________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२०
जैनेन्द्र-व्याकरणम्
[अ० २ पा० ३ सू० ५-११
लिप्स्यसिद्धी || २|३|५|| वर्त्यतीत्यनुवर्तते । लिप्सति हि लिप्स्यो दाता श्रोदनादिश्च । तत्र दातरि तासः । लिप्स्यस्य सिद्धिः लिप्स्यसिद्धिः । याचकेन हि यो लिप्स्यते दाता तस्य सिद्धौ स्वर्गादिफलप्राप्तौ । श्रोदनादौ तु भासः । याचकेन हि यो लिप्स्यते श्रोदनादिना करणभूतेन सिद्धिः दातुः स्वर्गादिफलप्राप्तिः तस्यां गम्यमानायां वर्त्स्यति वा लड् भवति । यो भवद्भयो भिक्षां ददाति दास्यति दाता वा स स्वर्गलोकं गच्छति गमिष्यति गन्ता वा । दानाद्दातुः स्वर्गसिद्धिं ब्रुवाणी दातारमेवमुत्साहयति । ननु चात्र उभयत्रापि लिप्साया गम्यमानत्वात् " किंवृत्ते लिप्सायाम्" [२|३|४] इत्येव लविकल्पसिद्धेर्व्यर्थोऽयमारम्भः । न व्यर्थोऽकिंवृत्तार्थत्वादेतदारम्भस्य । पूर्वेण हि किंवृत्ते वाचि विकल्पो विहितः ।
Acharya Shri Kailassagarsuri Gyanmandir
लोड लक्षणे ||२||३|६|| वर्त्यतीति वेति च वर्तते । लोडर्थ: प्रैषादिः, स लक्ष्यतेऽनेन लोडथंलक्षणम्, तस्मिन् लोडर्थलक्षणे ध्वर्थे वर्तमानात् घोर्यत्स्र्यति वा लड् भवति । उपाध्यायश्चेदागच्छति । उपाध्यायश्वेदागमिष्यति । उपाध्यायश्वेदागन्ता । अथ त्वं तर्कमधीष्व अथ गणितमधीष्व । अत्रोपाध्यायागमनेन प्रैषो लक्ष्यते ।
लिङ चोर्ध्वमौहूर्तिके ||२|३|७|| वेति वर्तते । लोडर्थलक्षण इति । ऊर्ध्वं मुहूर्ताद्भवः काल ऊर्ध्वमौहूर्तिकः । निपातनात्सविधिरुत्तरपदस्यैप् । ऊर्ध्वमौहूर्तिके वर्त्स्यति काले लोडर्थ लक्षणे वर्तमानाद्घोर्लिङ भवति लड् वा । ऊर्ध्व ं मुहूर्तादुपाध्यायश्चेदागच्छेत् उपाध्यायश्चेदागच्छति उपाध्यायश्चेदागमिष्यति उपाध्यायश्वेदागन्ता अथ त्वं तर्कमधीष्व अथ त्वं गणितमधीष्व ।
'तुम क्रियायां तदर्थायाम् ॥ २३८ ॥ वर्त्यतीत्येव वर्तते । यस्माद्धोस्योत्पत्तिः प्रार्थ्यते तद्वाच्यक्रिया तच्छन्देनाभिप्रेत्ता सा क्रिया श्रर्थः प्रयोजनं यस्या वजनादिक्रियायाः सा तदर्था, तस्यां वाचि वर्त्स्यति - काले तुमी भवतः । कारको व्रजति । कर्तुं व्रजति । भोजको व्रजति । भोक्तु ं व्रजति । क्रियायामिति किम् ? भिक्षिष्ये इत्यस्य जटाः । श्रध्येष्ये इत्यस्य कमण्डलुः । द्रव्यमत्र तदर्थम् । तदर्थायामिति किम् ? धावतस्ते पतियति दण्डः । नात्र धावनं दण्डपतनार्थम् । ननु सामान्यविहितेन एवुना सिद्ध किमर्थं विधीयते भिकृतो भावे भवन्तीति भिन्नविषयत्वात्तुमपि न बाधकः । क्रियायां तदर्थायां वाचि लुडू वक्ष्यते स बाधकः स्यात् । वाऽसमविधिना एवुर्भविष्यतीति चेत्; एवं तर्हि नियमार्थं वुण्वचनम् । वर्त्स्यति क्रियायां तदर्थायां वाचि बुव यथा स्यात् तृजादयो मा भूवन् इति । कर्ता व्रजति विकिरो व्रजति इत्येवमादि न भवति ।
भाववाचिनः || २|३|६|| भाववाचिनो घञादयस्ते वर्त्स्यति काले क्रियायां तदर्थायां वाचि भवन्ति । यद्यपि सामान्येन विहिता घञादयस्तथापि वण्ग्रहणं ज्ञापकमुक्तम् सामान्यविहितास्त्या वर्त्स्यति काले क्रियाया तदर्थायां न भवन्तीति तुमा च ब ध्येरन् । तेनायं यत्नः । पाकाय व्रजति । त्यागाय व्रजति । मतये व्रजति । पुष्टये वज्रति । "तुमर्थाद् भावे " [ १।४।२५ ] इत्यप् । भाव इति विशेषणेन । वाचि ग्रहणं किमर्थम् ? यकाभ्यः प्रकृतिभ्यो येन विशेषणेन त्या विहितास्ताभ्यः प्रकृतिभ्यस्तेन विशेषणेन क्रियायां तदर्थायां वाचि यथा स्युरित्येवमर्थम् ।
कर्मणि चाण् ||२|३|१० ॥ कर्मणि वाचि तदर्थायां च क्रियायामय् भवति । पूर्वेण वुप्राप्तः । वाऽसमविधिश्च नास्तीत्युक्तम् । श्रय् न स्यात् तेनायमारम्भः । कुम्भकारो व्रजति । काण्डलावो व्रजति । वाचिग्रहणानुवृत्तेर्यथाविहितमय् भवति इति कर्मण्येव वाचि भविष्यति । कर्मग्रहणं किमर्थम् १ अपवादविषयेऽ पि यथा स्यादित्येवमर्थम् । गोदायो व्रजति । तुषपायो व्रजति । क्रियायां तदर्थायामनुवर्तते । चकारः किमर्थः १ केवले कर्मणि केत्रलायां च क्रियायां वाचि मा भूत् । प्रत्येकमोपा निर्देशात् वाक्सः ।
ऌट् ॥२|३|११॥ ऌड् भवति क्रियायां तदर्थायां वाचि । करिष्यामीति व्रजति । हरिष्यामीति व्रजति । उदाहरणे इतिशब्दों हेतुहेतुमद्भावद्योतनार्थः ।
For Private And Personal Use Only