________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. २ पा० ३ सू० १३८-१४४]
महावृत्तिसहितम्
१३५
शयीत । अधीष्टे-अधीच्छामो भवान् व्रतं रक्षत् । तत्त्वं भवान् गृह्णीयात् । संप्रश्ने-किन्नु खलु भोः जैनेन्द्रमधीयीय । प्रार्थने-भवति मे प्रार्थना व्याकरणमधीयीय । तर्कशास्त्रमधीयीय । यदि विध्यादिषु प्रकृत्युपाधिषु लिङ, विधीयेत; इह विदध्यात् निमन्त्रयेत अामन्त्रयेत अधीच्छेत् । प्रकृत्यैव विध्यादयोऽभिधीयन्ते इति (इहैव) लिङ् प्राप्नोति । तस्माद्विध्यादयः कर्तृकर्मभावानां विशेषणानि । तदभावादिह लिङ न भवति । विदधाति । निमन्त्रयते । आमन्त्रयते । अधीच्छति । अत्र क्रियाया अवृत्तौ परत्वाल्लटा लुङ बाध्यते ।
लोट् ॥२॥३॥१३८॥ लोड़ भवति विध्यादिविशिष्टेषु कादिषु विधौ । ग्राम भवान्नागच्छतु । प्राणिनो भवान्न हिनस्तु । निमन्त्रणे-संध्यासु भवानावश्यकं करोतु । श्राचारमधीताम् । श्रामन्त्रणे-रह भत्रानास्ताम् । इह शेताम् । अधीष्टे-अधीच्छामो भवान् व्रतं रक्षतु | तत्त्वं भवान् गृह्णातु । संप्रश्ने-किन्नु खलु भो काव्यमध्यौं । प्रार्थने-भवति मे प्रार्थना धर्मशास्त्रमध्ययै। योगविभाग उत्तरार्थः ।
प्रैषातिसर्गप्राप्तकाले व्याश्च ॥२॥३३१३९॥ प्रेषणं प्रैषः । अतिसर्गः कामचारानुज्ञा । प्राप्तकालः प्राप्तकालता, विशिष्टस्य कालस्यावसर इत्यर्थः । औषादिष्वर्थेषु कादिविशेषणत्वेन गम्यमानेषु व्यसंज्ञकास्त्या भवन्ति लोट् च । भवता खलु दानं दातव्यं दानीयं देयम् । करोतु कटो भवानिह प्रेषितः । भवानतिसृष्टः । भवतो हि प्राप्तः कालः। यद्यपि व्यसंज्ञा सामान्येन भावकर्मणोर्विहितास्तथापि सर्वापवादेषु प्रैषादिषु लोटा बाध्येरनिति पुनर्विधीयन्ते ।
लिङ चोर्ध्वमोहूर्तिके ॥२॥३१४०॥ प्रैषादयोऽनुवर्तन्ते । ऊर्ध्व मुहूर्ताद्भवः ऊर्ध्वमौहर्तिकः । निपातात्सविधिरुत्तरपदस्यैवैप। ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद्धोः प्रैषादौ गम्यमाने लिङ् भवति चकारावयाश्च । उपरि मुहूर्तस्य भवान् खलु दानं दद्यात् । भवता खलु दानं दातव्यं दानीयं देयम् । केचिच्चकारेण यथाप्राप्त समुच्चिन्वन्ति । तेषां लोडपि भवति । भवान् खलु दानं ददातु । भवान् हि प्रेषितः । भवानतिसृष्टः । भवतो हि प्राप्तः कालः ।
स्मे लोट ।।२।३३१४१॥ प्रैषादयोऽनुवर्तन्ते । ऊर्ध्व मौहूर्तिक इति च । स्मशब्दे वाचि प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिकेऽर्थे लोड भवति । व्यानां लिङश्चापवादः । ऊर्ध्वं मुहूर्ताद्भवान् दानं ददातु स्म। भवान् हि प्रेषितः । भवानतिसृष्टः । भवतो हि प्राप्तः कालः ।
अधीष्टे ॥२।३१४२॥ ऊर्ध्वमौहूर्तिक इति निवृत्तम् । अधीष्टे गम्यमाने स्मशब्दे वाचि लोड्भवति । लिङो बाधकः। अङ्ग स्म राजन् दानं देहि व्रतं रक्ष ।
कालसमयवेलासु तुम् वा ॥२॥३१४३॥ काल समय वेला इत्येतेषु वाच धोः तुम् भवति वा । कालो भोक्तम् । समयो भोक्तम् । वेला भोक्नुम् वा । वावचनाद्यथाप्राप्तं च भवति । कालो भोक्तव्यस्य । प्रेषादिग्रहणमनुवर्तते । तेनेह न भवति ।।
"कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥"
लिङ, यदि ॥२॥३१४४॥ यच्छब्दप्रयोगे कालादिषु वान धोर्लिङ भवति । तुमोऽपवादः । कालो यत्प्रजां कुर्वीत भवान् । समयो यद्भुञ्जीत भवान् । वेला यच्छयीत भवान् । केचिद्वेत्यनुवर्तयन्ति तेषां यथाप्राप्तमपि ।
तृजव्याश्चाहे ॥२॥३।१४५॥ अर्हतीत्यहः। अर्हे कर्तरि गम्यमाने तृजव्याश्च भवन्ति लिङ् च । भवान् खलु कन्यायाः वोदा। भवता कन्या वोढव्या वहनीया वाह्या। भवान् खलु कन्यां वहेत । भवान् योग्य इत्यर्थः। अhऽर्थे लिङा विधीयमानेन तृचो व्यानां च बाधा मा भूत् इति पुनर्विधानम् ।
For Private And Personal Use Only