________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३८
जैनेन्द्र-व्याकरणम्
[अ० २ पा० ४ सू० ४-१२
निषेधेऽलं खल्वोः तवा ||२|४|४|| वेति वर्तते । श्रलं खलु इत्येतयोर्निषेधवाश्विनेर्वाचोर्धोः क्त्वात्यो भवति । अलं कृत्वा । श्रलं बाले रुदित्वा । “मिनाऽमैव” [१1३1८३] इति नियमात् वाक्सो न भवति । निषेध इति किम् ? अलंकारः । श्रलंखल्वोरिति किम् ? मा कार्षीः । वेत्येव । श्रलं रोदनेन । 'प्रकृत्यादिभ्य उपसंख्यानम्" [ वा० ] इति भा ।
Acharya Shri Kailassagarsuri Gyanmandir
माङो व्यतिहारे || २|४|५|| माङो व्यतिहारेऽर्थे क्त्वा भवति वा । परकालत्वादप्राप्तः क्त्वा विभाष्यते । प्रमित्य याचते । श्रवमित्य हरति । "वेङ : " [ ४|४|६६ ] इतीत्वम् । वेत्यधिकारात् याचित्वा श्रपमयते । हृत्वा पयते । मेङः कृतात्वस्य निर्देशो ज्ञापकः -- "नानुबन्धकृतं हलन्तत्वम्" [ परि० ] |
I
परावरयोगे || २|४|६ ॥ परावराभ्यां योगे गम्यमाने घोः तवा भवति । वेति वर्तते । संबन्धिशब्दवात् परेण पूर्वस्य योगे । अप्राप्य नदीं पर्वतः । परया नद्या युक्तः पर्वतः प्रतीयते । श्रवरेण योगे परस्य क्तत्वा । अतिक्रम्य पर्वतं नदी । श्रवरपर्वत योगविशिष्टा परा नदी प्रतीयते । वावच नाल्लडादयो भवन्ति । न प्राप्नोति नदी पर्वतः । श्रतिक्रामति पर्वतं नदी ।
परका ककर्तृकात् ॥२२४॥७॥ परः कालो यस्याः सेयं परकाला क्रिया, तया एककर्ता यस्य सामर्थ्यात् पूर्वकालक्रियाभिधायिनः स तथोक्तः । तस्माद्धोः क्त्वा भवति । स्नात्वा भुङ्क्ते । स्नात्वा भुक्त्वा पीला व्रजति । एककर्तृकादिति किम् ? भुक्तवति देवदत्ते गच्छति जिनदत्तः । परकालग्रहणं किम् ? सामर्थ्यात् पूर्वकाल क्रियाभिधायिनो यथा स्यादिह मा भूत् । भुङ्क्ते च पिवति च श्रास्ते च जल्पति च इहापि कथञ्चित् पूर्व कालत्वविवक्षास्ति । व्यादाय स्वपिति । संमील्य हसति इति । वेत्यधिकरात् । भुङ्क्ते शेते च ।
म चाभीक्ष्ये ॥ २४८ ॥ परकालैककर्तृकादिति वर्तते । मुहुर्मुहुर्वृत्तिराभीक्ष्ण्यम् । एतच्च प्रकृत्यर्थविशेषणम् । परकालैककर्तृकात् णमित्ययं त्यो भवति त्वात्यश्च । श्राभीक्ष्ण्ये - भोजंभोजं व्रजति । भुक्त्वा भुक्त्वा व्रजति । पायं पायं गच्छति । पीत्वा पीत्वा गच्छति । क्त्वाणमौ द्वित्वमपेक्ष्याभीक्ष्ण्यं द्योतयतः । पूर्वेण त्वात्ये सिद्धे णमर्थ वचनम् । इह वेति निवृत्तम् । उत्तरत्र वाग्रहणात् ।
I
म यदनाका ||२४|६ ॥ यच्छन्दे वाचि तवाणमौ न भवतोऽनाकाङ्क्ष सति वाक्ये । अनन्तरव्यवहितभेदाभावात् पूर्वसूत्रविहितो अनन्तरश्च त्वा निषिध्यते णम् च । यदयं भुङ्क्ते ततो गच्छति । यदयं शेतॆ ततोऽधीते । अनाकाङ्क्ष इति किम् ? यदयं भुक्त्वा व्रजति । अधीत एव ततः परम् । अत्र पूर्वोत्तरक्रियाभ्यां अतिरिक्तमध्ययनं काङ्क्षते ।
वा प्रथमपूर्वे || २|४|१०|| श्रभीक्ष्ण्य इति निवृत्तम् । "परका लैककर्तृकातू" [२२४७] इत्यनेन त्वात् प्राप्ते विभाषेयम् । श्र प्रथम पूर्वं इत्येतेषु वातु क्त्वायमौ वा भवतः । अग्रे भोजं ततो ददाति । अग्रे भुक्त्वा ततो ददाति । प्रथमं भोजं ततो ददाति । प्रथमं भुक्त्वा ततो ददाति । पूर्व भोजं ततो ददाति । पूर्वे भुक्त्वा ततो ददाति । "झिनामैव" [११३८३] इत्यत्रैवकारोपादानात् केवलेनैवामा विहितेन बाक्सो भवति नान्यसहितेन । वावचनालादयोऽपि भवन्ति । श्रग्रे भुङ्क्ते ततो ददाति । प्रथमं भुङ्क ततो ददाति । भुङ्क्ते ततो ददाति ।
कर्मण्याक्रोशे कृञः खमुम् ||२|४|११|| कर्मणि वाचि आक्रोशे गम्यमाने कृञः खमुञ भवति । चोरोऽसीत्येवमाक्रोशति चोरङ्कारमाक्रोशति । दस्युङ्कारमाक्रोशति । क्त्वाऽपवादोऽयम् । श्राक्रोश इति किम् ? चोरं कृत्वा गच्छति । नात्राऽक्रोशसंपादनार्थ चोरग्रहणम् ।
स्वादुमि णम् ||२|४|१२|| स्वादुमीत्यर्थनिर्देशः । स्वाद्वर्थेषु वातु कृञो णम् भवति । परकालै कक - का दिति वर्तते । स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुक्ते । लवणङ्कारं भुङ्क्ते । स्वादुमीति णमसन्नियोगे
For Private And Personal Use Only