ष पयः पिबति । स्तनरन्ध्रादपकर्षम् | भ्राष्टापकर्षमपूपान् भक्षयति । भ्राष्टादपकर्षम् । वेत्यनुवर्तनात् शय्याया उत्थाय धावति । त्वरीति किम् ? श्रासनादुत्थाय गच्छति ।
इपि ॥२४॥३८॥ त्वरीति वर्तते । इबन्ते वाचि त्वरायां गम्यमानायां धोर्णम् भवति। यष्टिग्राहं युध्यन्ते। यष्टिं ग्राहम् । त्वरया युद्धप्रहरणमनपेक्ष्य यष्टिमादाय युध्यते इत्यर्थः । एवं पटापकर्ष धावन्ति पटमपकर्षम् । त्वरीत्येव । खड्गे गृहीत्वा युध्यन्ते ।
For Private And Personal Use Only