________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
जैनेन्द्र-व्याकरणम् [अ० २ पा० ३ सू० १३०-१३७ अकच्चितीति किम् ? कच्चिजीवति मे माता। कचिनीवति मे पिता । माराविद खां पृच्छामि कच्चिजीवति पार्वती।
संभावनेऽलमि स्थानिनि ॥१३॥१३०॥ लिडित वर्तते । संभावनं क्रियायां सामर्थ्यश्रद्धानम् । अलंशब्दश्चेह पर्याप्तिवचनः । यस्य यत्रार्थो गम्यते न चासौ प्रयुज्यते स तत्र स्थानीशब्दः। अलमर्थविशिष्टे संभावने लिङभवति अलंशब्दे स्थानिनि । सर्वलकारापवादः । शक्यसंभावने-अपि हस्तिनं हन्यात् । अपि स्तुयाद्राजानम् । अशक्यसंभावने-अपि पर्वतं शिरमा भिन्द्यात् । अपि श्वारीयकं भुञ्जीत | अपि समुद्रं दोर्ध्या तरेत् । अलमति किम् ? विदेशस्थायी मे देवदत्तो मन्ये गमिष्यति ग्रामम् । अत्राहमिति स्थानी । स्थानिनीति किम् ? (वसति चेत् सुराष्ट्रेषु वन्दिष्यते अलमूर्जयन्तम् । क्रियाऽवृत्तौ वय॑ति भूते लङ भवति ।
तद्वाचि धौ वाऽयदि ॥३।१३।। अलमीति वर्तते । तच्छब्देन संभावनं परामृश्यते अलमर्थविशिष्टे सम्भावनवाचिनि धौ वाचि वा लिङ् भवति । यच्छब्दाप्रयोगे पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सम्भावयामि भुञ्जीत भवान् । श्रद्दधे भुञ्जीत भवान् । पक्षे यो यतः प्राप्नोति स ततो भवति । अलमीति किम् ? सम्भावयामि यस भुञ्जीत । अत्रालमर्थे पूर्वेण नित्यो लिङ् ।
हेतुफलयोलिङ ॥२।३।१३२॥ हेतु: कारणम् फलं कार्यम् । हेतौ तत्कायें च ध्वर्थे वर्तमानाद्धोः लिङ् भवति । अतिथींश्चेल्लभेत भृशमन्नं ददीत । यदि गुरुपूजां कुर्वीत स्वर्गमारोहेत् । वेत्यनुवर्तनात्पक्षे लट् । अतियाश्चेल्लप्स्यते भृशमन्नं दास्यते । लिडिति वर्तमाने पुनर्लिङ्ग्रहणं वयति यथा स्यादिह मा भूत । वर्षतीति धावति । हन्तीति पलायते । क्रियाऽवृत्ती वय॑ति भूते च नित्यो लुङ् ।
इच्छाथै लिङ लोटौ ॥२॥३॥१३३॥ इच्छार्थे धौ वाचि लिङ्लोटौ त्यौ भवतः । सर्वलकारापवादौ । वेति व्यवस्थितविभाषानुवर्तते । तेन कामप्रकाशने इदं विधानम् । इच्छामि भुञ्जीत भवान् । भुक्तां भवान् । प्रार्थये अधीयीत भवान् । अधीतां भवान् । कामप्रकाशन इति किम् ? इह मा भूत् । इच्छन् करोति । नात्र प्रयोक्तुः कामप्रवेदनम् । "उताप्योः पृष्टोक्तौ'' [२।३।१२८] इत्यत आरभ्य यत्र केवलो लिङ्हेतुः शिष्यते तत्र क्रियाऽवृत्तौ लुङ् नान्यत्रेति केचित् ।
तुमेककत के ॥२॥३॥१३४॥ इच्छार्थे एककर्तृके धौ वाचि तुम्भवति यस्मात्तुम् विधीयते प्रत्यासत्तेस्तदपेक्षयैकककत्वम् । लिङ्लोटोरपवादोऽयम् । इच्छति भोक्तुम् । वाञ्छति कर्तुम् । कामयते कर्तुम् । एककर्तृक इति किम् ? देवदत्तं भुखानमिच्छति परः। इह कस्मान्न भवति । इच्छति कटं करोति चैनम् । नात्र करोतिं प्रतीच्छतः सामर्थ्य किन्तु कटं प्रति तेनान्वर्थवासिंज्ञाविरहात्तम् न भवति ।
लिङ ॥२॥३॥१३५॥ इच्छार्थे एकक के धौ वाचि लिङ, भवति । पूर्व तुमा लिङ्लो बाधितो पुनर्लिप्रसवार्थमेतत् । योगविभाग उत्तरार्थः। अधीयीयेति इच्छति । भुज्जीयेति वाञ्छति । इतिशब्दः क्रियाशब्दसंबन्धद्यातनाथः।
तेभ्यो भवति वा ॥२३१३६॥ तेभ्य इच्छार्थभ्यो धुभ्यः भवति काले वा लिङ् भवति । इच्छेत् । इच्छति । कामयेत । कामयते । उश्यात् । वष्टि ।
विधिनिमन्त्रणामन्त्रणाधोसंप्रश्नप्रार्थने लिङ ॥२।३।१३७॥ विधिराज्ञापनम् । निमन्त्रणं नियमेन करणम् । यदकरणे प्रत्यवाय हत्यर्थः। आमन्त्रणं स्वेच्छया करणम् | अधीष्टः सत्कारपूर्विका व्यापारणा । संप्रश्नः संप्रधारणा । प्रार्थनं याञा । विध्यादिष्वर्थेषु लिङ् भवति । सर्वत्यापवादः । विध्यादिविशिप्टेषु कादिषु त्यार्थेषु लिङ भवतीत्यर्थः । कटं भवान् कुर्यात् । प्राणिनो भवान्न हिंस्यात् । निमन्त्रणेसंध्यासु भवान् श्रावश्यकं कुर्यात् । श्राचारं भवानधीयीत । अामन्त्रणे-इह भवानासीत । इह भवान्
For Private And Personal Use Only