SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३१ ०२ पा० ३ सू० १०७-११३] महावृत्तिसहितम् भवद्वद्वा तत्सामीप्ये ॥२॥३३१०७॥ भवच्छब्दो वर्तमानपर्यायः । समीपमेव सामीप्यम् । भवतीव त्यविधिर्भवति वा तत्समीपे भूते भविष्यति च ध्वर्थे वर्तमानाद्धोः । संप्रतीत्यारभ्य ा पादपरिसमाप्तेर्विहितारस्या अतिदिश्यन्ते । कदा देवदत्त श्रागतोऽसि । एष आगच्छामि । आगन्छन्तमेव मां विद्धि । एष आगामुकोऽस्मि । बावचनाद्यथाप्राप्तम् । एष आगतोऽस्मि । कदा देवदत्त गमिष्यसि । एष गच्छामि। गच्छन्तमेव मां विद्धि । गन्तारमेव मां विद्धि । पक्षे एष गमिष्यामि । एषोऽस्मि गन्ता । वत्करणं किमर्थम ? प्रकृतिविशेषादिपरिग्रहार्थम । तत्सामीप्यग्रहणं व्यवहितनिरासार्थम् । कदा ग्राममगच्छत् । श्वः कारष्यति । इह मा भूत् । नन्वत्र लुटा भवितव्यं कथं लुट ? पदसंस्कारवेलायां श्वःप्रभृतिपदानामसंनिधानाददोषः । भूतवञ्चाशंसायाम् ॥२।३।१०८॥ आशंसनमाशंसा भविष्यत्कालविषया; तस्यां गम्यमानायां भूतवत्यविधिर्भवति भवद्वच्च वा । भूतग्रहणेन भूतसामान्ये विहितस्य त्यस्य परिग्रहः । उपाध्यायश्चेदागमिष्यति उपाध्यायश्चेदागमत् उपाध्यायश्चेदागतः तदा तर्कमधीमहे अध्येष्यामहे अध्यगीमहि एषोऽधीतस्तकः । आशंसायामिति किम् ? उपाध्याय आगमिष्यति । तिप्रवचने लट ॥२॥३३१०६॥ अाशंसायामिति वर्तते । क्षिप्रार्थे शब्दे वाचि लट् भवत्याशंसायां गम्यमानायाम् । भूतवच्चेत्यस्यापवादः । उपाध्यायश्चेदागमिष्यति क्षिप्रमध्येष्यामहे शीघ्रमध्येष्यामहे । नेति वक्तव्ये लुटग्रहणं लुट्विषयेऽपि यथा स्यात् इत्येवमर्थम् । श्वः क्षिप्रमध्येष्यामहे । लिकाशंसोकौ ॥२३।११०॥ आशंसा उच्यते येन शब्देन तस्मिन् वाचि लिङ् भवत्याशंसायां गम्यमानायाम् । अयमपि भूतवच्चेत्यस्यापवादः । उपाध्यायश्चेदागच्छेत् आशंसे युक्तोऽधीयीय । अवकल्पये युक्तोऽधीयीय । परत्वाल्लुटो बाधकोऽयम् । श्राशंसे क्षिप्रमधीयीय । न लङलुट सामीप्याव्युच्छित्त्योः ॥२।३।१११॥ सामीप्यं तुल्यजातीयेनाव्यवधानम् । अध्युच्छित्तिः क्रियाप्रबन्धः । लङ्लुटौ न भवतः सामीप्याव्युच्छित्त्योः गम्यमानयोः । अनद्यतनविहितयोलङलुटोस्यं प्रतिषेधः । (सामीप्ये-येयं पौर्णमास्यतिक्रान्ता एतस्यां देवानपुजामः। अतिथीनबुभुजामः । येयममावास्यागामिनी एतस्यां देवान् पूजयिष्यामः अतिथीन् भोजयिष्यामः ।) अव्युच्छित्तौ-यावदजीवीत् भृशमन्नमदात् । यावजीविष्यति भृशमन्नं दास्यति । __ वय॑त्यवरेऽवधेः ॥२।३।११२॥ यद्यपि लङ्लुडिति प्रकृतम्। तथापीह वयद्हणाल्लुट एव प्रतिषेधः । वयतिकाले अवरस्मिन् भागे लुणन भवति । असामीप्याव्युच्छ्रित्यर्थोऽयमारम्भः। कालविभाग उत्तरत्र वक्ष्यते । देशविभागेऽयं प्रतिषेधः। योऽयमध्वा गन्तव्य श्रा चित्रकूटात् तस्य यदवरं मथुरायाः तत्र द्विरोदनं भोदामहे द्विःसक्तन्पास्यामः) वय॑तीति किम् ? योऽयमध्वागत या चित्रकूटात् तस्य यदवरं मथुरायास्तत्र युक्ता द्विरध्यैमहि) अवर इति किम् ? योऽयमध्वा गन्तव्य या चित्रकूटात् तस्य यत्परं मथुरायास्तत्र युक्ता द्विरध्येतास्महे । अवधेरिति किम् ? योऽयमध्वा गन्तव्यो निरवधिकः तस्य यदवरं मथुरायास्तत्र युक्ता द्विरध्येतास्महे । कालविभागेऽनहोरात्राणाम् ॥२॥३॥११३॥ वय॑त्यवरेऽवधेरिति वर्तते । वय॑तिकाले अवरस्मिकालविभागेऽहोरात्रसंबंधविवर्जिते लुण्न भवति । पूर्वेण प्रतिषेधे सिद्धेऽप्यहोरात्रसंबन्धिविभागप्रतिषेधार्थ वचनम् । कालविभागग्रहणमिहार्थमुत्तार्थ च । योऽयं संवत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्रार्हत्पूजां करिष्यामहे अतिथिभ्यो दानं दास्यामहे । वर्त्यतीत्येव । योऽयं संवत्सरोऽतीतस्तस्य यदवरमाग्रहायण्यास्तत्र यका द्विरध्यैमहि । अवर इति किम् ? "वा परे" [२।३।११७] इति वक्ष्यति । अवधेरित्येव । योऽयं निरवधिक: काल आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्यतास्महे । अनहोरात्राणामिति किम् ? योऽयं त्रिंशदात्र श्रागामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतामहे । योऽयं त्रिंशदात्र अमीस्यागात For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy