________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
जैनेन्द्र-व्याकरणम् [अ० २ पा० ३ सू० २१-३५ ध्याया। वृद्धकुमारीवरवाक्यन्यायेनास्मिन्विषये क्तिमपि घन बाधते । “शृणातेर्वायुवर्णयोर्धञ् वक्तव्यः" [वा०] शारो वायु: । शारो वर्णः ।।
गौ रुवः ॥२३२२१॥ गिसंज्ञे वाचि रौतेर्घन भवति । विरावः । संरावः। श्रचोऽपवादोऽयम् । गाविति किम् ? रवः ।
समि युद्र दुवः ॥२॥३॥२२॥ संपूर्वेभ्यः यु द्रु दु इत्येतेभ्यो घम् भवति । संयाव । संद्रावः : संदावः । समीति किम् ? यवः।
॥२॥३॥२३॥ समीति वर्तते । सम्पूर्वात् स्तोतेघम् भवति यज्ञविषये। समेत्य स्तुवन्ति अस्मिन्निति संस्तावः छन्दोगानम् । यज्ञ इति किम् ? सतां संस्तवः ।
श्रिणीभुवोऽगौ ॥२॥३॥२४॥ अगिपूर्वेभ्यः श्री णी भू इत्येतेभ्यो धन भवति । श्रायः । नायः । भावः । अगाविति किम् ? प्रश्रयः । प्रभवः । कथं प्रभावो धर्मस्य । प्रकृष्टो भावः प्रभावः इति प्रादिसः । कथं षाड्गुण्यस्य यथावत्प्रयोगो यथावत्प्रयोगो नयः "पुंखौधः प्रायेण'' [२।३।१००] इति करणे धो द्रष्टव्यः ।
नियोऽवोदोः ॥२३॥२५॥ अव उद् इत्येतयोर्वाचोर्नयतेर्घन भवति । अवनायः । उन्नायः। कथमुन्नयः । शब्दानां पूर्ववत्करणे घो विधेयः ।।
निरभ्योः पूल्वोः ॥२३॥२६॥ निस् अभि इत्येवंपूर्वाभ्यां पू लू इत्येतान्यां यथासंख्यं घा. भवति । पू इति सामान्येन ग्रहणम् । निष्पावः | अभिलावः । निरभ्योरिति किम् ? पवः । लवः ।
उन्न्योपः ॥।३।२७। उद नि इत्येवंपूर्वात् गृ इत्येतस्मात् घञ् भवति । गृ इति सामान्येन ग्रहणम् । उद्गारः । निगारः।
कृ धान्ये ॥२६३।२८॥ उन्न्योरिति वर्तते । कृ इत्येतस्माद्धोरुनिपूर्वात् घञ् भवति धान्यविषये । उत्कारो धान्यस्य । निकारो धान्यस्य । धान्य इति किम् ? पुष्पोत्करः । पुष्पनिकरः ।
प्रेद्र स्तु श्रुवः ॥२।३।२६॥ प्रशब्दे याचि दु स्तु श्रु इत्येतेभ्यो घञ् भवति । प्रद्रावः । प्रस्तावः । प्रश्रावः । प्र इति किम् १ द्रवः ।
स्त्रोऽयज्ञे ॥२॥३॥३०॥ प्र इति वर्तते । प्रपूर्वात् स्त इत्येतस्मात् घञ् भवति अयशविषये । शङ्खप्रस्तारः । मणिप्रस्तारः । ऋकारान्तत्वादभि (चि) प्राप्ते इदम् । अयज्ञ इति किम् १ वर्हिष्प्रस्तरः । "इदुदुडोऽ स्यपुग्मुहुसः" [१२] इति षत्वम् ।
प्रथने वावशब्दे ॥२३॥३१॥ प्रथनं विस्तीर्णता । विपूर्वास्तु इत्येतस्मात् घन भवति अशब्दविषये प्रथने । पटस्य विस्तारः । गृहस्य विस्तारः । प्रथन इति किम् ? तृणविस्तरः । अशब्द इति किम् ? वाक्यविस्तरः ।
छन्दः खौ ।।२।३।३२॥ छन्दः पद्ये वर्णविन्यासः । छन्दःसंज्ञायां च विपूर्वांत् स्तृणातेः घन, भवति । विष्टारः पंक्तिच्छन्दः । विष्टारो वृहतीछन्दः । षत्वप्रकरणे विष्टार इति निपातनादेव सिद्ध छन्दःसंज्ञाज्ञापनार्थमिदम् ।
क्षुश्रुवः ॥२॥३॥३३॥ वाविति वर्तते । चु श्रु इत्येताभ्यां विपूर्वाभ्यां धन भवति । विक्षावः । विश्रावः । वावित्येव । क्षवः । श्रवः ।
उदि ग्रहः ॥२३॥३४|| उत्पूर्वाद् अहेर्घन भवति । उद्ग्राहः । अचोऽपवादोऽयम् ।
समि मुष्टौ ॥२॥३॥२५॥ संपूर्वाद् अहेर्घन भवति मुष्टिविषये । शाकमुष्टयादौ परिमाणवचनो मुष्टिशब्दः । तत्र परिमाणाख्यायामित्येव सिद्धं ततोऽन्यदुदाहरणम् । अहो मल्लस्य संग्राहः । अहो मौष्टिकस्य संग्राहः । मुष्टेदाव्यमित्यर्थः । मुष्टाविति किम् ? संग्रहः शास्त्रस्य ।
For Private And Personal Use Only