________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म.२ पा० १ ०१-३] महावृत्तिसहितम्
१३७ धुयोगे त्याः ॥२॥४१॥ धुशब्देन ध्वर्थोऽत्र निर्दिष्टः । अभिधेये अभिधानस्योपचारात् । धूनां योगे सति अयथाकालोक्ता अपि त्याः साधवो भवन्ति । विश्वदृश्वाऽस्य पुत्रो जनिता । कृतः कटः श्वो भाविता। भाविकृत्यमासीत् । विश्व श्वेति भूतकालः जनितेत्यनेन भवि यतकालेन ( अभिसम्बध्यमान साधुर्भवति । इहोपसर्जनभूसं सुबन्तं प्रधानभूतस्य मिङन्तस्य कालमनुवर्तते । धोरिति वर्तमाने पुनधु ग्रहणं अस्तिभूजनिपरिग्रहार्थम् । त्य इति वर्तमाने पुनस्त्यग्रहणं त्यमात्रपरिग्रहार्थम् । गोमान् भवितेति मत्वन्तस्य वर्तमानकालस्य अयथाकालत्वेन साधुत्वम् ।
क्रियासमभिहारे लोट तस्य हिस्वौ वा तध्वमोः ॥४२॥ क्रियासमभिहारविशिष्टे ध्वर्थे वर्तमानाद्धोर्लोड भवति । सर्वलकारापवादः। तस्य लोये हि स्व इत्येतावादेशो भवतस्तध्वमोस्तु वा भवतः। क्रियासमभिहारे लोडिति योगविभागः कर्तव्यः । ततस्तस्य हिस्वौ भवतः। किमेवं सति लब्धम् ? अन्यत्र यो लोडादेशौ हिस्वी प्रसिद्धौ ताविह भवतः । तेन मविधिदविधिव्यतिकरो न भवति । वा तध्वमोरित्यत्र ध्वमा सह निर्देशात्तशब्दस्य थादेशस्य वहोर्ग्रहणम् । लुनीहि लुनीहि इत्येवाहं लुनामि । श्रावां लुनीवः। वयं लुनीमः । लुनीहि लुनीहि इत्येव त्वं लुनासि । युवां लुनीथः । यूयं लुनीथ । तशब्दस्य तु वा भवति । लुनीत लुनीत इत्येवं यूयं लुनीथ । लुनीहि लुनीहि इत्येवायं लुनाति । इमो लुनीतः । इमे लुनन्ति । भूते लुनीहि लुनीहि इत्येवाहमलाविषम् । आवामलाविष्व । वयमलाविष्म । एवं युष्मदन्ययोरपि । वय॑ति-लुनीहि लुनीहीत्येवाई लविष्यामि । श्रावां लविष्यावः । वयं लविष्यामः। एवं युष्मदन्ययोरपि । अधीष्व अधीष्व इत्येवाहमधीये । श्रावामधीवहे । वयमधीमहे । एवं युष्मदन्ययोरपि योज्यम् । ध्वमस्तु पक्षे श्रवणम् । अधीध्वमधीध्वमित्येवं यूयमधीचे। भते-अधीष्व अधीष्व इत्येवाहमध्यगीषि । श्रारामध्यगीष्वहि । वयमध्यगीष्महि । एवं सर्वत्र । वय॑ति-अधीष्व अधीष्व इत्येवाहमध्येष्ये। श्रावामध्येष्यावहे । वयमभ्येष्यामहे । एवं युष्मदन्ययोरपि । एवं शेषेष्वपि लकारेषु योज्यम् । द्वित्वमपेक्ष्य लोड क्रियासमभिहारस्य द्योतकः। धुयोग इति वर्तते । प्रत्यासत्तेर्यत एव लोट विधीयते तस्यैवानुप्रयोगः कालास्मदायकत्वादीनामभिव्यक्तये क्रियते ।
प्रचये वा ॥२४॥३॥ प्रचयः समुच्चयः । स चैकस्मिन् द्विप्रभृतेरध्यावायः। प्रचये उपाधो वा लोड भवति तस्य हिस्वावादेशौ भवतस्तध्वमोस्तु वा । अयं सर्वलकारप्राप्तौ विकल्पः। कर्मप्रचयो ग्राममट नगरमट गिरीमट इत्येवाहमटामि । श्रावामटावः । वयमटामः। ग्राममट नगरमट गिरिमट इत्येवं त्वमटसि । युवामटथः। यूयमटथ। तशब्दस्य तु वा-ग्राममटत नगरमत गिरिमटत इत्येव यूयमःथ। ग्राममट नगरमट गिरिमट इत्येवायमटति । इमो अटतः। इसे अटन्ति । वाचनात् ग्राममटामि नगरमठामि गिरिमटामि इत्येवाहमयामि । श्रावामटावः । वयमटामः। एवं युष्मदन्ययोरपि । एवं भूते वय॑ति सर्वलकारेषु योज्यम् । दभाग्भ्यः । जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येवाहमधीये । श्रावामधीवहे । वयमधीमहे । जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येव त्वमधीषे । युवामधीयाथे। यूयमधीध्वे : ध्वमस्तु वा-जैनेन्द्रमधीध्वं तर्कमधीध्वं गणितमधीध्वं इत्येव यूयमधीध्वे । जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येवायमधीते । इमौ अधीयाते । इमे अधीयते । वावचनात् जैनेद्रमधीये गणितमधीये तर्कमधोये इत्येवाहमधीये । श्रावामधीवहे। वयमधीमहे । एवं भूते वय॑ति सर्वलकारेषु योज्यम् । कर्तृ समुच्चये देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्धि इत्येव वयमोदनमः । देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्धि इत्येव यूयमोदनमत्थ । देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्धि इत्येव इमे श्रोदनमदन्ति । कर्तृ समुच्चये द्विवचन बहुवचनं वा भवति एकस्य समुच्चयाभावात् । क्रियासमुच्चये। प्रोदनं भुत्व सक्लन् पिब धानाः खाद इत्येवाहमभ्यवहरामि । श्रावामभ्यवहरावः। वयमभ्यवहरामः । बहूनां क्रियाए समुच्चये सामान्यप्रयोगोऽभिधानवशात् । एवं सङ्करसमुच्चयोऽप्यूह्यः ।
1योऽप्यभ्यूयः १०, ब०, स.। १८
For Private And Personal Use Only