________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० ३ सू० १२१-१२६] महावृत्तिसहितम्
१३३ अनचक्लप्त्यम ॥२।३।१२१॥ गर्ह इति निवृत्तम् । लिङलुटाविति वर्तते । अनवक्लुप्त्यर्थे अवमर्षे च गम्यमाने लिङ्लृट् इत्येतो त्यौ भवतः । श्रथमपि सर्वलकाराणामपवादः । अनवक्लुप्तौ नावकल्पयामि न संभावयामि न वा श्रद्दधे किं तत्र भवानदत्तं गृह्णीयात् अदत्तं ग्रहीष्यति । अमर्षे । घिमिथ्या नैतदस्त्यमों मे किं तत्रभवानदत्तं गृह्णीयात् अदत्तं ग्रहीष्यति । किंवृत्तेऽकिंवृत्ते च वाचि सामान्येनायं विधिः । लिङ्हेतु. रस्तीति भूते क्रियावृत्तौ वा लुङ् । वय॑ति तु नित्यः ।
किंकिलास्त्यर्थे लूट ॥२।३।१२२॥ अनवक्लुप्त्यमर्ष इति वर्तते । किंकिलशब्दे अत्यर्थेषु च शब्देषु वातु अनवक्लुप्त्यमर्षयोलृट् भवति । लिङोऽपवादः । नावकल्पयामि किंकिल तत्र भवान् परदारान् प्रकरिष्यते । गंधनादिसूत्रेणान्याये दः। अस्त्यर्था अस्तिभवतिविद्यतयः । अस्ति नाम भवति नाम विद्यते नाम तत्रभवान् परदारान् प्रकरिष्यते।
जातुयद्यदायदो लिङ ॥२।३।१२३॥ अनवक्तृप्त्यमर्ष इति वर्तते । जातुयद्यदायदीत्येतेषु वातु अनवक्लप्त्यमर्षयोर्लिङ् भवति । लुटोऽपवादः । नावकल्पयामि जातु तत्रभवान् सुरां पिबेत् , यत्तत्रभवान् सुरां पिबेत् , यदा तत्रभवान् सुरां पिबेत् , यदि तत्रभवान् सुरां पिबेत् । न मृष्यामि जातु तत्रभवान् सुरां पिबेत् इत्येवमादि योज्यम् । लिहेतुरस्तीति भूते वा लुङ् । वर्त्यति तु नित्यः।
यच्चयत्रयोः ।।२।३।१२४॥ अनवक्लुप्त्यमर्ष इति वर्तते । यच्च यत्र इत्येतयोर्वाचोरनवक्लुप्त्यमर्षयोलिङ् भवति । लुटोऽपवादः । उत्तरार्थो योगविभाग । न संभावयामि यच्च तत्रभवान् परिवादं कथयेत् । न मृष्यामि यश्च तत्रभवान् परिवादं कथयेत् । यत्र तत्रभवान् परिवादं कथयेत् । क्रियाऽवृत्तौ भृते वा लुङ् । वय॑ति तु नित्यः ।
गर्हे ॥२॥३॥१२५॥ अनवक्लुप्त्यमर्ष इति निवृत्तम् । अर्थान्तरोपादानात् । यच्च यत्र इत्येतयोर्वाचोगहें गम्यमाने लिङ भवति । सर्वलकाराणमपवादः । यच्च तत्रभवान् अस्मानाक्रोशेत् विद्वान् वृद्धः सन्नुस्कृष्टः । गर्हामहे । अन्याय्यमेतत् । लिहेतुरस्तीति यथासंभवं लुङ वेदितव्यः ।
चित्रार्थे ॥२॥३॥१२६॥ चित्रशब्दस्यार्थे गम्यमाने यच्चयत्रयोर्वाचोर्लिङ् भवति । सर्वलकारापवादः । यच्च तत्रभवान् लोभं कुर्यात् यत्र तत्रभवान् लोभं कुर्यात् विद्वान् वृद्धः सन्नुत्कृष्टः । चित्रमाश्चर्यमद्भुतं विस्मयमित्येषामन्यतमप्रयोगः । लिहेतुरस्तीति भूते क्रियाऽवृत्तौ वा । वर्त्यति तु नित्यः।
शेषेऽयदो लट् ॥२।३।१२७॥ यच्चयत्राभ्यामन्यश्चित्रार्थः शेषः । शेषे चित्रार्थे गम्यमाने लुड भवति यदिशब्दश्चेद्वान भवति । अयमपि सर्वलकारापवादः। चित्रमाश्चर्य्यमदभुतं विस्मयमित्ययमन्धो नाम पुस्तकं वाचयिष्यति मूको नाम जैनेन्द्रमध्येष्यते । लिङ्हेत्त्वभावात् लुङ् वा न भवति । श्रयदाविति किम् ? आश्चर्य यदि स भुञ्जीत । अत्रानवक्तृप्तिश्चित्रार्थश्च प्रतीयते । “जातुयद्यदायदो लिङ्" [२।३।१२३] इति लिभूते "वाशशेषाद्" [२।३।११७] इति लङधिकारो निवृत्तः ।
उताप्योः पृष्टोक्ती लिङ् ॥२॥३॥१२८॥उत अपि इत्येतयोर्वाचोः पृष्टस्योक्तो गम्यमानायां लिङ भवति । सर्वलकारापवादः । किमकार्षीः कटं देवदत्त । इति पृष्टः प्रत्याह उत कुर्यात् । अपि कुर्यात् । कटं कृतवानित्यर्थः। इतः प्रभृति यत्र लिहेतुरस्ति तत्र वय॑ति भूते च नित्यो लुङ् । उताकरिष्यत् । अप्याकरिध्यत् । पृष्टोक्लाविति किम् ? उत दण्डः पतिष्यति । अपि धास्यति द्वारम् । अत्र प्रश्नोद्घहनं च प्रतीयते ।
इच्छोरोधेऽकञ्चिति ॥२॥३॥१२६॥ इच्छोरोधः स्वाभिप्रायनिवेदनम् । इच्छोरोधे गम्यमाने लिङ् भवति कच्चिच्छब्दाप्रयोगे। सर्वलकारापवादः । कामो मे अधीयीत भवान् । अभिलाषो मे भुञ्जीत भवान् ।
1-सौ लुवा भ.।
For Private And Personal Use Only