________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
जैनेन्द्र-व्याकरणम् [अ० २ पा० ३ सू० १०१-१०६ नपुंसकलिंगा स्त्रीलिंगा चेयं संज्ञा । खाविति किम् ? हरणो दण्डः। प्रायेणेति किम् ? कचिन्न भवति । प्रसाधनः । दोहनः ।
तृस्रोऽवे घम् ।।२।३।१०१॥ तृ स्तू इत्येताभ्यामवशब्दे वाचि घञ् भवति करणाधिकरणयोः पुंखौ । अवतारः । अवस्तारः । कथमसंज्ञायामक्तारो नद्या इति ? चिन्त्यमेतत् । ।
हलः ॥२।३।१०२॥ हलन्ताद्धोर्घ भवति करणाधिकरणयोः पुखौ । घापवादोऽयम् । वेदः । नेगः । वेशः गन्धः । सङ्गः । विषङ्गः । तैलोदकम् । घृतोदकम् । नास्त्यत्र घभि घे वा विशेषः। इमानि तह दाहरणानि । खेलः । निमार्गः। अपामार्गः। प्रासादः। श्राखानः । प्रायेणेत्यनुवर्तनात् हलन्तेभ्यः केभ्यश्चित् घन न भवति घ एव भवति । श्रधिकरणे-कषः । निकषः। निगमः । गोचरः। श्रापणः। करणे-संचरः। वहः । ब्रजः । इह व्यजन्त्यस्मिन्निति व्यजः। घे कृते "बहुलं खौ" [४१२६] इति बहुलवचनादजेर्वीभावो न भवति | इह उदकोदञ्चनः । दोहनः । प्रसाधन इति घघौ न भवतः । श्राखनः श्राखानः इत्यत्रोभयं भवति ।
संहारोद्यावानायावहारावायाः ॥२।३१०३॥ संहारादयः शब्दा पनि निपात्यन्ते पुंखौ । अहलन्तत्वात् पूर्वेणाप्राप्तिः । संहरति तेन संहारः । करणेऽधिकरणे वा उद्यावः। आनयन्ति तेन अानायो जालं चेत् । अवहरन्ति तेन अवहारः । एत्य तस्मिन् वयन्ति श्रावायः। “अध्यायानुवाकयोर्वोप' [४१६४ ] 'आधारोऽधिकरणः" [१।२।११६] इति ज्ञापकात् उञ्छादिषु न्यायशब्दस्य निर्देशात् अधीयते अनेनाध्यायः । श्राधियते अस्मिन् अाधारः । नीयतेऽनेन न्यायः । एतेऽपि शब्दाः साधवः ।
स्वीषद्बुसि कृच्छाकृच्छे खः ॥२॥३॥१०४॥ सु ईबत् दुस् इत्येतेषु वातु कृच्छ्रे अकृच्छ्रे चार्थे खो भवति धोः। कृच्छ्राकृच्छ्रग्रहणं स्वादिविशेषणम् । सुकरः कटो भवता। ईषत्करः कटो भवता । दुष्करः कटो भवता। "तयोव्यक्तखार्थाः" [२।४।१५] इति कर्मणि खः। "न झित" [१२] इत्यादिना ताप्रतिषेधः । झित्वात्पूर्वपदस्य मुम्न भवति । कृच्छाकृच्छ्र इति किम् १ ईषत्कार्यः । मनाकार्य इत्यर्थः।
___ कर्तृकर्मणो कृम्भ्याम् ॥२॥३॥१०॥ स्वीषदुसि कृच्छ्राकृच्छ्रे ख इति वर्तते । कृञ्ग्रहणसामर्थ्यात् कर्तृकर्मग्रहणं वागविशेषणम् । कर्तरि कर्मणि च वाचि भू कृञ् इत्येताभ्यां यथासंख्यं खो भवति सु ईषत् दुस, इत्येतेषु वान्तु कृच्छ्रे अकृच्छ्रे चार्थे । त्यस्य खित्करणं मुमर्थमिति पूर्व कर्तृकर्मभ्यां योगः पश्चात्स्वादिभिः । प्रायेणेत्यनुवर्तनात् कर्तृकर्मणोश्च्यर्थयोर्ग्रहणम् । अनाढ्य न सुखमाढ्य न भूयते स्वाध्य भवं भवता । ईषदाय भवं भवता । दुराढ्यम्भवं भवता । सुखमनाढ्यमान्यति यते । स्वाट्यंकरो देवदत्तो भवता । ईषदाव्यङ्करः । सूत्रन्यासे परत्वात्कर्तृकर्मणोः वासं कृत्वा पश्चात्पूर्वस्य क्रियते । व्यर्थयोरिति किम् ? स्वाट्येन भूयते । स्वायेन क्रियते । यदा करोतिर्विकारार्थः तदा सुकटंकराणि वीरणानि । यदा निष्पत्तिवचना तदा सुकरः कटो वीरणैरिति ।
युजातः॥२३॥१०६॥ स्वीषद्दुसि कृच्छ्राकृच्छ्र इति वर्तते । आकारान्तेभ्यो धुभ्यो युज् भवति स्वादिषु कृच्छ्राकृच्छ्रार्थेषु वातु । सुपानं पयो भवता । ईषत्पानम् । दुष्पानम् । सुग्लानम् । ईषद्ग्ला नम् । दुग्ानम् । खापवादोऽयम् । प्रायेणेति वर्तते। तेन "दुःशब्दे वाचि शासियुधिशिधषिमृषिभ्यः युज् भवति" [वा०] । दुःशासनः । दुर्योधनः । दुर्दर्शनः । दुर्धर्षणः । दुर्मर्षणः । सुदर्शनादिषु बसो द्रष्टव्यः ।
१. वेष्टः म०; ब०; स.।
For Private And Personal Use Only