________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प० २ पा० ३ सू. १-४] महावृतिसहितम्
"क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । ‘विधेविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥" तथा अनुक्ताभ्योऽपि प्रकृतिभ्यस्त्या भवन्ति । अण्डः । कृस्वृङः-जरण्डः । करण्डः । सरण्डः । वरण्डः । श्राङि ईर्तेरपीप्यते । एरण्डः । अनुक्ला अपि त्या भवन्ति ऋफिडः ऋफण्डः इत्येवमादिषु । तथा संप्रतिकाले उणादयो विहिताः क्वचिद्भूतेऽपि दृश्यन्ते । कषितोऽसौ कषिः । ततोऽसौ तन्तिः । भसितं भस्म । चरितं चर्म । वृत्तं तदिति वर्म । तदुक्लं (बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्च तदुक्तं नंगमरूढभवं हि सुसाधु ।' जात्यपेक्षयैकत्वं तनुदृष्टेरिति प्यखे कर्मणि का । वनुष्टि वीक्ष्य तनुदृष्टेः प्रकृतस्तनोर्गुणस्य दर्शनादित्यर्थः। तद्बाहुलकमुक्तम् । एवं हि नैगमाः गौरित्येवमादयः मदिभवाः पलाश इत्येवमादयः शब्दा सुसाधवो भवन्ति ।
इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ द्वितीयस्याध्यायस्य द्वितीयः पादः समाप्तः।
गम्यादिवय॑ति ।।२।३३१॥ उणादयो अन्यत्र च ये साधिता गम्यादयः शब्दास्ते च वय॑ति काले माधवो भवन्ति । वर्त्यतीत्यनागतस्य कालस्य सामान्येन ग्रहणम् । संप्रत्यादिकाले तेषां साधुत्वव्यवच्छेदार्थ श्रारम्भः । गमिष्यति गमी ग्रामम् । श्रागमिष्यति आगमी नगरम् । "आधमये चेनः"; [१५] इति कर्मणि तायाः प्रतिषेधात् "कर्मणीप्' [२] इतीबेव भवति । एवं भविष्यति भावी । प्रस्थास्यते प्रस्थायी। प्रतिभोत्स्यते प्रतिबोधी । प्रतियोक्ष्यते प्रतियोगी । प्रयास्यति प्रयायी। "गमेरिन्" इति इन् । स एव "आङि मित्" इति णित् । "मुवश्च' इति भवतेरपि गिन् । अन्येभ्यः "सुपि शीलेऽवातौ हिन्"शश६६] इति णिन् । कथं श्वो गमी ग्रामम् । "अनद्यतने लुङ्' इति लुङ्माप्तेः १ तदसत् । यतो वस्य॑तीत्यनेन सामान्य शब्देनानद्यतनविशेषोऽप्यत्र गृहीतो यथा गौरित्यनेन खण्डमुण्डोऽपि । अतो वय॑तीत्यविशेषेण वृत्तावप्यर्थकरणादेविशेषप्रतिपत्तिः । अथवा "अनद्यतने लुट्” [२।३।३४] इत्यत्र "गम्यादिवस्य॑ति'' इत्येतदनुवर्तिष्यते । तेनानद्यतनविषयेऽपि गम्यादयः सिद्धा भवन्ति । असमाद्वा अनद्यतने भवन्ति । लुड्लुटावपि भवतो गमिष्यति गन्तैति।
पुरायावतोर्लट् ॥२॥३२॥ पुरा च यावच्च पुरायावतौ । तयोः पुरायाच्छन्दयोर्वाचोर्वत्स्यति धोर्लड् भवति । पुरा भुङ्क्ते । पुराधीते । यावद्भुतं । यावदधीते । भविष्यदनद्यतने लुटोऽयमपवादो लट् । लुर्मप लुडपवादः, तत्रापवादयोः स्पर्द्ध परत्वाल्लुट प्राप्तः पूर्वनिर्णयेन लड् भवति । श्वः पुराऽधीते । श्वो यावदधीते । लक्षणप्रतिपदोक्योः प्रतिपदोक्तस्यैव ग्रहण न तु लाक्षणिकस्येत्यभिधानात् । तेनेह न भवति । यावद्दास्यति तावद्धोच्यते ।महत्या पुरा जेष्यति ।
घा कदाकोः ॥२॥३॥३॥ कदा कर्हि इत्येतयोर्वाचोर्वर्त्यति धोर्वा लड् भवति । कदा भुङ्क्ते । कदा भोक्ष्यते । कदा भोक्ला । कहि भुते । कर्हि भोक्ता ।
किंवृत्ते लिप्सायाम् ॥२॥३४॥ किमो वर्तनं किंवृत्तं तस्मिन् वाचि लिप्सायां गम्यमानायां वर्त्यति वा लड् भवति । लुटि लुटि च प्राप्त अयमारम्भः । लब्धुमिच्छा लिप्सा प्रार्थनाभिलाषः। को भवद्थो भिक्षा ददाति । को भवद्भयो भिक्षां दास्यति । को भवद्भयो भिक्षां दाता । इह कस्मान्न भवति । कदा भोजयिष्यसि भोजयितासि वा । किमो हि विभक्त्यन्तस्य डतरडतमान्तस्य च वर्तनं किंवृत्तमिति वैयाकरणानामभिप्रायः । तच्चेह नास्ति ततोऽत्र लटोऽभावात् लङलुटावेव भवतः । लिप्सायामिति किम् ? कः पाटलिपुत्र यास्यति ?
For Private And Personal Use Only