________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र च्याकरणम्
[अ० २ पा० ३ सू० १४५-१५२
आवश्यकाधमय॑योर्णिन् ॥२॥३॥१४६॥ अवश्यं भाव अावश्यकम् । मनोशादिपाठादुञ् । अधमम् ऋणमस्य अधमर्णः: तद्भाव श्राधमर्यम । श्रावश्यकाधमर्यविशिष्टे त्यार्थे कर्तरि णिन् भवति । अवश्यंहारी मयूरव्यंकादित्वात्सविधिः। शतंदायी। सहस्रदायो। निष्कदायो "आधमण्ये चेन:' [१४७४] इति कर्मणि तायाः प्रतिषेधः।
व्याः ॥२॥३॥१४७॥ आवश्यकाधमर्ययोरिति वर्तते । अावश्यकाधमर्ययोप्संज्ञा भवन्ति । सर्वत्यापवादेन गिना व्यसंज्ञा बाधिता इति पुनर्विधीयन्ते । भवता खलु अवश्यं धर्मः कर्तव्यः । करणीयः । कृत्यः । कार्यः । श्राधमण्य भवता खलु निष्को दातव्यः । देयः । योगविभाग उत्तरार्थः ।
शकि लिङ् च ॥२॥३॥१४८॥ शकीत्यर्थनिर्देशः । शन्नोत्यर्थविशिष्टे ध्वथै लिङ भवति चकाराद् व्याश्च । भवता खलु विद्या अध्येतव्या । अध्ययनीया । श्रध्येया । भवान् खलु विद्यामधीयीत । भवान् हि समर्थः। लिङ, सर्वापवाद इति (चकारेण ) व्यानामनुकर्षणं क्रियते । यदि शकीति प्रकृत्यर्थविशेषणम् | शक्नुयादित्यत्र लिङ न प्राप्नोति प्रकृत्यैवाभिहितत्वात् शक्यर्थस्य । नैष दोषः । सामान्यविशेषभावेन भेदाभ्युपगमात् । यथा एषितुमिच्छति एषिषिषति ।
___ आशिषि लिङ लोटौ ।।२।३।१४६॥ इष्टस्याशंसनमाशीः । अतएव निपातनादिह इकारः। श्राशीविशिष्टेऽर्थे वर्तमानाद्धोलिङलोटौ भवतः । जीव्यात् । जीव्यास्ताम् । जीव्यासुः । जीवतु । आशिषीति किम् ? जीवति यदि पथ्याशी।
निचलौ खौ ॥२।३।१५०॥ आशिषीति वर्तते । आशिष्यर्थे क्लिचक्तौ त्यौ भवतः खुविषये। चकारः "न तिचि दीश्चा' [10/10] इति विशेषणार्थः । तनुतात् तन्तिः। सनुतात् सातिः। भवताद्भतिः । कृतः क्लिचा विशेषविहितेन बाध्येरन्निति पुनर्विधीयन्ते । देवा एनं देयासुरिति देवदत्तः। देवा एनंशृण्वन्तु देवश्रुतः।
माङिलुङ ॥२॥३॥१५१॥ माङि वाचि लुङ, भवति । सर्वलकारापवादः । मा कार्षीरधर्मम् | मा हार्षीत्परस्वम् । ङ्कारः प्रतिषेधवाचिनो माङ शब्दस्य ग्रहणं यथा स्यादित्येवमर्थः ।।
सस्मे लङ च॥२।३.१५२॥ सह स्मशब्देन वर्तते सस्मः । तस्मिन् माङि वाचि लङ् भवति लु च । मा स्म क्रुध्यत् । मा स्म हरत् । मा स्म हार्षीत् ।
इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः समाप्तः ।
-चिरं जीव्यात् मु०।
For Private And Personal Use Only