________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० २ पा० ३ सू० १२- २० ]
महावृत्तिसहितम्
१२१
शेषे ||२||१२|| उक्कादन्यः शेषः शुद्धं वर्त्स्यत् कालमात्रम् शेषे वर्त्स्यति लृट् भवति । करिष्यति । हरिष्यति ।
विभाषा लुटः सत् ॥२/३/१३॥ वर्त्स्यति लृट् तस्य स्थाने सत्संज्ञौ शतृशानौ विभाषया भवतः । पक्ष्यन्तं पश्य । पक्ष्यमाणं पश्य । पक्ष्यता कृतम् । पक्ष्यमाणेन कृतम् । हे पक्ष्यन् । हे पक्ष्यमाण । श्रर्जयिष्यन् वसति । श्रध्येष्यमाणास्ते । देवदत्तः पच्यन् पक्ष्यति वा पक्ष्यमाणः पक्ष्यते वा । व्यवस्थितविभाषेयम् । तेन इबादिभिर्योगे सम्बोधने लक्षणहेत्वोः क्रियायामित्यत्र नित्यो विधिः । वान्तैकार्थत्वे विकल्पः । इतिशब्दयोगे तु न भवति । करिष्यामीति व्रजति । हरिष्यामीति व्रजति । लड्ग्रहणं किम् ? त्यान्तरत्वं मा विज्ञायि ।
नद्यतने लुट् ||२| ३ | १४ ॥ वर्त्स्यतीति वर्तते । वर्त्यत्यनद्यतने ध्वर्थे वर्तमानादोलुंड भवति । श्वः कर्ता । श्वोऽध्येता । श्रनद्यतन इति वसनिर्देशादद्य श्वो भोदयामहे इत्यत्र न भवति । विभाषानुवर्तनात् परिदेवने लृविषयेऽपि लुड् भवति । इयन्तु कदा गन्ता एवं निदधती पादौ । अयं तु कदाध्येता एवमनभियुक्तः ।
पदरुजविशस्पृशो घञ ॥२|३|१५|| पद रुज विश स्पृश इत्येतेभ्यो घञ भवति । पद्यतेऽसौ पादः । चोरयमपवादो न पचाद्यचः "सुम्मिङन्तं पदम् [१।२११०३] इति पदनिर्देशात् । रुजत्यसौ रोगः । विशत्यसौ वेशः । इगुङ्लक्षणस्यापवादः । स्पृश उपतापेऽभिघातम् । स्पृशतीति स्पर्शो रोगः । उपतापादन्यत्र स्पष्टा । स्पर्शकः ।
सृ स्थिरे ||२|३|१६|| सरतेः स्थिरे कर्तरि घञ् भवति । कालान्तरं सरतीति सारः । मधूकसारः । विभाषानुवर्तनात् स्थिरव्याधिमत्स्यवलेष्वभिधानम् । श्रतीसारो व्याधिः । विसारो मत्स्यः । सारो बलम् । एतैष्विति किम् ? सर्ता । सारकः ।
1
भावे ||२|३|१७|| भावे धोत्र भवति । भाव इति क्रिया सामान्यं ध्वर्थः । तद्यद्यपि पूर्वापरीभूतमपरिनिष्पन्नमलिङ्गसंख्यं प्रकृत्यैवोच्यते, तथापि यस्त्वस्यासिद्धताधर्मः स लिङ्गसंख्यावानिति तत्र घञादयः । पाकः । त्यागः । रागः ।
कतरि || २|३|१८|| कर्तुरन्यस्मिन् कारके घञ् भवति ।
"नयुक्तमिवयुक्तं वा यत्कार्यं संप्रतीयते । तुल्याधिकरणेऽन्यस्मिन् लोकेऽप्यर्थं गतिस्तथा ।। "
प्रास्यन्ति तं प्रासः । प्रसीव्यन्ति तं प्रसेवः । श्राहरन्ति तस्मादाहारः । 'संज्ञायामसंज्ञायामपि दृश्यते । को भवता दायो दत्तः । को भवता लाभो लब्धः । कर्तव्यः कटः इत्येवमादिषु अनभिधानात् भवति ।
परिमाणाख्यायां सर्वेभ्यः || २|३|१६|| श्रख्या ग्रहणात्परिमाणमिह संख्यादिकं गृह्यते । परिमाणस्याख्यायां गम्यमानायां सर्वेभ्यो घञ भवति । एकस्तण्डुलनिचायः । एकस्तण्डुलावचायः । द्वौ केदारलावौ । द्वौ बीजकारौ । "वृग्रहवृहगमोऽच्" [२|३|१२] इति अचि प्राप्ते इदम् । परिमाणाख्यायामिति किम् ? निश्चयः । सर्वग्रहणं बाधकबाधनार्थम् । एकस्तृणनिघासः । श्रन्यथा पुरस्तादपवादोऽयमिति श्रनन्तरमेवाचं बाध्येत न व्यवहितम् । नौ गश्चेति णम् । घञि घस्लृभावः सिद्धः । इहाकर्तरीत्येवाभिसंबध्यते । स्त्रीलिङ्गे भावे घञमा भवेत् । एका तिलोच्छ्रितः । द्वे श्रुती । सर्वग्रहणं बाधकबाधनार्थमुक्त क्लिरपि बाध्येत ।
इङः ||२|३|२०|| इत उत्तरं भावे कर्तरीति च वर्तते । इङश्च घोर्घञ् भवति । श्रधीयते इत्यध्यायः । उपेत्याधीयतेऽस्मादित्युपाध्यायः । अपादाने यो घञ तदन्ताद्वा ङीर्वक्तव्यः । उपाध्यायी । उपा
१. प्रायेण संज्ञाया -- श्र० । २ -स्तन्दुलनिश्चाय: ब०, स० । ३. लावक्षाय: अ०, ब०, स० १६
For Private And Personal Use Only