________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ २ पा० ४ सू० १३-११ ]
महावृत्तिसहितम्
१३६
मकारान्तता निपात्यते । खमुनि प्रकृतै । "खित्य केः " [४।३।१७६ ] “भुमच: " [४।३।१७७ ] इति मुमा सिद्धमिति चेत् व्यन्तविवक्षायां श्ररिति प्रतिषेधः प्रसज्येत । खमुञ्येव मान्तनिपातनं कर्तव्यमिति चेन्न च्व्यन्तार्थमेव तत्संभाव्येत । यमि पुनर्निपातनं ङीनिवृत्त्यर्थं "चौ" [ ५/२/१३५] दीत्वनिवृत्त्यर्थं च । स्वाद्वकृत्वा यवागू भुङ्क्ते | स्वादुङ्कारं भुङ्क्ते । च्विविवक्षायामस्वादुं स्वादुं कृत्वा भुङ्क्ते स्वादुंकारं भुङ्क्ते । "व" [२१२१३५] इति दीत्वं प्रसज्येत । उत्तरार्थं च दह रामग्रहणम् । विभाषाधिकारात् क्त्वापि भवति । क्त्वादयश्रातुमो विधीयमाना भावे भवन्ति । ननु स्वादुंकारं भुङ्क्ते देवदत्त इति णमा कर्तुरनुक्तत्वात् कर्तरि ता प्राप्ता "न ति" [१।४।७२] इत्यादिना ता कर्तरि न भवति ।
श्रन्यथैवं कथमित्थं स्वनर्थात् || २|४|१३|| अन्यथा एवं कथमित्थमित्येतेषु वाच्क्षु धुभ्यो णम् भवति श्रनर्थात् । येन विनापि यदर्थः प्रतीयते स तत्रानर्थस्तस्मिन्प्रयुज्यमाने त्यो भवति । तथाहि यावानेवार्थीऽन्यथा भुङ्क्त इति तावानेव कृञ्प्रयोगेऽपि अन्यथाकारं भुङ्क्ते । एवंकारं भुङ्क्ते । कथंकारं भुङ्क्ते । इत्यङ्कार भुङ्क्ते । श्रनर्थादिति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ।
यथातथयोरसूयाप्रत्युक्तौ || २|४|१४|| कृञो ऽनर्थादिति वर्तते । यथा तथा इत्येतयोर्वाचोः कृञोऽनर्थात् राम् भवति श्रसूयाकृतायां प्रत्युक्तौ गम्यमानायाम् । कथं कृत्वा भवान् भुङ्क्ते इत्येवं पृष्टोऽसूयकस्तं प्रत्याह यथाकारमहं भोये तथाकारमहं भोक्ष्ये किं तवानेन । अनर्थादिति किम् ? यथा कृत्वाहं बलिं भोक्ष्ये किं तवानेन | मसूयाप्रत्युक्ताविति किम् ? यथाकृत्वाहं भोदये तथा द्रक्ष्यसि त्वम् । तथाकृत्वाऽहं भोये यदा द्रष्टव्यं भवता ।
कर्मण्यशेषे शिविदः || २|४|१५|| शेषः कः १ साकल्यम् । इदं कर्मणो विशेषणम् । श्रशेषविशिष्ट कर्मणि वाचि दृशिविदोवर्णम् भवति । साधुदर्श प्रणमति । सर्व साधुं प्रणमतीत्यर्थः । श्रतिथिवेदं भोजयति । यं यं विन्दति विन्ते वा तं सर्वं भोजयतीत्यर्थः । अशेष इति किम् ? अतिथिं दृष्ट्वा भोजयति ।
यावति विन्दजीवः ||२||४ | १६ ॥ यावच्छन्दे वाचि विन्दतिजीवत्योर्णम् भवति । यत्र पूर्वकालत्वं सम्भवति तत्र क्त्वाऽपवादः । यत्र न सम्भवति 'तत्रापूर्व एव विधिः । धुयोग इति वर्तते । यावद्वेदं भुङ्क्ते । यावल्लभते तावद्भुङ्क्ते इत्यर्थः । यावज्जीवमधीते । यावज्जीवति तावदधीते इत्यर्थः ।
-
चर्मोदरयोः पूरेः ||२|४|१७|| कर्मणीति वर्तते । चर्म उदर इत्येतयोः कर्मणोर्वाचोः पूरयतेम् भवति । चर्मपूरं शेते । उदरपूरं भुङ्क्ते ।
वर्षप्रमाणे ॥२|४|१८ ॥ कर्मणीति वर्तते । कर्मणि वाचि पूरयतेर्णम् भवति समुदायेन वर्षप्रमाणे गम्यमाने । गोष्पदपूरं वृष्टो देवः । सीतापूरं वृष्टो देवः । कथं गोष्पदप्र वृष्टो देवः १ प्रातेरातः के कृते क्रियाविशेषणत्वेन नपुंसकलिङ्गम् । एतस्य कान्तस्यैव विभक्तयन्तच्व्यादिषु च प्रयोगः साधुः । गोष्पदप्रेण गोष्पदप्री भवति । गोष्पदप्रतरम् गोष्पदपूरं दृष्टो देव इत्येवमादावुभयथा प्रयोग इष्यते । णमन्तस्य घञन्तस्य च क्रियाविशेषणभावेन हृति विभक्त्यन्तरे च विशेषः । णमन्तस्य हि देश्यादिषु गोष्पदपूरं भवति गोष्पदपूरदेश्यम् गोष्पदपूरंदेशीयं गोष्पदपूरंकल्पं गोष्पदपूरंतराम् । घञन्तस्य गोष्पदपूरीभवति गोष्पदपूरदेश्यं गोष्पदपूरदेशीयम् गोष्पदपूरकल्पम् । गोष्पदपूरतराम् ।
चेलेषु क्रोपेः ॥ २|४|१६ ॥ कर्मणीति वर्तते । चेलार्थेषु कर्मसु वातु क्रोपयतेर्णम् भवति वर्ष प्रमाणे गम्ये । चेलनोपं दृष्टो देवः । एवं वस्त्रक्नोपं वसननोपम् ।
१. तत्रापूर्वी विधिवैदितव्यः श्र० ।
For Private And Personal Use Only