________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
जैनेन्द्र-व्याकरणम् [भ० २ पा० पू० : ०-१० शुष्कचूर्णभक्षेषु पिषः ॥२।४।२०॥ कर्मणीति वर्तते । शुष्क चूर्ण भद इत्येतेषु कर्मसु वाच पिषोणंम् भवति । शुष्कपेषं पिनष्टि तगरम् । शुष्क पिनष्टीत्यर्थः। एवं चूण पेषं पिनष्टि । भक्षपेषं पिनष्टि । घनि सति क्रियाविशेषणे शुरुकस्य पेषं पिनष्टि इत्येवमादयः प्रयोगाः साधवः । इतः प्रभृति "उपदंशो भायाम्" [२।४।३३] इत्यतः प्राक् यत एव धोर्णम् भवति तस्यैवानुप्रयोगोऽपि भवत्यभिधानवशात् ।
__ जीवाकृते ग्रहिवः ॥२॥४॥२१॥ कर्मणीति वर्तते । जीव अकृत इत्येतयोः कर्मवाचिनोचिोर्यथासंख्यं ग्रहि कृञ् इत्येताभ्यां णम् भवति । जीवग्राहं गृहीतः । अकृतकारं करोति ।
निमूले कषः ॥२।४।२२॥ कर्मणीति वर्तते । निमूले कर्मणि वाचि कषेर्णम् भवति । निमूलका कति । घजि सति क्रियाविशेषणे निमूलस्य काषं कषति इत्यपि भवति ।
समूले हनश्च ॥१४२३॥ कर्मणीति वर्तते । समूले कर्मणि वाचि हन्तेः कषेश्च णम् भवति । समूलघातं हन्ति । समूलकाषं कषति ।
करणे ॥२॥४॥२४॥ हन इति वर्तते । करणे वाचि हन्तेर्णम् भवति । पाणिघातं कुडय हन्ति । पाणिना हन्तीत्यर्थः । पादघातं शिलां हन्ति । यदा हिंसार्थो 'हन्तेर्विवक्षितः तदा "हिंसार्थादेककर्मकात्" [२१३०] इतीममपि विधि पूर्वविप्रतिषेधेन बाधित्वाऽयमेव णम् । असिघातं हन्ति चौरान् । कोऽत्र विशेषः १ अनेन नित्यः सविधिः तस्यैव धोरनुप्रयोगश्च भवति ।
हस्ते वर्तिग्रहः ॥राठा२५॥ करण इति वर्तते । हस्त हति अर्थनिर्देशः। हस्तवाचिनि करणे वाचि वर्तयतिगृह्णातिभ्यां णम् भवति । हस्तवर्त वर्तयति । हस्तेन वर्तयतीत्यर्थः । एवं पाणिवर्तम् । करवर्तम् । हस्तग्राहं गृह्णाति । हस्तेन गृह्णातीत्यर्थः । एवं पाणिग्राहं करग्राहम् ।
स्वेषु पुषः ॥२४॥२६॥ करण इति वर्तते । स्व इति स्वरूपस्य तद्विशेषाणां च ग्रहणम् । बहुत्वनिर्देशात् । स्ववाचिकरणवाचिनि पुषेोणंम् भवति । अात्मात्मीयज्ञातिधनानि स्वशब्देनेष्यन्ते । स्वपोषं पष्टः । विद्यापीपं गोपोषं मातपोषं पितृपोषं रैपोषं पुष्णाति। सर्वत्र घान्तेन णमन्तस्यार्थकथनं द्रष्टव्यम। स्वेन पोषं पुष्ट इति स एव पुषिः कालसावनभेदादन्यत्वं गतः पुषिणा युज्यते । यथा एषितमिच्छति एषिषिषति । इपिरिषिणा युज्यते ।
स्नेहने पिषः ॥२४॥२७॥ करण इति वर्तते । स्निह्यतेऽनेनेति स्नेहनम् । स्नेहनवाचिनि करणे वाचि पिषे?णंम् भवति । घृतपेष पिनष्टि । घृतेन पिनष्टीत्यर्थः । एवं तैलपेषम् । उदपेषम् । “पेषमि'' [।३।१६६] इत्युदकस्योदादेशः।
बन्धोऽधिकरणे ॥२॥४॥२८॥ अधिकरणे वाचि बनातेर्णम् भवति । चक्रबन्धं बद्धः। चक्रे बद्ध इत्यर्थः। एवं चारकबन्धम् । दृष्टिबन्धम् । गुप्तिबन्धम् । बध्यमानाधारे वाचि एम् भवति न बन्धाधारे । हस्ते वनातीति वेत्यधिकाराद्वा न भवति ।
खौ ॥२४॥२६॥ खुविषये च बनातेर्णम् भवति । चण्डालिकाबन्धं बद्धः। अट्टालिकाबन्धं बद्धः। महिषिकाबन्धं मयूरिकाबन्धं क्रौञ्चबन्धं बद्धाः। णमन्ताः बन्धविशेषाणां संज्ञा एताः। अर्थप्रदर्शनं तु यथाकथंवित्करणेन वाचा अन्यथा वा दर्शनीयम् । अन्ये तु व्याचदते खुभूतो यो बन्धः तस्मिन् करणवाचिनि वाचि बन्नातर्णम् भवति ।
कॉर्जावपुरुषयोर्नशिवहोः ॥२॥४॥३०॥ जीव पुरुष इत्येतयोः कर्तृवाचिनोर्वाचोर्यथाक्रम नशि३. हन्तिवि-अ०, ब०, स० । २. कूटबन्धम् अ० ।
For Private And Personal Use Only