________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
जैनेन्द्र-व्याकरणम्
[अ० २ पा० ३ सू० ११४-१२०
योऽवरोऽर्द्धमासस्तत्र द्विरध्येतास्महे । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रतत्र द्विरध्येतास्महे । प्रसज्य [इति ] प्रतिषेधात् त्रिविधमुदाहरणम् ।
वा परे ॥२३११४॥ कालविभाग इति वर्तते । परस्मिन्नवधेः कालविभागे वय॑ति लुण्न भवति न चेदहोरात्राणां विभागः योऽयं संवत्सरः श्रागामी तस्य यत्परमाग्रहायण्यास्तत्र द्विरध्येष्यामहे अध्येतास्महे वा । सामीप्याव्युच्छित्तिविवक्षायामपि परत्वादयं विकल्पः । अनहोरात्राणामित्येव । योऽयं त्रिंशदात्र आगामी तस्य यः परः पञ्चदशरात्रः तत्र द्विरध्येतास्महे | सामीप्याव्युच्छित्योर्लुटः प्रतिषेध एव । वय॑तीत्येव । योऽयं संवत्सरोऽतीतः तस्य यत्परमाग्रहायण्यास्तत्र द्विरध्यैमहि । अवधेरित्येव । योऽयं निरवधिःकाल श्रागामी तस्य यत्परमाग्रहायण्यास्तत्र द्विरध्येतास्महे । कालविभाग इत्येव । योऽयमध्वा गन्तव्यः श्रा चित्रकूटात् तस्य यत्परं मथुरायास्तत्र द्विरध्येतास्महे । सर्वत्र लुड् भवति न चेदव्युच्छित्तिविवक्षा ।
लिडहेतौ लुक क्रियाऽवृतो ॥२॥३॥११५॥ वय॑तीति वर्तते । हेतुर्निमित्तम् । लिङ्हेतौ वर्त्यति काले लङ् भवति क्रियाया अवृत्तौ सत्याम् “हेतुफलयोर्लिङ' [२।३।१३२] इत्येवमादि लिनिमित्तं वक्ष्यति । अतिथींश्चेदलिप्स्यत भृशमन्नमदास्यत् । अत्रान्नदानं फलं तद्धेतुभूतोऽतिथिलाभः तदनभिनिर्वृत्तिं प्रमाणादवगम्बेदं वाक्यं प्रयुक्तम् । एवमुपाध्यायं चेदुपासिष्यत शास्त्रान्तमगमिष्यत् । अभोक्ष्यत भवान् दध्ना यदि मत्समीपे आसिष्यत । इह दक्षिणेन चेदयास्यत् न पOभविष्यदिति यानमनिष्पन्नं पर्याभवनं तु निष्पन्नमिति कथमवृत्तिः क्रियायाः। एवं तर्हि प्रत्यासत्तेहें तुभूतायाः क्रियाया अवृत्ताविति द्रष्टव्यम् । क्रियायाः अवृत्तावपि शक्तिरूपेण क्रियामथ्यारोप्य कर्तृत्वेनाभिसंबन्धः क्रियते यथा भूतभविष्यत्कालविषयायाः कर्तृत्वेनामिसंबन्धः।
भूते ।।२।३।११६॥ भूते च काले लिङ्हेतौ क्रियाया अवृत्तौ सत्यां लुङ् भवति । "उसाप्योः पृष्टोक्ती लिङ्' [२।३।१२८] इत्यतः प्रभृति कालसामान्ये यल्लिनिमित्तं विधानं तत्रानेन भूते लुङ् । ततः पूर्वं तु "वाऽशेषात्" [२३.११७] इत्येनेनैव विकल्पः सिद्धः | दृष्टो मया भवतः पुत्रोऽन्नार्थी चक्रम्यमाणः। इतरश्चातिथ्यर्थी यदि तेन दृष्टोऽभविष्यत् उताभोक्ष्यत । अप्यभोक्ष्यत अन्येन यथा स गतः नापि भुक्तवान् । इदं सर्व प्रतिवचनम् ।
वाऽशेषात् २।३।११७॥ वक्ष्यति "शेषेऽयदौ लुट् [२।३।१२७] इति श्रा एतस्मात्सूत्रावधेः यदित ऊर्ध्वमनुक्रमिष्यामः भूते काले लिङ्हेत्तौ क्रियायाः अवृतौ लुङ्वा भवतीत्येतदधिकृतं वेदितव्यम् । परस्तु लुडो विधिनित्य इति तत्रैवोदाहरिष्यामः।
लड़ गहेऽपिजात्वोः ।।२।३।११८॥ अपि जातु इत्येतयोर्वाचोः लड् भवति गर्दै गम्यमाने । अयं कालसामान्ये विहितो लट कालविशेषे विहितान् लकारान् परत्वाबाधते । अपि तत्रभवान् प्राणिनो हन्ति । जातु तत्रभवान् प्राणिनो हन्ति । गर्हामहे । अन्याय्यमेतत् । लिङ्हेत्वभावात् भूते क्रियाऽवृत्तौ लङ न भवति ।
वा कथमि लिङ्च ॥२॥३॥११६॥ गई इति वर्तते । कथंशब्दे वाचि लिङ् भवति लड्वा । कथं नाम तत्र भवान् मांसं भक्षयेत् । मांस भक्षयति । गर्हामहे | अन्याय्यमेतत् । वावचनाद्यथाप्राप्तम् । अबभक्षत् । अभक्षयत् । भक्ष याञ्चकार । भक्षयिष्यति । भक्षयिता । अत्र लिहेतुरस्तीति भूते क्रियाऽवृत्तौ वा लुङ् भवति । अभक्षयिष्यत् । वस्यति नित्यं लुङ् ।
किंवत्त लिङ लटौ ॥२॥३॥१२०॥ गहें इति वर्तते । वेति नाधिकृतम् । विभक्त्यन्तस्य उत्तरडतमान्तस्य च किमो वर्तनं किंवृत्तम् । किंवृत्ते वाचि गहें गम्यमाने लिङ्लुटौ भवतः। सर्वलकाराणामयमपवादः। कि तत्रभवान् अनृतं ब्रूयात् । अनृतं वक्ष्यति । लिङ्हेतुरस्तीति भूते वा लुङ् भवति । वय॑ति तु नित्यः ।
For Private And Personal Use Only